संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ३१

अर्बुदखण्डम् - अध्याय ३१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
रक्तानुबन्धं वै गच्छेत्तीर्थं त्रैलोक्यविश्रुतम्॥
यत्र स्नातो नरः सम्यङ्मुच्यते ब्रह्महत्यया ॥१॥
पुराऽऽसीत्पार्थिवोनाम इंद्रसेनो महीपतिः॥
तस्याऽऽसीत्सुप्रिया भार्या सुनन्दानाम भामिनी॥
पतिव्रता पतिप्राणा सदा पत्युः प्रिये स्थिता ॥२॥
कस्यचित्त्वथ कालस्य स राजा सपरिग्रहः॥
परदेशं गतो हंतुं शत्रुसंघं दुरासदम् ॥३॥
तं निहत्य धनं भूरि गृहीत्वा प्रस्थितो गृहम्॥
ततोऽग्रे प्रेषयामास स दूतं कृत्रिमं नृप ॥४॥
सुनन्दां ब्रूहि गत्वा त्वमिन्द्रसेनो हतो रणे॥
तदाकारस्ततो लक्ष्यः पातिव्रत्ये ममाज्ञया ॥५॥
यदि सा निश्चयं गच्छेन्मरणं प्रति भामिनी॥
तदा रक्ष्या प्रयत्नेन वाच्यं हास्यं ममोद्भवम् ॥६॥
एवमुक्तो गतो दूतस्तत्क्षणान्नृपसत्तम॥
तस्यै निवेददामास यदुक्तं तेन भूभुजा ॥७॥
अथ तस्य वचः श्रुत्वा सुनंदा चारुहासिनी॥
गतप्राणा नृपश्रेष्ठ पतिप्राणा महासती ॥८॥
यस्मिन्काले मृता सा तु सुनन्दा शीलमंडना॥
तस्मिन्काले नृपः सोऽपि तत्पापेन समाश्रितः ॥९॥
अथापश्यद्द्वितीयां स च्छायां गात्रस्य चोपरि॥
तथा गुरुतरं कायं सालस्यं समपद्यत ॥१०॥
तेजोहीनं सुदुर्गंधि विवर्णं नृपसत्तम॥
अथ प्राप्तो गृहं राजा श्रुत्वा भार्यासमुद्भवम् ॥११॥
विनाशं दुःखशोकार्तः करुणं पर्यदेवयत्॥
स ज्ञात्वा पापमात्मानं स्त्रीहत्यासुविदूषितम्॥ १२॥
ब्राह्मणानां समादेशात्तथा यात्रापरोऽभवत्॥
कृत्वौर्द्ध्वदैहिकं तस्या लघुमात्र परिग्रहः॥
वाराणस्यां गतः पूर्वं तत्र दानं ददौ बहु॥१३॥
कपालमोचने तीर्थे सर्वपापप्रणाशने॥
त्रिनेत्रो यत्र निर्मुक्तः पुरा वै ब्रह्महत्यया॥१४॥
तस्य च्छाया द्वितीया सा न नष्टा तत्र भूपते॥
ततः कनखलं प्राप्तः सुपुण्यं शुद्धिदं नृणाम् ॥१५॥
तथैव पुष्करारण्यं तस्मादमरकण्टकम्॥
कुरुक्षेत्रं ततो राजन्प्राप्तोऽसौ नृपसत्तमः ॥१६॥
प्रभासं सोमतीर्थं च ततस्तु कृमिजांगले॥
एकहंसं ततो राजन्पुण्यपारिप्लवं ततः ॥१७॥
रुद्रकोटिं विरूपाक्षं ततः पंचनदं नृप॥
एवमादीनि तीर्थानि पुण्यान्यायतनानि च॥
परिभ्रमन्महीपाल परिश्रांतो नराधिपः ॥१८॥
ततो वर्षसहस्रांते संप्राप्तोऽर्बुदपर्वते॥
तत्रापश्यन्नरपतिस्तीर्थान्यायतनानि च ॥१९॥
तपस्विसंघान्विविधान्ब्राह्मणान्वेदपारगान्॥
ददौ दानानि बहुशो ब्राह्मणेभ्यो यदृच्छया ॥२०॥
प्राप्तो रक्तानुबंधं च तीर्थं तत्रैव पर्वते॥
तत्र स्नातो विनिष्क्रांतो यावत्पश्यति भूमिपः ॥२१॥
तावन्न दृश्यते च्छाया द्वितीया स्त्रीवधोद्भवा॥
लघुत्वं सर्वगात्राणि संप्राप्तानि महीपते ॥२२॥
विगन्धता प्रणष्टा च तेजोवृद्धिः पराभवत्॥
ततो हृष्टमना भूत्वा दत्त्वा दानानि भूरिशः॥
स्तूयमानश्चतुर्दिक्षु बंदिभिः प्रस्थितो गृहम् ॥२३॥
ततो रक्तानुबंधस्य सोमातिक्रमणं नृप॥
यावत्करोति राजेन्द्र तावदस्य पुनस्तथा॥२४॥
सा च्छाया दृश्यते देहे द्वितीया नृपसत्तम॥
स एव गन्धो गात्रेषु तेजोहानिश्च सा नृप ॥२५॥
ततो दुःखाभिसंतप्तो गतस्तत्रैव तत्क्षणात्॥
रक्तबंधमनुप्राप्तो विपाप्मा सोऽभवत्पुनः ॥२६॥
स ज्ञात्वा तीर्थमाहात्म्यं परं पार्थिवसत्तमः॥
तत्र दारूणि चाहृत्य चितां कृत्वा ततो नृप॥
दानं दत्त्वा द्विजाग्रेभ्यः प्रविष्टो हव्यवाहनम् ॥२७॥
ततो विमानमारुह्य परित्यज्य कलेवरम्॥
दिव्यमाल्यांबरधरः शिवलोकमुपागमत् ॥२८॥
शिवलोकमनुप्राप्ते तस्मिन्पार्थिवसत्तमे॥
देवर्षयस्तदा वाक्यमिदमाहुः सुविस्मयात् ॥२९॥
तीर्थेभ्यस्तु परं तीर्थमिदं वै पावनं परम्॥
इन्द्रसेनो ह्यतः पापात्तीर्थसंगाद्व्यमुच्यत ॥३०॥
ततः प्रभृति तत्तीर्थं ख्यातं च धरणीतले॥
रक्तानां प्राणिनां यस्मादनुबन्धं करोति यत् ॥३१॥
रक्तानुबन्धमित्येव तस्मात्तत्कीर्त्त्यते क्षितौ॥
तत्र सन्तर्प्य वै देवान्यः श्राद्धं कुरुते नृप ॥३२॥
तत्र संक्रमणे भानोर्यः स्नानं कुरुते नरः॥
श्रद्धया परया युक्तो मुच्यते ब्रह्महत्यया ॥३३॥
पितृक्षेत्रे गयायां च श्राद्धं यः कुरुते नरः॥
गयाश्राद्धसमं प्राहुः फलं तस्य महर्षयः ॥३४॥
चन्द्रसूर्योपरागे वा गोदानं नृपसत्तम॥
यः करोति नरस्तत्र स कुलान्सप्त तारयेत् ॥३५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे रक्तानुबन्धमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP