खण्डः ३ - अध्यायः ३५४
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥वज्र उवाच ॥
माहात्म्यं देवदेवस्य विष्णोरमिततेजसः॥
तृप्तिर्न विद्यते तस्मान्माहात्म्यमपरं वद ॥१॥
तस्यैव देवदेवस्य विष्णोरमिततेजसः॥
रक्षायुक्तं पवित्रं च लोकेष्वाश्चर्यमुत्तमम् ॥२॥
॥मार्कण्डेय उवाच ॥
एकान्तभावोपगतः कश्चिदासीद्द्विजोत्तमः ॥३॥
सात्त्वतो गौतमश्रेष्ठो विष्वक्सेन इति श्रुतः॥
पञ्चकालविधानज्ञः पाञ्चरात्रविधानवित् ॥४॥
सततं पूजयामास देवदेवं जनार्दनम्॥
कृष्णायतनपूजार्थं स बभ्राम वसुन्धराम् ॥५॥
आससाद कदाचित्तु पर्वतं गह्वरं महत्॥
यत्र माहेश्वरः सर्वो जनो यद्बलजो बहु ॥६॥
स तत्र निर्झरे स्नात्वा पूजयामास केशवम्॥
वेद्यां प्रकल्पितायां तु भोगैः सन्निहितैः प्रभुम् ॥७॥
तस्मात्तु गह्वारात्कश्चिद्विनिष्क्रम्य यदृच्छया।
निबद्धखड्गैर्बहुभिः पुरुषैश्चापपाणिभिः ॥८॥
सहितस्तं ददर्शाथ पूजयन्वै जनार्दनम्॥
तस्य गत्वा समीपे तु ग्रामस्वामिकुमारकः ॥९॥
तमुवाच त्वमभ्येहि देवकर्म कुरुष्व मे॥
शिरोरुगर्दितस्तात स्नातुं शक्नोमि नाद्य वै ॥१०॥
देवकर्मण्यशक्तिर्मे तात पूजय शङ्करम्॥
देवतायतनं गत्वा यत्र तात प्रतिष्ठितम् ॥११॥
लिङ्गमस्ति सुरेशस्य महादेवस्य निर्मितम्॥
एतदुक्तं प्रत्युवाच वयमेकार्चिनः श्रुताः ॥१२॥
चतुरात्मा हरिः पूज्यः प्रादुर्भावगतोऽथ वा॥
पूजयाम्यद्य नैवान्यं तस्मात्त्वं गच्छ मा चिरम् ॥१३॥
एवमुक्तः कुमारस्तु खड्गमाकृष्य सत्त्वरम्॥
तमुवाच तदा विप्रं त्वां वधिष्ये न संशयः ॥१४॥
यदि लिङ्गार्चनं गत्वा न करोषि हि दुर्मते॥
शस्त्रादधिको देवो न ह्येकोस्ति नराधम ॥१५॥
खड्गेन पातयिष्यामि भवच्छीर्षमसंशयम्॥
एवमुक्तेः स तेनाथ प्राणरक्षा परायणः ॥१६॥
बहिर्गच्छामि तत्रेति तेन सार्धं तदा ययौ॥
दृष्ट्वा च लिङ्गं देवस्य चिन्तयामास धर्मवित् ॥१७॥
विष्णुः सर्वगतो देवः सर्वात्मा मधुसूदनः॥
तस्य रौद्रेण भावेन महादेवः प्रतिष्ठितः ॥१८॥
तस्य वै रौद्रभावेन नरसिंहस्तथा प्रभुः॥
लिङ्गेस्मिन्पूजयिष्यामि नरसिंहवपुर्धरम्॥
देवदेवं महात्मानं तेन नित्यं सुरार्चनात् ॥१९॥
प्रत्यपायो न भविता प्राणत्राणमभीप्सितः॥
ततः स देवदेवेशं नरसिंहवपुर्धरम् ॥२०॥
मनसा तु तदा ध्यात्वा पूजयामास लिङ्गगम्॥
नमोस्तु ते नृसिंहाय वदन्नेव कृताञ्जलिः ॥२१॥
नमोस्तु नरसिंहाय श्रुत्वा तस्मात्सुभाषितम्॥
ग्रामेशनन्दनः क्रुद्धः खड्गमाकृष्य सत्त्वरम् ॥२२॥
प्रहारमुद्यतो दातुं तस्य विप्रस्य धीमतः॥
लिङ्गं भित्त्वा ततो देवो नरसिंहवपुर्धरः ॥२३॥
समुत्थाय ततः क्रोधाद् ग्रामस्वामिकुमारकम्॥
ददाह भगवाञ्छीघ्रं सानुगं नेत्रवह्निना ॥२४॥
तस्य सात्त्वतमुख्यस्य दिव्यं चक्षुर्ददौ ततः॥
ददर्श येन वेशेन नरसिंहवपुर्धरम् ॥२५॥
दृष्ट्वा स्तोत्रेण तुष्टाव तदा तस्य जनार्दनः॥
स्तोत्रस्य तु वरं प्रादात्तन्मे निगदतः शृणु ॥२६॥
रक्षोघ्नं पापशमनं भूतवेतालनाशनम्॥
यो जपेत्तत्सदैवास्तु मङ्गल्यं श्रीविवर्धनम् ॥२७॥
नारसिंहेषु लोकेषु मोदंते सहितो मया॥
यावत्कल्पावशेषं तु ततो मान्त्वमुपेष्यसि ॥२८॥
एतावदुक्त्वा सहसा तु तेन तत्रैव देवप्रवरो महात्मा॥
अपश्यतां यादववंशमुख्य जगाम शीघ्रं नरसिंहमूर्तिः ॥२९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गस्फोटननरसिंहदर्शनवर्णनो नाम चतुष्पञ्चाशदधिकत्रिशततमोऽध्यायः ॥३५४॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP