खण्डः ३ - अध्यायः ०४३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
शृङ्गारहासकरुणवीररौद्रभयानकाः॥
बीभत्साद्भुतशान्ताश्च नव चित्ररसाः स्मृताः ॥१॥
तत्र यत्कांतिलावण्यलेखामाधुर्यसुन्दरम्॥
विदग्धवशाभरणं शृङ्गारे तु रसे भवेत् ॥२॥
यत्कुज्जवामनप्रायमीषद्विकटदर्शनम्॥
वृथा च हस्तं संकोच्य तत्स्याद्धास्यकरं रसे ॥३॥
याञ्चाविरहासन्त्यागविक्रयव्यसनादिषु॥
अनुकम्पितकं यत्स्याल्लिखेत्तत्करुणारसे ॥४॥
पारुष्यविकृतिक्रोधविषस्त्यर्था न दूषणम्॥
दीप्रशस्त्राभरणवत्कृतं रौद्ररसे भवेत् ॥५॥
प्रतिज्ञागर्भशौर्यादिष्वर्थेष्वौ दार्यदर्शनम्॥
सस्मयं सभ्रुकुटिवद्वीरं वीररसेऽद्भुतम् ॥६॥
दुष्टदुर्दर्शनोन्मत्तहिंस्रव्यापादकादि यत॥
तत्स्याद्भयानकरसे प्रयोगे चित्रकर्मणः ॥७॥
श्मशानगर्हितं घातकरणं स्थानदारुणम्॥
यच्चित्रं चित्रवच्छ्रेष्ठं तद्बीभत्सरसे भवेत ॥८॥
यदा विनीतरोमाञ्चचिन्तां तार्क्ष्यमुखानतम्॥
प्रदर्शयति चान्योऽन्यं तदद्भुतरसाश्रयम् ॥९॥
यद्यत्सौम्याकृतिध्यानधारणासनबन्धनम्॥
तपस्विजनभूयिष्ठं तत्तु शान्ते रसे भवेत् ॥१०॥
शृङ्गारहास्य शान्त्याख्या लेखनीया गृहेषु ते ॥११॥
परशेषा न कर्तव्या कदाचिदपि कस्यचित्॥
देववेश्मनि कर्तव्या रसाः सर्वे नृपालय ॥१२॥
राजवेश्मनि नो कार्या राज्ञां वासगृहेषु ते॥
सभावेश्मसु कर्तव्या राज्ञां सर्वरसा गृहे ॥१३॥
वर्जयित्वा सभां राज्ञो देववेश्म तथैव च॥
युद्धश्मशान करुणामृतदुःखार्तकुत्सितान् ॥१४॥
अमङ्गल्यांश्च न लिखेत्कदाचिदपि वेश्मसु॥
निधिशृंगान्वृषान्राजन्निधिहस्तान्नताङ्गजान् ॥१५॥
निधि विद्याधरा राजनृषयो गरुडस्तथा॥
हनूमांश्च सुमङ्गल्या ये च लोके प्रकीर्तिताः ॥१६॥
लिखितव्या महाराज गृहेषु सततं नृणाम्॥
चित्रकर्म न कर्तव्यमात्मना स्वगृहे नृप ॥१७॥
दौर्बल्यं स्थूलरेखत्वमविभक्तत्वमेव च॥
वर्णानां सङ्करश्चात्र चित्रदीपाः प्रकीर्तिताः ॥१८॥
।स्थानप्रमाणं भूलम्भो मधुरत्वं विभक्तता॥
सादृश्यं क्षयवृद्धी च गुणाष्टकमिदं स्मृतम् ॥१९॥
स्थानहीनं गतरसं शुन्यदृष्टिमलीमसम्॥
चेतनारहितं वा स्यात्तदशस्तं प्रकीर्तितम् ॥२०॥
लसतीव च भूलम्बो बिभ्यतीव तथा नृप॥
हसतीव च माधुर्यं सजीव इव दृश्यते ॥२१॥
सश्वास इव यच्चित्रं तच्चित्रं शुभलक्षणम्॥
हीनाङ्गं मलिनं शून्यं बद्धव्याधिभयाकुलैः ॥२२॥
वृत्तं प्रकीर्णकेशैश्च सुमंगल्यैर्विवर्जयेत्॥
प्रतीतं च लिखेद्धीमान्नाप्रतीतेः कथंचन ॥२३॥
शास्त्रज्ञैः सुकृतैर्दक्षैश्चित्रं हि मनुजाधिप॥
श्रियमावहति क्षिप्रमलक्ष्मीं चापकर्षति ॥२४॥
निर्णेजयति चोत्कण्ठां निरुणद्ध्यागतं शुभम्॥
शुद्धां प्रथयति प्रीतिं जनयत्यतुलामपि ॥२५॥
दुःस्वप्नदर्शनं हन्ति प्रीणाति गृहदैवतम्॥
न तु शून्यमिवाभाति यत्र चित्रं प्रतिष्ठितम् ॥२६॥
दकर्णं चाप्यनलंकृतम्॥
शल्यविद्धं च वृद्धं च यः करोति स चित्रवित् ॥२७॥
तरङ्गाग्निखिखाधूमं वैजयन्त्यस्वरादिकम्॥
वायुगत्या लिखेद्यस्तु विज्ञेयो मत्तचित्रवित् ॥२८॥
सुप्तं च चेतनायुक्तं मृतं चैतन्यवर्जितम्॥
निम्नोन्नतविभागं च यः करोति स चित्रवित् ॥२९॥
एतेषां खलु सर्वेषामानुलोम्यं प्रशस्यते॥
सम्मुखत्वमथैतेषां चित्रे यत्नाद्विवर्जयेत् ॥३०॥
यथाचित्रं तथैवोक्तं खातपूर्वं नराधिप॥
सुवर्णरूप्यताम्रादि तच्च लोहेषु दर्शयेत् ॥३१॥
शिलादारुषु लोहेषु प्रतिमाकरणं भवेत्॥
अनेनैव विधानेन यथा चित्रमुदाहृतम् ॥३२॥
तथानेन विधानेन पुस्तकर्म विधीयते॥
द्विविधं तच्च कथितं घनं सुषिरमेव च ॥३३॥
घनर्लौंहैः शिलाभिश्च दारुमृद्भिः सदा भवेत्॥
चर्मणा सुषिरः कार्यो दारुलोहैस्तथैव च ॥३४॥
देयो मृत्तिकया लेपः पुस्ते चर्मकृते दृढः॥
सूत्रेऽनेन विधानेन चित्रवस्त्रे तथा लिखेत् ॥३५॥
एतदुद्देशमात्रेण यदा ते कथितं नृप॥
अशक्यो विस्तराद्वक्तुं बहुवर्षशतैरपि ॥३६॥
यदत्र नोक्तं तन्नृत्ताद्विज्ञेयं वसुधाधिप॥
नृतेऽपि नोक्तं तच्चित्रं नात्र योज्यं नराधिप ॥३७॥
कलानां प्रवरं चित्रं धर्मकामार्थ मोक्षदम्॥
मङ्गल्यं प्रथमं चैतद्गृहे यत्र प्रतिष्ठितम् ॥३८॥
यथा सुमेरुः प्रवरो नगानां यथण्डजानां गरुडः प्रधानः॥
यथा नराणां प्रवरः क्षितीशस्तथा कलानामिह चित्रकल्पः ॥३९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शृङ्गारादिभावकथनं नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥४३॥
समाप्तं चित्रसूत्रम्॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP