खण्डः ३ - अध्यायः ३३८
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥हंस उवाच॥
धनं धर्मार्थकामानां मूलमाहुर्मनीषिणः॥
नृणां बहिश्चरा प्राणा द्रविणं च प्रकीर्तितम् ॥१॥
तस्माद्धर्मविदा राज्ञा घातनीयास्तु तस्कराः॥
ते हि घातनमर्हन्ति सर्वा बाधा विशेषतः ॥२॥
राज्ञो धर्मं न पश्यामि तस्करस्य वधादृते॥
स्नेहाद्वा धनलोभाद्वा राजा चेत्तस्करं त्यजेत् ॥३॥
ब्रह्मवध्याशतं तस्य प्राहुर्धर्मविदो जनाः॥
न हन्याद्ब्राह्मणं राजा सर्वपापेष्ववस्थितम् ॥४॥
स्तेनं विवासयेद्राष्ट्रात्समग्रधनमक्षतम्॥
महापातकिनं विप्रं कृतचिह्नं विवासयेत् ॥५॥
ग्रामसीम्नि हृतं द्रव्यं ग्राम्यो दाप्यस्तथा भवेत्॥
यस्मिन्ग्रामे पदं गच्छेत्स च दाप्यस्तथा भवेत् ॥८॥
ग्रामे द्वौ दण्डनीयौ तु सीमामध्ये हृतं यदि॥
अटव्यां तं नियुक्तं तु नगरे नगराधिपः ॥७॥
महापातकिनः सर्वे घातनीया महीक्षिता॥
कबन्धेनाङ्कयेद्विप्रं ललाटे ब्रह्मघातकम् ॥८॥
सुरापं तद्व्रजेनाथ कृतं चाश्वपदेन तु॥
अगम्यगामिनं विप्रं भगाङ्केनाङ्कयेन्नृपः ॥९॥
घातनीयास्तथा राज्ञा नरस्त्रीबालघातिनः॥
अग्निगरदाश्चैव भूम्यर्थे कूटसाक्षिणः ॥१०॥
सेतुभेदकरा ये च राज्ञो व्यङ्कचराश्च ये॥
ते चाङ्गहीनाः कर्तव्या राज्ञा कूटाक्षदेवकाः ॥११॥
करहीनस्तथा कार्यो यश्चेहोपधिदेविता॥
उत्क्रोशतां जनानां च ह्रियमाणे धने वधे ॥१२॥
श्रोता यस्तु न वावर्तेद्राजा तानपि घातयेत्॥
गजाश्वघातिनो वध्यास्तथा गोघातिनश्च ये ॥१३॥
परिशेषपशूनां तु घातिनां छेदयेत्करम्॥
कार्षापणशतं दण्ड आरण्यपशुघातने ॥१४॥
पक्षिघाती तदर्धं तु इति धर्मविदो विदुः॥
फलो पगद्रुमच्छेदे दण्ड उत्तमसाहसम् ॥१५॥
पुष्पप्रदस्य यश्छेदी मध्यमं दण्डमर्हति॥
कार्षापणशतं दंड्या लतामुल्मादिभेदकाः ॥१६॥
सवर्णगः पारजायी दंड्या उत्तमसाहसम्॥
हीनवर्णागमे दण्ड्यास्तथा प्रथमसाहसम् ॥१७॥
तथैवोत्तमवर्णाया गमने घातमर्हति॥
हीनवर्णगमे नारी वधमर्हत्यसंशयम् ॥१८॥
समवर्णागमे त्याज्या उत्कृष्टामथ गच्छति॥
हृताधिकारां मलिनां तां तु संवासयेद्गृहे ॥१९॥
येनयेन तथांगेन हीनवर्णो नरोधमः॥
उत्कृष्टस्यापकुरुते तत्तदेवास्य घातयेत् ॥२०॥
श्वपाकपंडुचण्डालेष्वन्येषु वधवृत्तिषु॥
हस्तिप्रव्राज्यदासेषु गुरुदाराभिगेषु च ॥२१॥
मर्यादातिक्रमे सद्यो घात एवानुशासनम्॥
मला ह्येते मनुष्येषु धनमेषां सदात्मकम् ॥२२॥
तस्मात्तान्घातयेद्राजा नार्थदण्डेन दण्डयेत्॥
शतं ब्राह्मणमाक्रम्य क्षत्त्रियो दण्डमर्हति ॥२३॥
विप्रः पंचशतं दण्ड्यः क्षत्रियस्याभिशंसने॥
वैश्यः स्यादर्धपञ्चाशच्छूद्रे द्वादशके दमः ॥२४॥
क्षत्त्रियस्य तु पंचाशद्दंडो वैश्येऽभिशंसने॥
शूद्रः स्यादर्धपंचाशद्वैश्यः शूद्राभिशंसने ॥२५॥
कार्षापणं भवेद्दंड्यस्तथा वै पञ्चविंशतिः॥
आक्रोशे स सवर्णानां द्वादशैव व्यतिक्रमः॥
वादेषु वचनीयेषु तदेव द्विगुणं भवेत्॥
काणं वाप्यथ वा खंजं त्वन्यद्वापि तथाविधम् ॥२७॥
तथ्येनापि ब्रुवन्दाप्यो दण्डः कार्षापणं नरम्॥
न किल्बिषेनापवदेच्छास्त्रतः कृतवासनम् ॥२८॥
न राज्ञा धृतदण्डं तु दण्डता तद्व्यतिक्रमात्॥
राजा च ब्राह्मणश्चैव लोके पूज्यतमौ मतौ ॥२९॥
नामजातिग्रहं तेषां त्वभिद्रोहेण कुर्वतः॥
निधेयोयोमयः शंकुर्ज्वलन्नास्ये दशाङ्गुलः । ॥३०॥
धर्मोपदेशे धर्मेण द्विजानामस्य कुर्वति॥
तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥३१॥
सहासनमभिप्रेप्सुरुत्कृष्टस्यावकृष्टजः॥
कट्यां कृतांको निर्वाप्यः कृतं चैवास्य कीर्तयेत् ॥३२॥
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ च्छेदयेन्नृपः॥
अवमूत्रयतः शिश्नमवशद्वयतो गुदम् ॥३३॥
तमुपाक्रम्य राजानं जिह्वाच्छेदनमर्हति॥
राजा न प्रहरेद्यस्तु कृतागस्यपि दुर्मतिः ॥३४॥
तमग्नौ विपचेच्छूले ब्रह्महत्याशतातिगम्॥
गुरुं वा बालवृद्धं वा ब्राह्मणं वा बहुश्रुतम्॥
आततायिनमायांतं हन्यादेवाविचारयन् ॥३५॥
संक्षेपतो धर्मभृतां वरिष्ठा राज्ञो मयैते कथितास्तु धर्माः॥
अतः परं यत्र च संशयोस्ति तं मे वदध्वं तपसि प्रधानाः ॥३६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु दण्डानुशासनवर्णनो नामाष्टात्रिंशदधिकत्रिशततमोऽध्यायः ॥३३८॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP