संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३४०

खण्डः ३ - अध्यायः ३४०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
चतुर्थमायुषो भागमन्त्यं यत्याश्रमे वसेत्॥
कृत्वेष्टिं विधिवत्पश्चात्सर्ववेदीसदक्षिणाम् ॥१॥
आत्मन्यग्नीन्समारोप्य द्विजो ब्रह्माश्रमी भवेत्॥
ग्रामैकरात्रिकः स स्यान्नगरे पाञ्चरात्रिकः ॥२॥
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने॥
अतीते पात्रसञ्चारे भिक्षां नित्यं यतिश्चरेत् ॥३॥
सप्तागारं चरेद्भैक्ष्यं भिक्षुकान्नानुभिक्षयेत्॥
न व्यथेत तथाऽलाभे यथालाभेन वर्तयन् ॥४॥
नास्वादेत रसान्भिक्षुर्नाश्नीयात्कस्यचिद्गृहे॥
मृन्मयालाबुपात्राणि दारुवैदलकानि च॥
तेषां सम्मार्जनाच्छुद्धिरद्भिश्चैव प्रकीर्तयेत् ॥५॥
कौपीनाच्छादनं वासो रथ्याविद्धमपाहरेत् ॥६॥
शून्यागारनिकेतः स्याद्यत्र सायं गृही मुनिः॥
कर्मदण्डं मनोदण्डं वाग्दण्डं च तथा न्यसेत् ॥७॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम्॥
सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ॥८॥
चन्दनेनोक्षितो बाहुं वास्यैकमपि तक्षतः॥
कल्याणं चाप्यकल्याणं तयोरपि न चिन्तयेत् ॥९॥
प्राणायामैर्दहेद्दोषान्धारणाभिस्तु किल्बिषम्॥
प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥१०॥
निराशीर्निर्नमस्कारः समलोष्टाश्मकाञ्चनः॥
सर्वभूतसमो मैत्रः परमं पदमश्नुते ॥११॥
जन्मना यस्तु निर्विण्णः मरणेन तथैव च॥
आधिभिर्व्याधिभिश्चैव तं देवा ब्राह्मणं विदुः॥
अशुचित्वं शरीरस्य प्रियाप्रियविपर्ययः ॥१२॥
गर्भवासे च वसतिं पश्यन्मुच्यति नान्यथा॥
जन्ममृत्योश्च नानन्दं न त्वसारमनर्थकम् ॥१३॥
भोक्तव्यमिति निर्विण्णः प्रत्यहमुच्यते वचः॥
एवं वैराग्यमास्थाय नित्यं ध्यानपरायणः ॥१४॥
चतुर्विंशतिकं लंघ्य प्रपश्येत्पञ्चविंशकम॥
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥१५॥
पञ्चेमानि विजानीयान्महाभूतानि सर्वतः॥
श्रोत्रं चक्षु स्पर्शनं च रसनं प्राणमेव च ॥१६॥
बुद्धीन्द्रियाणि जानीयात्पञ्चैवास्मिञ्छरीरके॥
शब्दो रूपं तथा स्पर्शो रसो गन्धस्तथैव च ॥१७॥
कर्मेन्द्रियाणि पञ्चैव नित्यमस्मिञ्छरीरके॥
मनोबुद्धी तथैवात्मा ह्यव्यक्तं च तथा द्विजाः ॥१८॥
इन्द्रियेभ्यः पराणीह चत्वारि कथितानि तु॥
चतुर्विंशत्यथैतानि पुरुषः पञ्चविंशकः ॥१९॥
यं ज्ञात्वा प्रतिमुच्यंते ये नराः शान्तबुद्धयः॥
गन्धो रसस्तथा वायुः स्पर्शः शब्दस्तथा द्विजाः ॥२०॥
एते पञ्चगुणा भूमेः स्थूला भूमेषु लक्ष्यते॥
रसो रूपस्तथा स्पर्शः शब्दाश्चाम्बुगुणा मताः ॥२१॥
रूपं स्पर्शस्तथा शब्दः तेजसस्तु गुणाः स्मृता॥
स्पर्शः शब्दस्तथा वायोः शब्दश्च नभसस्तथा ॥२२॥
आकाशाज्जायते शब्दो वायोः स्पर्शगुणस्तथा॥
रूपं तु तेजसः प्रोक्तो रसश्चाम्बुगुणो मतः ॥२३॥
