खण्डः ३ - अध्यायः ०३५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि चित्रसूत्रं तवानघ॥
उर्वशीं सृजतः पूर्वे चित्रसूत्रं नृपात्मज ॥१॥
नारायणेन मुनिना लोकानां हितकाम्यया॥
प्राप्तानां वञ्चनार्थाय देवस्त्रीणां महामुनिः ॥२॥
सहकाररसं गृह्य उर्व्यां चक्रे वरस्त्रियम्॥
चित्रेण सा ततो जाता रूपयुक्ता वराप्सराः ॥३॥
यां दृष्ट्वा व्रीडिताः सर्वा जग्मुस्ता देवयोषितः॥
एवं महामुनिः कृत्वा चित्रं लक्षणसंयुतम् ॥४॥
ग्राहयामास स तदा विश्वकर्माणमच्युतम्॥
यथा नृत्ते तथा चित्रे त्रैलोक्यानुकृतिः स्मृता ॥५॥
दृष्टयश्च तथा भावा अङ्गोपाङ्गानि सर्वशः॥
कराश्च ये महानृत्ते पूर्वोक्ता नृपसत्तम ॥६॥
त एव चित्रे विज्ञेया नृत्तं चित्रं परं मतम्॥
नृत्ते प्रमाणं येनोक्तं तत्प्रवक्ष्याम्यतः शृणु ॥७॥
हंसो भद्रोऽथ मालव्यो रुचकः शशकस्तथा॥
विज्ञेयाः पुरुषाः पञ्च तेषां वक्ष्यामि लक्षणम् ॥८॥
उच्छ्रायायामतुल्यास्ते सर्वे ज्ञेयाः प्रमाणतः॥
स्वेनेवाङ्गुलमानेन शतमष्टाधिकं भवेत् ॥९॥
प्रमाणं नृप हंसस्य भद्रस्य तु षडुत्तरम्॥
चतुर्भिरधिकं ज्ञेयं मालव्यस्य तथा नृप ॥१०॥
शतं च रुचकस्योक्तं दशोनं शशकस्य च॥
द्वादशाङुलविस्तारस्ताल इत्यभिधीयते ॥११॥
अङ्गुल्फन्तच्चतुर्भागं पादोच्छ्रायः प्रकीर्तितः॥
द्वौ च तालौ तथा जङ्घे पादतुल्ये च जानुनी ॥१२॥
जंघातुल्यौ तथा चोरू नाभिस्तालं तु मेढ्रतः॥
तावच्च नाभिहदयं हृदयात्कण्ठ एव च ॥१३॥
कण्ठस्तालत्रिभागः स्यात्तालं च वदनं भवेत्॥
तालषड्भागमप्युक्तं ललाटोपरि मस्तकम् ॥१४॥
मध्ये मेढ्रं तु विज्ञेयमिति दैर्घ्यं प्रकीर्तितम्॥
तालः प्रोक्तः करो राजन्बाहू सप्तदशाङ्गुलौ ॥१५॥
प्रबाहू तावदेवोक्तौ वक्षसोर्धमथाष्टकम्।
एतदायामतः प्रोक्तं मानं हंसस्य पार्थिव ॥१६॥
अनेनैवानुसारेण शेषाणामपि कल्पयेत्॥
आयामपरिणाहाभ्यां समाः सर्वे नराधिप ॥१७॥
सामान्यतस्ते नृपवर्य मानं प्रोक्तं मया हंस नराधिपस्य॥
प्रत्यङ्गमानं च मयोच्यमानं समासतस्त्वं शृणु राजसिंह ॥१८॥
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे आयामोच्छ्रायमानवर्णनो नाम पञ्चत्रिंशत्तमोऽध्यायः ॥३५॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP