संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८८

खण्डः ३ - अध्यायः २८८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
दैवाधीना प्रजाः सर्वा देवायत्तमिदं जगत्॥
सुखदुःखे मानुषाणां देवायत्ते तथैव च ॥१॥
देवैर्विहितमश्नन्ति मनुष्यास्तु शुभाशुभम्॥
तस्मात्सर्वप्रयत्नेन देवपूजापरो भवेत् ॥२॥
देवाश्च भक्त्या तुष्यन्ति श्रद्धया परया तथा॥
पूजिताः शुचिना चैव देवास्तुष्यन्ति नान्यथा ॥३॥
देवशुश्रूषया स्वर्गो देवशुश्रूषया सुखम्॥
देवशुश्रूषया राज्यं मोक्षं चाप्यथवाप्यते ॥४॥
देवताः कामयन्तीह तथा भक्तं जनं सदा॥
भक्तानुकम्पिनो देवाः परत्रेह तथा ध्रुवम् ॥५॥
त्राणं कुर्वन्ति भक्तस्य ध्रुवं देवा द्विजोत्तमाः॥
देवतोषादवाप्नोति यान्कामान्मनसेच्छति ॥६॥
जातप्रभृति यं देवं भक्त्या नित्यमथार्चयेत॥
अन्तकाले तु संप्राप्ते सोऽपि त्राता भवेद् ध्रुवम् ॥७॥
किं वा पापविहीनस्य क्षिप्रं तुष्यन्ति देवताः॥
तस्मात्पापं न कर्त्तव्यं नरेण त्रिदशाश्रयात् ॥८॥
देवाश्रितानां पापानां क्षिप्रं पापं विनश्यति॥
नत्वेव पातकं कर्म वृथा तेषां प्रजायते ॥९॥
तथा बहु फलं लोके कथितं त्रिदशाश्रयम्॥
सर्वान्समर्चयेद्देवानेकं वा देवमाश्रयेत् ॥१०॥
देवार्चां श्रद्धया कृत्वा ध्रुवं तल्लोकमाप्नुयात्॥
कृत्वा देवगृहं विप्रा नरस्तल्लोकमाप्नुयात् ॥११॥
परमाणूनि यावन्ति भवन्ति सुरवेश्मनः॥
तावतोऽब्दानवाप्नोति तल्लोकान्नात्र संशयः ॥१२॥
यावद्वारं करोतीह देववेश्म सुधासितम्॥
जन्मान्तराणि तावन्ति यशसा स विराजते ॥१३॥
प्रतिपाद्य तथा भक्त्या ध्वजं त्रिदशवेश्मनि॥
निर्णुदत्याशु पापानि महापातकजान्यपि ॥१४॥
चित्रकर्म तथा कृत्वा गन्धर्वै सह मोदते॥
देवमाल्यापनयनाद्गोदानफलमाप्नुयात्। ॥१५॥
पापैर्विमुच्यते सर्वैः प्रोक्षणाद्देववेश्मनः॥
सम्मार्जनात्तथा पापं व्यपोहति न संशयः ॥१६॥
कामानभीष्टानाप्नोति देववेश्मोपलेपनात्॥
सुधारेखान्वितं कृत्वा मर्यादां नातिवर्तते ॥१७॥
वर्णकैश्चित्रितं कृत्वा सौभाग्यं महदाप्नुयात्॥
गन्धर्वत्वमवाप्नोति गन्धैरभ्युक्ष्य मानवाः ॥१८॥
पुष्पैर्विकिरणं कृत्वा रूपवानभिजायते॥
अभ्यज्य देवप्रतिमां सर्वदुःखैर्विमुच्यते ॥१९॥
विरूक्षयित्वा तामेव पापेभ्यो विप्रमुच्यते॥
ओषधीभिस्तथा स्नाप्य नासत्यैः सह मोदते ॥२०॥
लोके प्रजापतेर्याति वेदैः संस्नाप्य देवताम्॥
पुष्पोदकेन स्नपनात्सौभाग्यं महदश्नुते ॥२१॥
फलोदकेन संस्नाप्य सफलां विन्दते क्रियाम्॥
नागवल्लीजलैः स्नाप्य नागलोकं स गच्छति ॥२२॥
रत्नोदकेन स्नपनाद्धानदं लोकमाप्नुयात्॥
गन्धोदकेन मुख्येन गन्धर्वैः सह मोदते ॥२३॥
तीर्थोदकेन पुण्येन स्वर्गलोकमवाप्नुयात्॥
तथानुलिप्य गन्धैश्च शक्रलोके महीयते ॥२४॥
विभूषणप्रदानेन राजा भवति भूतले॥
राजलिङ्गप्रदानेन राजा भवति हि क्षितौ ॥२५॥
वस्त्रदानेन लोकेऽस्मिन्सुवेशस्त्वभिजायते॥
देवे माल्यप्रदानेन परा लक्ष्मीं समश्नुते ॥२६॥
धूपप्रदानेन तथा गतिमग्र्यामवाप्नुयात्॥
दीपदानेन चक्षुष्मान्प्रकाशश्चैव जायते ॥२७॥