पार्थिवं गन्धमित्याहुरिन्द्रियार्थाः प्रकीर्तिताः॥
इन्द्रियेभ्यः परा अर्था अर्थेभ्यस्तु परं मनः ॥२४॥
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः॥
महतः परमव्यक्तं त्वव्यक्तात्पुरुषः परः ॥२५॥
पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः॥
एतत्परतरं गुह्यमेतदक्षरमुत्तमम् ॥२६॥
ॐकारवाचकं ह्येतद्गुणातीतं सनातनम्॥
अशब्दमरसस्पर्शमरूपं गन्धवर्जितम् ॥२७॥
निर्दुःखमसुखं दुःखं तद्विष्णोः परमं पदम्॥
वालाग्रशतशो भागः कल्पितस्तु सहस्रधा ॥२८॥
तस्यापि शतशो भागो जीव इत्यभिधीयते॥
हृद्यर्कचन्द्रमाः सूर्यः सोममध्ये हुताशनः ॥२९॥
तस्य मध्ये स्थितं सत्त्वं सत्त्वमध्ये स्थितोच्युतः॥
स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ॥३०॥
ध्याननिर्मथनाभ्यासाद्विष्णुं पश्येद्धदि स्थितम्॥
एष देवस्तु मर्त्यानां वणैरेव विधीयते ॥३१॥
अज्ञानपटसंवीतैरिन्द्रियैर्विषयेप्सुभिः॥
एष वै पुरुषो विष्णुर्व्यक्ताव्यक्तः सनातनः ॥३२॥
एष धाता विधाता च प्रमाणो निष्कलः शिवः॥
द्वे ब्रह्मणी वेदितव्ये शाब्दब्रह्म परं च यत् ॥३३॥
शाब्दब्रह्मणि निष्णातः परं ब्रह्माधि गच्छति॥
सूक्ष्मं नित्यमुपासीत शुभं च सततं द्विजाः ॥३४॥
सूक्ष्मस्योपासनाच्छ्रेष्ठां याति तेजोमयीं गतिम्॥
तत्त्वं वहति वै बुद्धिं बुद्धिस्तु परमाङ्गतिम् ॥३५॥
गतिर्वहति चंद्रार्कौ तपसा परमेष्ठिनः॥
तयोर्वहति वै सत्त्वं सत्त्वं च वहति प्रभुम् ॥३६॥
प्रभुवर्हति सौक्ष्म्यं तु परमात्मानमात्मनः॥
तयोर्वृत्तिरजः सत्त्वं सत्त्वस्य परमा गतिः ॥३७॥
सत्त्वं वहति सूक्ष्मत्वात्परं नारायणं प्रभुम्॥
परमात्मानमासाद्य हरिं वैकुण्ठमीश्वरम् ॥३८॥
अमृतत्वाय कल्पेत ततो नैव निवर्त्तते॥
दशार्धयुक्तेन रथेन युक्तो मनोनुगेनार्यपथानुवर्तिना॥
तञ्चेद्रथं नापवहंति वाजिनस्तथागतं नावजयेति शक्तः ॥३९॥
अणोरणीयान् महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः॥
तेजोमयं पश्यति वीतशोको धातुः प्रसादान्महिमानमात्मनः ॥४०॥
वेदाहमेतं पुरुषं महान्तं चादित्यवर्णं तमसः परस्तात्॥
यं वै विदित्वा न बिभेति मृत्योर्नान्यः पन्था विद्यतेऽयनाय ॥४१॥
एको ह्यात्मा महिमा ब्राह्मणस्य स्वकर्मणा वै जायतेऽसौ कनीयान्॥
यस्मात्परं नापरमस्ति किञ्चित्सौक्ष्म्यान्महत्त्वाच्च ततश्च नान्यः ॥४२॥
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्॥
सुस्वादुपर्णः सुच्छायो दृश्यते स वृक्षः परिषस्वजाते॥
तयोरन्यत्पिप्पलं नाम स्वाद्वन्यदश्नन्यो अभिचाकशीति ॥४३॥
अकामधीरमृतः स्वयंभू रसेन तृप्तो न च कश्चिद्द्रुमाणाम्॥
परेण नाकं नापतिर्न गृहाय विभ्राजते तं नियता विशन्ति । ४४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु यतिधर्म वर्णनो नाम चत्वारिंशदधिकत्रिशततमोऽध्याय ॥३४०॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP