अर्बुदखण्डम् - अध्याय ११
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ देवं कोटीश्वरं परम्॥
यं दृष्ट्वा मानवः सम्यक्परां सिद्धिमवाप्नुयात् ॥१॥
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महीपते॥
दक्षिणस्या मुनिवराः कोटिसंख्याप्रमाणतः ॥२॥
अन्योऽन्यं स्पर्धया सर्वे हेलयाऽर्बुदमागताः॥
अहं पूर्वमहं पूर्वं प्रपश्याम्यचलेश्वरम् ॥३॥
आगमिष्यति यः पश्चाद्ब्राह्मणः श्वा भविष्यति॥
पापीयान्भक्तिरहितः श्रद्धाहीनो भविष्यति ॥४॥
इत्येवं स्पर्धमानास्ते हेलयाऽर्बुदमागताः॥
ततः सर्वे यतात्मानः सम्यग्व्रतपरायणाः ॥५॥
शांतास्तपस्विनः सर्वे वेदविद्याविशारदाः॥
तेषामीहितमाज्ञाय सम्यक्कामनिषूदनः ॥६॥
कृपया परयाविष्टो भक्तिभावान्महेश्वरः॥
कोटिं कृत्वाऽऽत्मलिंगानां तस्मिन्स्थाने व्यवस्थितः ॥७॥
एकस्मिन्नेव काले तु सर्वैर्दृष्टो महेश्वरः॥
मुनिभिश्च नृपश्रेष्ठ कोटिसंख्यैः पृथक्पृथक् ॥८॥
अथ ते मुनयः सर्वे समं दृष्ट्वा महेश्वरम्॥
विस्मयोत्फुल्लनयना साधुसाध्विति चाब्रुवन् ॥९॥
भक्तियुक्ता द्विजाः सर्वेऽस्तुवंस्ते वैदिकैः स्तवैः॥
तेषां तुष्टस्ततः शंभुर्वाक्यमेतदुवाच ह ॥१० ॥
॥ श्रीमहादेव उवाच ॥
तुष्टोऽहं मुनयः सर्वे श्रद्धया परया हि वः॥
वरं वै व्रियतां शीघ्रं सर्वैश्चैव पृथक्पृथक्॥११॥
॥ ऋषय ऊचुः ॥
एष एव वरोऽस्माकं सर्वेषां हृदि वर्त्तितः॥
युगपद्दर्शनाद्देव जायतां फलमुत्तमम् ॥१२॥
॥ श्रीमहादेव उवाच ॥
न वृथा दर्शनं मे स्याद्विशेषाद्ब्राह्मणस्य च॥
दर्शनं ये करिष्यंति तेषां च तीर्थजं फलम् ॥१३॥
॥ मुनय ऊचुः ॥
अवश्यं यदि दातव्यो वरोऽस्माकं महेश्वर॥
एकं कोटिमयं लिंगं क्रियतां वृषभध्वज ॥१४॥
यस्मिन्दृष्टे फलं नृणां जायते कोटिलिंगजम्॥
एवमेष वरोऽस्माकं दीयतां वृषभध्वज ॥ १५॥
॥ पुलस्त्य उवाच ॥
एवं सप्रार्थमानानां मुनीनां भावितात्मनाम्॥
निर्भिद्य पर्वतश्रेष्ठं सहसा लिंगमुद्गतम् ॥१६॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी॥
कृपया परया सर्वांस्तानृषीन्वसुधाधिप ॥१७॥
॥ वागुवाच ॥
कोटीश्वराख्यं मे लिंगं लोके ख्यातिं गमिष्यति॥
माघकृष्णचतुर्द्दश्यां यश्चैनं पूजयिष्यति ॥१८॥
सर्वं कोटिगुणं तस्य फलं विप्रा भविष्यति॥
दाक्षिणात्यो नरो यस्तु श्राद्धमत्र करिष्यति ॥१९॥
फलं कोटिगुणं तस्य गयाश्राद्धसमं भवेत्॥
तस्माद्विशेषतः पूज्यं मम लिंगं च मानवैः ॥२०॥
॥ पुलस्त्य उवाच ॥
एवमुक्त्वा तु सा वाणी विरराम महीपते॥
ततस्ते मुनयः सर्वे गंधधूपानुलेपनैः ॥२१॥
तल्लिंगं पूजयामासुः श्रद्धया परया नृप॥
पूजयित्वा गताः सिद्धिं सर्वे लिंगप्रसादतः ॥२२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभातखण्डे तृतीयेऽर्बुदखण्डे कोटीश्वरमाहात्म्यवर्णनंनामैकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : January 21, 2025

TOP