संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ५२

अर्बुदखण्डम् - अध्याय ५२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ ईशानीशिखरं महत्॥
यत्र गौर्या तपस्तप्तं सुपुण्यं लोकविश्रुतम् ॥१॥
यस्य संदर्शनेनापि नरः पापात्प्रमुच्यते॥
लभते चातिसौभाग्यं सप्तजन्मांतराणि च ॥२॥
॥ ययातिरुवाच ॥
कस्मिन्काले तपस्तप्तं देव्या तत्र मुनीश्वर॥
किमर्थं च महत्त्वेतत्कौतुकं वक्तुमर्हसि ॥३॥
॥ पुलस्त्य उवाच ॥
शृणु राजन्कथां दिव्यामद्भुतां लोकविश्रुताम्॥
यस्याः संश्रवणादेव मुच्यते सर्वपातकैः ॥४॥
पुरा गौर्या समासक्तं ज्ञात्वा देवाः सवासवाः॥
मंत्रं चक्रुर्भयाविष्टा एकांते समुपाश्रिताः ॥५॥
वीर्यं यदि त्रिनेत्रस्य क्षेत्रे गौर्याः पतिष्यति॥
अस्माकं पतनं नूनं जगतश्च भविष्यति ॥६॥
संततेस्तु विनाशाय ततो गच्छामहे वयम् ॥७॥
एवं संमंत्र्य देवास्ते कैलासं पर्वतं गताः॥
ततस्तु नंदिना सर्वे निषिद्धाः समयं विना ॥८॥
॥ नंद्युवाच ॥
एकांते भगवान्रुद्रः सहगौर्या व्यवस्थितः॥
तस्माद्देवगणाः सर्वे गच्छध्वं निलयं स्वकम् ॥९॥
अथ देवगणाः सर्वे वञ्चयित्वा च तं गणम्॥
प्रैषयंस्तत्र वायुं च गुप्तमूचुर्वचस्त्विदम् ॥१०॥
गत्वा वायो भवं ब्रूहि न कार्या संततिस्त्वया॥
एवं देवगणा देव प्रार्थयंति भयातुराः ॥११॥
ततो वायुर्द्रुतं गत्वा स्थितो यत्र महेश्वरः॥
उच्चैर्जगाद तद्वाक्यं यदुक्तं त्रिदशालयैः ॥१२॥
ततस्तु भगवाञ्छर्वो व्रीडया परया युतः॥
गौरीं त्यक्त्वा समुत्तस्थौ बाढमित्येव चाब्रवीत् ॥१३॥
ततो गौरी सुदुःखार्ता शशाप त्रिदशालयान् ॥१४॥
॥ गौर्युवाच ॥
यस्मादहं कृता देवैः पुत्रहीना समागतैः॥
तस्मात्तेऽपि भविष्यन्ति सन्तानेन विवर्ज्जिताः ॥१५॥
यस्माद्वायो समायातः स्थानेऽस्मिञ्जनवर्जिते॥
तस्मात्कायविनिर्मुक्तस्त्वं भविष्यसि सर्वदा ॥१६॥
एवमुक्त्वा ततो दीर्घं भर्तुः कोपपरायणा॥
त्यक्त्वा पार्श्वं गता राजन्नर्बुदं नगसत्तमम् ॥१७॥
सुतार्थं सा तपस्तेपे यतवाक्कायमानसा॥
ततो वर्षसहस्रान्ते देवदेवो महेश्वरः ॥१८॥
इन्द्राद्यैर्विबुधैः सार्द्धं तदंतिकमुपागमत्॥
अथ शक्रो विनीतात्मा देवीं ता प्रत्यभाषत ॥१९॥
एष देवः शिवः प्राप्तस्तव पार्श्वं स्वलज्जया॥
नायाति तत्प्रसादोऽस्य क्रियता महती भव ॥२०॥
॥ देव्युवाच ॥
त्यक्ताऽहं तव वाक्येन पतिना समयान्विता॥
पुत्रं लब्ध्वा प्रयास्यामि तस्य पार्श्वे सुरेश्वर ॥२१॥
तस्यास्तं निश्चयं ज्ञात्वा स्वयं देवः समाययौ॥
अब्रवीत्प्रहसन्वाक्यं प्रसादः क्रियतामिति ॥२२॥
दृष्टिदानेन देवेशि भाषणेन वरानने॥
मया देवहितं कार्यं सर्वावस्थासु पार्वति ॥२३॥
अकाले तेन मुक्ताऽसि निवृत्तिः सुरते कृता॥
पुत्रार्थं ते समारंभो यतश्चासीत्सुरेश्वरि ॥२४॥
तस्मात्ते भविता पुत्रो निजदेहसमुद्भवः॥
मत्प्रसादादसंदिग्धं चतुर्थे दिवसे प्रिये ॥२५॥
निजांगमलमादाय यादृग्रूपं सुरेश्वरि॥
करिष्यसि न सन्देहस्तादृगेव भविष्यति ॥२६॥
सद्यो देवगणानां च दैत्यानां च विशेषतः॥
तथा वै सर्वमर्त्त्यानां सिद्धिदो बहुरूपधृक् ॥२७॥
एवमुक्ता त्रिनेत्रेण परितुष्टा सुरेश्वरी॥
आलापं पतिना चक्रे सार्द्धं हर्षसमन्विता ॥२८॥
चतुर्थे दिवसे प्राप्ते ततः स्नात्वा शिवा नृप॥
तदोद्वर्त्तनजं लेपं गृहीत्वा कौतुकात्किल॥
चतुर्भुजं चकाराऽथ हरवाक्याद्विनायकम् ॥२९॥
ततः सजीवतां प्राप्य हरवाक्येन तं तदा॥
विशेषेण महाराज नायकोऽसौ कृतः क्षितौ॥
सर्वेषां चैव मर्त्यानां ततः ख्यातो बभूव ह ॥३०॥
विनायक इति श्रीमान्पूज्यस्त्रैलोक्यवासिनाम्॥
सर्वेषां देवमुख्यानां बभूव हि विनायकः ॥३१॥
ततो देवगणाः सर्वे देवीप्रियहिते रताः॥
तस्मै ददुर्वरान्दिव्यान्प्रोचुर्देवीं च पार्थिव ॥३२॥
॥ देवा ऊचुः ॥
तवायं तनयो देवि सर्वेषां नः पुरःसरः॥
प्रथमं पूजिते चास्मिन्पूजा ग्राह्या ततः सुरैः ॥३३॥
एतच्छृंगं गिरे रम्यं तव संसेवनाच्छुभे॥
सर्वपापहरं नृणां दर्शनाच्च भविष्यति ॥३४॥
येऽत्र स्नानं करिष्यन्ति सुपुण्ये सलिलाश्रये॥
ते यांस्यंति परं स्थानं जरामरणवर्जितम् ॥३५॥
माघमासे तृतीयायां शुक्लायां ये समाहिताः॥
 सप्तजन्मांतराण्येव भविष्यन्ति सुखान्विताः ॥३६॥
एवमुक्त्वा सुराः सर्वे स्वस्थानं तु ततो गताः॥
देवोऽपि सहितो देव्या कैलासं पर्वतं गतः ॥३७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्ड ईशानीशिखरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP