खण्डः ३ - अध्यायः ३४३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
वज्र उवाच ।
अतीव सुमुखाराध्यो देवो विष्णुरुरुक्रमः॥
स्तुतेन दर्शयामास विश्वरूपं द्विजन्मनाम् ॥१॥
प्रसादं परमं तस्य ब्रूहि भक्तजने मम॥
तृप्तिं ब्रह्मन्न गच्छामि शृण्वन्नेतत्कथामृतम् ॥२॥
मार्कण्डेय उवाच॥
स विधिज्ञो महाराज मातलिः शक्रसारथिः॥
तस्यास्ति सदृशी कन्या गुणकाशीति विश्रुता ॥३॥
मातलिर्नारदश्चैव अन्वेष्टुं तद्वनं पुरा॥
चंक्रम्यमाणौ सकलमार्घकस्यात्मजात्मजम् ॥४॥
सुमुखाख्यं ददृशतुस्तौ गृहीत्वा गतावुभौ॥
नागे शक्रं ततः शक्रादयाचेतां तु तावुभौ ॥५॥
सुमुखस्याभयं तार्क्ष्यात्तयोः शक्रो ददौ वरम्॥
वीर्यज्ञस्तार्क्ष्यवीर्यस्य स ययौ केशवान्तिकम् ॥६॥
सुमुखस्याभयं प्रादात्तार्क्ष्यं मधुनिषूदनः॥
आजगाम ततस्तार्क्ष्यः सरोषः केशवान्तिकम् ॥७॥
॥गरुड उवाच ॥
किमवज्ञाय मां कृष्ण सुमुखे दीयते वरः॥
मम पृष्ठगतः शत्रूंस्त्वं निहंसि च बुद्ध्यसे॥
कुटुम्बाभरणं शत्रुं पन्नगं मम रक्षसि ॥८॥
॥मार्कण्डेय उवाच ॥
एवमुक्तस्तदा तेन विष्णुर्गरुडमब्रवीत् ॥९॥
न मे शक्तो जगद्वोढुं सकलं विहगेश्वर॥
अहमेवात्मनात्मानं धारयामि रणेरणे ॥१०॥
शक्तिश्चेदस्ति वोढुं ते भुजमेकं वहस्व मे॥
एवमुक्त्वा ददौ पृष्ठे तस्य सव्यं भुजं हरिः ॥११॥
ततो विषण्णवदनः पक्षत्यागात्खगोत्तमः॥
क्लान्तो दीनश्च तुष्टाव देवेशं मथुसूदनम् ॥१२॥
॥गरुड उवाच ॥
नमस्ते देवदेवेश सुरासुरनमस्कृत॥
अजेय पुण्डरीकाक्ष शरणागतवत्सल ॥१३॥
न मया त्वद्बलं ज्ञातमात्मसम्भावितात्मना॥
त्वमेव देव त्रैलोक्यं सदा धारयसेऽनघ ॥१४॥
आत्मानमात्मना देव त्वमेव वहसे सदा॥
यस्य ते देव सकलं देहे त्रिभुवनं स्थितम् ॥१५॥
तस्य वोढुं कथं शक्ता मद्विधा हि सहस्रशः॥
तस्मात्प्रसीद भगवन्मम ध्वजनिवासिनः ॥१६॥
नास्त्यन्तस्तव देवेश कर्मणां भुवनत्रये॥
कस्ते कीर्तयितुं शक्तः कर्माण्यनवशेषतः ॥१७॥
कर्मणां कीर्तनं वा ते का स्तुतिः परमेश्वर॥
सर्वत्र सर्वशक्तिस्त्वं प्रसीद मम शत्रुहन् ॥१८॥
सर्वभूतकृतावास वासुदेव जगत्पते॥
कल्पान्ताम्भोधिशयन नारायण महाद्युते ॥१९॥
नाभीकमलकिंजल्कपिञ्जरी कृतविग्रह॥
प्रसीद मे नमस्तेऽस्तु पक्षिणो ध्वजवासिनः ॥२०॥
॥श्रीभगवानुवाच ॥
आत्मसम्भावना तार्क्ष्य न कार्या ते कदाचन॥
अहमेवात्मनात्मानं वहामि त्वां च धारये ॥२१॥
प्रीता न च त्वया भार्या यदपक्षः कृतो ह्यसि॥
मया त्रिभुवनं न्यस्तं त्वदर्थमखिलं भुजे ॥२२॥
त्वया तुल्यो हि बलवाँल्लोकेऽन्यो नास्ति कश्चन॥
यस्य दोर्दण्डसंस्पर्शाज्जीवितं न च निर्गतम् ॥२३॥
यद्वश्शरीरजो भूत्वा बलवान्खगसत्तम॥
विशेषवन्तः पक्षांते भविष्यन्ति न संशयः ॥२४॥
॥मार्कण्डेय उवाच ॥
एवमुक्तः सुपर्णस्तु सुपर्णान्प्राप्तवान्पुनः॥
तेजोबलाधिकत्वं वा लेभे देवप्रसादतः ॥२५॥
एवं पुरुषवत्तार्क्ष्यः स्तूयमानश्च शार्ङ्गिणम्॥
भूय एव सुपर्णत्त्वं गमितोऽतिबलः कृतः ॥२६॥
शक्रयाचितमात्रेण सुमुखोऽप्यमरः कृतः॥
तस्माद्राजन्विजानीहि तस्य दानवविद्विषः ॥२७॥
नास्त्यदेयं हि भक्तेषु देवराज्यमपि ध्रुवम्॥
मृत्युपाशगृहीतानां पतनान्नरके तथा॥
स्मृतमात्रः स देवेशस्तद्भयाद्विनिवर्तकः ॥२८॥
निहतसकलदुःखो भक्तिभाजां नराणां द्विज विबुधवराणां पूजनीयोऽरिहन्ता॥
खगपनृपतियायी नीरसंजातवर्णो भवतु मधुरिपुस्ते भक्तिनम्रस्य तुष्टः ॥२९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सुमुखोपाख्यानवर्णनो नाम त्रिचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥३४३॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP