संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३४

खण्डः ३ - अध्यायः ३३४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
कृतकस्त्रिविधः प्रोक्तस्तस्य वक्ष्यामि लक्षणम्॥
एकत्र कालावधिको देशावधिरथापरः ॥१॥
कर्मावधिस्तृतीयस्तु सर्वे कर्मकराः स्मृताः॥
अदेशकाले कर्मादौ भृतकश्चेत्त्यजेद्भृतिम् ॥२॥
भृतिश्चादीयते सर्वा स्वामिदोषो न चेद्भवेत्॥
हारिते स्वामिदोषेण दाप्यश्च भृतिको भवेत् ॥३॥
राजा च दण्डनीयः स्यात्तथा पणशतं भवेत्॥
गृहीतमूल्यं यः शिल्पी काले द्रव्यं न यच्छति ॥४॥
द्विगुणं दीयते मूलं द्रव्यं दाप्यं तथैव च॥
तद्द्रव्यं च विना हानिं सकलां दातुमर्हति ॥५॥
भृत्यदोषं विना स्वामी भृत्यमर्धपथे त्यजेत्॥
तुल्यं तु सकलं दद्याद्राज्ञः कनकमाषकम् ॥६॥
आर्तस्य भक्तं दातव्यं स्वस्थस्तत्कर्म पूरयेत्॥
स्वस्थोऽपि चेन्न तत्कुर्याद्द्विगुणं भक्तमुत्सृजेत् ॥७॥
प्रमादान्नाशितं दाप्यं समं छिद्राहता शतम्॥
प्रसह्य यद्धृतं चौरैर्न तद्दाप्यो भवेत्क्वचित् ॥८॥
तोयाग्निनाशे शक्त्या चेत्प्रवर्तेनव दापयेत्॥
राज्ञा हृतं तथा द्रव्यं न स दाप्यः कथंचन ॥९॥
यत्र गुप्त्या भवेन्नित्यं तत्र चेद्व्यापको भवेत्॥
तत्सर्वं दापयेद्द्रव्यं यत्किंचित्तत्र नश्यति ॥१०॥
शकटाद्यं तु गृह्णीयाद्भाटकेन तु यो नरः॥
अददद्भाटकं दाप्यो व्यूढस्यापि च भाटकम् ॥११॥
भृतिं यः प्रतिपद्येत विनैव समयक्रियाम्॥
देशकालौ च शक्तिं च भक्तिं चावेक्ष्य शक्तितः ॥१२॥
भृतिस्तस्य प्रदातव्या दाप्यो राज्ञा बलादथ॥
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकः ॥१३॥
दुर्भिक्षविधृतो यस्तु मोक्षतः प्राणसंशयात्॥
प्रतिशीर्षं प्रदानेन मुच्यते च ध्वजाहृतः ॥१४॥
ग्रासमाच्छादनं देयं सर्वेषामेव सर्वदा॥
तथैव राजा भृत्यानां भृतिं वर्षशतादपि ॥१५॥
पुत्रपौत्रानुगश्चेत्स्याद्यद्यसौ तत्र कर्मकृत्॥
अध्यापने यो भृतकस्तस्याप्येष विनिश्चयः ॥१६॥
काले भृत्यैर्जयेत्किंचिद्यदि चित्तं स्वकर्मणा॥
भक्तदस्यैव तत्सर्वमिति धर्मविदो विदुः ॥१७॥
भार्या पुत्रश्च दासश्च त्रय एवाधना मताः॥
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥१८॥
वर्णानामानुलोम्येन न दास्यं प्रतिलोमतः॥
प्रातिलोम्येन चेद्दास्यं कारयेत्तं विनाशयेत् ॥१९॥
शुल्कं गृहीत्वा पण्यस्त्री नेच्छती द्विगुणं वहेत्॥
अप्रयच्छन्पुमाञ्शुल्कं दाप्यं त्वष्टगुणं भवेत् ॥२०॥
पशून्नयेदरण्यं तु पालको रजनीक्षये॥
तृप्तान्पीतजलान्सर्वान्सायाह्ने तु समर्पयेत् ॥२१॥
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे॥
पशूनां व्यसनं गोपो व्यायच्छेत्तत्र शक्तितः ॥२२॥
अशक्तानपि पत्तौ तु स्वामिने तन्निवेदयेत॥
अध्यायच्छन्नविक्रोशं स्वामिने विनिवेदयेत् ॥२३॥
वोढुमर्हति गोपस्तु विनयं चापि राजनि॥
नष्टं विनष्टं कृमिभिः श्वहतं व्यसने मृतम् ॥२४॥
हीनं पुरुषकारेण पालको विनिवेदयेत्॥
अजाविके तु संरुद्धे वृकैः पाले त्वनायति ॥२५॥
यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत्॥
तासां चेद्दैवरुद्धानां चरन्तीनां मिथो वने ॥२६॥
यामुत्पत्य वृको हन्यान्न पालस्तत्र किल्बिषी॥
विद्विष्य तु हृतं चौरैर्न पालो दातुमर्हति ॥२७॥
यदि देशे च काले च स्वामिनस्तस्य शंसति॥
एतेन सर्वपालानां विवादः समुदाहृतः ॥२८॥
साकं सशृङ्गं सखुरं च चर्म प्रदर्शयित्वाथ पशोर्मृतस्य॥
पालस्य शुद्धिः कथिता द्विजेन्द्रा अतोन्यथा तस्य न शुद्धिरुक्ता ॥२९॥
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु स्वामिभृत्यनियमवर्णनो नाम चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥३३४॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP