संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२९

खण्डः ३ - अध्यायः ३२९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
एका द्वे च तथा तिस्रश्चतस्रश्च यथाक्रमम्॥
शूद्रविट्क्षत्रविप्राणां भार्याः प्रोक्ता मनीषिभिः ॥१॥
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते॥
ते च स्वा च तथा राज्ञस्ताश्च स्वा चाग्रजन्मनः ॥२॥
न विवर्णा भवेद्भार्या कदाचिदपि कस्यचित्॥
सवर्णैव भवेज्ज्येष्ठा असवर्णासु सत्स्वपि ॥३॥
अष्टौ विवाहा निर्दिष्टास्तेषां वक्ष्यामि लक्षणम्॥
आहूय दानाद्ब्राह्मस्तु ऋत्विजैर्दैव उच्यते ॥४॥
गोयुगग्रहणादार्षः प्राजापत्योर्थिते तथा॥
आसुरो द्रविणादानाद्गान्धर्वस्तु मताद्द्वयोः ॥९॥
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात्॥
प्राजापत्यस्तथा दैवो ब्राह्मश्चापि शुभास्त्रयः ॥६॥
गान्धर्वो राक्षसश्चैव मध्यमौ परिकीर्तितौ॥
आसुरश्चैव पैशाच आर्षश्चैव तथाधमः ॥ ॥७॥
न ते कार्याः प्रयत्नेन कदाचिदपि केनचित्॥
आसुरस्य तथार्षस्य विशेषो नैव विद्यते ॥८॥
शुक्लमेव ततो ज्ञेयमल्पं वा यदि वा बहु॥
प्राणिविक्रयिणः सर्वे नरकं यान्ति मानवाः॥
विशेषेण च यः पुत्रं विक्रीणाति स्वकं नरः॥
नरके वसतिं तस्य बहूनब्दगणान्विदुः ॥१०॥
मृते भर्तरि या कन्या केवलं हस्तदूषिता॥
सा चेदक्षतयोनिः स्यात्पुनः संस्कारमर्हति ॥११॥
इत्येवं केचिदिच्छन्ति न तन्मम मतं द्विजाः॥
सप्तमे हि पदे वृत्ते नान्यमर्हति सा पतिम् ॥१२॥
वाचा दत्ता तु या कन्या मन्त्रैश्चैव न संस्कृता॥
अन्यस्य सा भवेद्देया सति भर्तरि दोषिणी ॥३॥
नष्टे मृते प्रव्रजिते क्लीबेऽथ पतिते पतौ॥
पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ॥१४॥
पितापितामहो भ्राता सकुल्यो जननी तथा॥
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥१५॥
यस्तु दोषमनाख्याय कन्यकां संप्रयच्छति॥
स राज्ञा द्विशतं दत्त्वा बिभृयात्तां च कन्यकाम् ॥१६॥
अदुष्टामथ यो दुष्टां ब्रूयाद्दोषेण मानवः॥
प्रथमं साहसं तस्य राजा दण्डं प्रकल्पयेत् ॥१७॥
यस्तु दोषवतीं पत्नीं सम्यक्त्वेनानुवर्त्तते॥
दण्डयित्वा स्वशक्त्या तं समे पथि निवेशयेत् ॥१८॥
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिबलदर्पिता॥
तां श्वभिः खादयेद्राजा संस्थाने वध्यघातिनाम् ॥१९॥
भार्याया व्यभिचारिण्या परित्यागो विधीयते ॥२०॥
हीनवर्णगमे चास्या वधमुक्तं मनीषिभिः॥
भर्त्रनुज्ञां विना राजा स्त्रीणां च प्रभवेत् क्वचित् ॥२१॥
अशक्तभर्तृकां नारीं शासयेत्तदनुज्ञया॥
योन्यस्मै कन्यकां दत्त्वा भूयोन्यस्मै प्रयच्छति ॥२२॥
वित्तस्यांशं तुरीयं तु तं राजा दण्डयेन्नरम्॥
भर्तृदोषे समुत्पन्ने न सा दण्डमवाप्नुयात् ॥२३॥
यस्तु न व्रजते भार्यामृतुकाले नराधमः॥
ऋतावृतौ भवेद्दंड्यः स सुवर्णस्य माषकम् ॥२४॥
आहूयमाना या भार्या भर्तारं न व्रजेदृतौ॥
विवास्या सा भवेद्भर्त्रा दोषं व्याख्याप्य मातरम् ॥२५॥
यस्त्यजेच्च तथा भार्यामदुष्टां पुरुषाधमः॥
स सुवर्णं भवेद्दंड्यो बिभृयात्तां तथा पुनः ॥२६॥
विषमं परिणीतासु वर्तते यस्तु मानवः॥
सवर्णासु भवेद्दण्ड्यः सुवर्णं स महीक्षिता ॥२७॥
त्रीणि वर्षाण्युपासीत कुमार्यृतुमती सती॥
उक्तकालात्परं कन्या विन्देत सदृशं पतिम् ॥२८॥
अलङ्कारं नाददीत पित्र्यं कन्या स्वयं वरात्॥
मातृकं भ्रातृदत्तं वा स्तेयं वा स्याद्धि तं हरेत् ॥२९॥
कन्यान्तु चेदृतुमतीं पुरुषो न दद्याच्छक्तोपि न द्विजवरश्च स दण्डनीयः॥
स्वाम्यं न तां प्रति च तस्य भवेत्कदाचित्पुत्रीमृतौ न ददतो न पुनर्द्विजत्वम ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु विवाहधर्मनिरूपणो नामैकोनत्रिंशदुत्तरत्रिशततमोऽध्यायः ॥३२९॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP