अर्बुदखण्डम् - अध्याय ४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
सूत उवाच ॥
स कृत्वा स्वाश्रमं तत्र वसिष्ठो भगवान्मुनिः॥
तत्र शंभोर्निवासाय तपस्तेपे सुदारुणम्॥ १॥
स बभूव मुनिः सम्यक्फलाहारसमन्वितः॥
शीर्ण पर्णाशनः पश्चाद्द्वे शते समपद्यत ॥२॥
जलाहारः पञ्चशतवर्षाणि संबभूव ह॥
वर्षाणां वायुभक्षोऽभूत्ततो दशशतानि च ॥३॥
पञ्चाग्निसाधको ग्रीष्मे हेमन्ते सलिलाशयः॥
वर्षास्वाकाशवासी च सहस्रं च ततोऽभवत् ॥४॥
ततस्तुष्टो महादेवस्तस्यर्षेः सुमहात्मनः॥
भित्त्वा तं पर्वतं सद्यस्तत्पुरो लिंगमुत्थितम्॥
तं दृष्ट्वा विस्मयाविष्टो मुनिः स्तोत्रमुदैरयत्॥ ५॥
नमः शिवाय शुद्धाय सर्वगायाऽमृताय च॥
कपर्द्दिने नमस्तुभ्यं नमस्तस्मै त्रिमूर्त्तये ॥६॥
नमः स्थूलाय सूक्ष्माय व्यापकाय महात्मने॥
निषंगिणे नमस्तुभ्यं त्रिनेत्राय नमोनमः ॥७॥
नमश्चन्द्रकलाधार नमो दिग्वसनाय च॥
पिनाकपाणये तुभ्यमष्टमूर्ते नमोनमः ॥८॥
नमस्ते ज्ञानरूपाय ज्ञानगम्याय ते नमः॥
नमस्ते ज्ञानदेहाय सर्वज्ञानमयाय च ॥९॥
काशीपते नमस्तुभ्यं गिरिशाय नमोनमः॥
जगत्कारणरूपाय महादेवाय ते नमः ॥१०॥
गौरीकान्त नम स्तुभ्यं नमस्तुभ्यं शिवात्मने॥
ब्रह्मविष्णुस्वरूपाय त्रिनेत्राय नमोनमः ॥११॥
विश्वरूपाय शुद्धाय नमस्तुभ्यं महात्मने॥
नमो विश्वस्वरूपाय सर्वदेवमयाय च ॥१२॥
॥ सूत उवाच ॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी॥
परितुष्टोऽस्मि ते भद्रं वरं वरय सुव्रत ॥१३॥
इत्युक्त्वा पर्वतं भित्त्वा तत्पुरो लिंगमुत्थितम् ॥१४॥
॥ वसिष्ठ उवाच ॥
लिंगेऽस्मिंस्तव सांनिध्यं सदा भवतु शंकर॥
मया पूर्वं प्रतिज्ञातं नगस्येह महात्मने॥
सत्यं कुरु वचो मे त्वं यदि तुष्टोऽसि शंकर ॥१५॥
॥ श्रीभगवानुवाच ॥
अद्यप्रभृति लिंगेऽस्मिन्सांनिध्यं मे भविष्यति॥
त्वद्वाक्याद्ब्राह्मणश्रेष्ठ सर्वं सत्यं भविष्यति ॥१६॥
स्तोत्रेणानेन यो मर्त्यो मां स्तविष्यति भक्तितः॥
कृष्णपक्षे चतुर्दश्यामाश्विने मुनिसत्तम ॥१७॥
मत्प्रियार्थं तु शक्रेण प्रेषिता मुनिसत्तम॥
मन्दाकिनीति विख्याता नदी त्रैलोक्यपाविनी ॥१८॥
देवस्योत्तरदिग्भागे कुंडं तिष्ठति नित्यशः॥
तस्यां स्नात्वा मुनिश्रेष्ठ लिंगं मे पश्यते तु यः॥
स याति परमं स्थानं जरामरणवर्जितम् ॥१९॥
अचलं भेदयित्वा तु यस्मान्मे लिंगमुद्गतम्॥
अचलेश्वरनाम्नैव लोके ख्यातिं गमिष्यति ॥२०॥
अस्य लिंगस्य माहात्म्यान्न कदाचिच्चलिष्यति॥
सर्वथा म इदं लिंगं प्रलयान्ते न चाल्यते ॥२१॥
॥ सूत उवाच॥
एतावदुक्त्वा वचनं विरराम महेश्वरः॥
वसिष्ठोऽपि सुहृष्टात्मा गौतमाद्या मुनीश्वराः ॥२२॥
शक्रादयस्ततो देवास्तीर्थान्यायतनानि च॥
आनयामास ब्रह्मर्षिस्तपसा पर्वतोत्तमे ॥२३॥
ततस्तुष्टः सुरश्रेष्ठस्तत्र वासमथाकरोत्॥ २४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडेऽचलेश्वरोत्पत्ति वर्णनंनाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : January 17, 2025

TOP