ऊर्ध्वां गतिमवाप्नोति सर्वत्र च तथाग्र्यताम्॥
देवताभ्यस्तथा विप्रा निवेद्यान्नमतन्द्रितः ॥२८॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
परितोषमथायाति देवता बलिकर्मणा ॥२९॥
तास्तुष्टास्तर्पयन्येनं सर्वकामसमृद्धिभिः॥
हृद्यपानप्रदानेन तृप्तिमाप्नोति शाश्वतीम् ॥३०॥
देवतानां नमस्कारात्किञ्चित्पापं प्रणश्यति॥
तथैवाभ्यधिकं पापं प्रणिपातेन नश्यति ॥३१॥
ततोऽप्यभ्यधिकं किञ्चित्कृत्वा देवे प्रदक्षिणाम्॥
स्तुतिक्रिया देवतानां सर्वकामफलप्रदा ॥३२॥
गीतेन देवतास्तोषमुपयान्ति द्विजोत्तमाः॥
तथा वाद्येन नृत्येन पुरुषस्य विशेषतः ॥३३॥
नृत्तं गीतं तथा वाद्यं स्वयमाचरते द्विजा॥
देवसालोक्यमाप्नोति पुरुषस्य विपश्चितः ॥३४॥
वाचनादितिहासानां पापमोक्षमवाप्नुयात्॥
मूल्येन कारयेद्गीतं गन्धर्वत्वमथाप्नुयात् ॥३५॥
वाद्यं दत्त्वाथ धर्मज्ञं वसूनां लोकमश्नुते॥
नृत्तेन लोकमाप्नोति शङ्करस्य महात्मनः ॥३६॥
इतिहासप्रदानेन बुद्धिमाञ्जायते नरः॥
आहुतिं देवमुद्दिश्य यो ददाति हुताशने ॥३७॥
स देवस्तर्पयत्येनं कामैर्वा तेन तर्पितः॥
देवमुद्दिश्य विप्राणां यो ददातीह भोजनम् ॥३८॥
स देवः प्रीतिमानस्य कामानिष्टान्प्रयच्छति॥
देवमुद्दिश्य यत्किञ्चिद्ब्राह्मणेभ्यः प्रदीयते ॥३९॥
तदेव प्राप्यते लोके प्रसन्ने त्रिदशे बहु॥
यानं शय्यासनं छत्रं पादुके चाप्युपानहौ ॥४०॥
वाहनं गां च धर्मज्ञास्त्रिदशभ्यो ददाति यः॥
एकैकस्मादवाप्नोति वह्निष्टोमफलं नरः ॥४१॥
दत्त्वा फलानि देवेभ्यः सफलां विन्दते क्रियाम्॥
निवेद्य सस्यानि तथा गतिमाप्नोत्यनुत्तमाम् ॥४२॥
नैति देवस्तथा प्रीतिं दानैर्नृत्यैस्तथा फलैः॥
प्रीतिमेति यथा विप्राः स्वाश्रितानान्तु पूजनैः ॥४३॥
देवता नैव तुष्यन्ति दानेन बहुधा द्विजाः॥
यथा भक्त्या तु तुष्यन्ति तस्माद्भक्तिं समाश्रयेत् ॥४४॥
घृतपूर्णानि पात्राणि दत्त्वा श्राद्धे तथा नरः॥
दीर्घं जीवितमाप्नोति न रोगैश्चाभिभूयते ॥४५॥
मधुपूर्णानि पात्राणि दत्त्वा सौभाग्यमाप्नुयात्॥
यथाकथञ्चित्पात्राणां दानाद्भवति सत्तमाः ॥४६॥
पात्रं नु सर्वकामानां नात्र कार्या विचारणा॥
पुष्पवृक्षप्रदानेन गृहमाप्नोति मानवः ॥४७॥
फलवृक्षप्रदानेन ग्रामस्याधिपतिर्भवेत्॥
गृहप्रदानाद्धवति खेटकाधिपतिस्तथा ॥४८॥
गृहं शय्यासनोपेतं यानवाहनसंयुतम्॥
धनधान्ययुतं स्फीतं दासीदाससमाकुलम् ॥४९॥
सर्वकामयुतं रम्यं प्रदाय श्राद्धकर्मणि॥
स्वर्गलोकात्परिभ्रष्टो राजा भवति पार्थिवः ॥५०॥
पितॄनुद्दिश्य यद्दानं किञ्चिदेव प्रयच्छति॥
तस्याभ्यधिकमाप्नोति पुण्यं तेषां प्रसादतः ॥५१॥
तस्माच्छ्राद्धानि कार्याणि तीर्थेष्वायतनेषु च॥
दानानि चैव देयानि पितॄनुद्दिश्य शक्तितः ॥५२॥
श्राद्धेषु पुष्टिं मनुजा लभन्ते श्राद्धेन विप्रास्त्रिदिवे च वासः॥
श्राद्धं प्रयत्नेन ततश्च कुर्यात्स्वकल्पसूत्राभिहितं यथावत् ॥५३॥
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु पितृपूजाविधानं नामाष्टाशीत्युत्तरद्विशततमोऽध्यायः ॥२८८॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP