संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ३२

अर्बुदखण्डम् - अध्याय ३२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


पुलस्त्य उवाच ॥
महाविनायकं गच्छेत्ततः पार्थिवसत्तम॥
यस्मिन्दृष्टे नृणां सद्यो निर्विघ्नत्वं प्रजायते ॥१ ॥
॥ ययातिरुवाच ॥
कथं महत्त्वमगमत्पूर्वं तत्र विनायकः॥
कस्मिन्काले द्विजश्रेष्ठ सर्वं विस्तरतो वद ॥२ ॥
पुलस्त्य उवाच ॥
पुरोद्वर्त्तनजं लेपं गृहीत्वा नृप पार्वती॥
विनोदार्थं चकाराथ बालकं सुकुमारकम् ॥३॥
लेपाभावाच्छिरोहीनं शेषांगावयवं नृप॥
यथोक्तं निर्मयित्वा तं स्कन्दं वाक्यमथाब्रवीत् ॥४॥
लेपमानय भद्रं ते शिरोऽर्थं स्कन्द सत्वरम्॥
येनायं पुत्रको मे स्याद्भ्राता ते परदुर्जयः ॥५॥
ततो गौरीसमादेशाल्लेपालब्धौ नृपोत्तम॥
मत्तं गजवरं दृष्ट्वा शिरस्तस्य समानयत् ॥६॥
तस्मिन्नियोजयामास गात्रे लेपसमुद्भवे॥
महद्धीदं शिरो भावि पुत्र कस्मात्त्वयाऽऽहृतम् ॥७॥
ब्रुवंत्याश्चापि पार्वत्या मा मेति च मुहुर्मुहुः॥
न्यस्ते शिरसि तद्गात्रे दैवयोगान्नराधिप ॥८॥
विशेषान्नायकत्वं च गात्रेभ्यः समजायत॥
बालकप्रतिमं कान्तं सर्वलक्षणलक्षितम् ॥९॥
त्रिगंभीरं चतुर्हस्तं सप्तरक्तं महीपते॥
षडुन्नतं पञ्चदीर्घं पश्चसूक्ष्मं सुसुन्दरम्॥१०॥
त्रिविस्तीर्णं महाराज दृष्ट्वा गौरी सुविस्मिता॥
सजीवं कारयामास स्वशक्त्या शक्तिरूपिणी ॥११॥
स सजीवः कृतो देव्या समुत्तस्थौ च तत्क्षणात्॥
आदेशं याचयामास विनयानतकन्धरः ॥१२॥
तं दृष्ट्वा चाद्भुताकारं प्रोक्त्वा पुत्रं मुहुर्मुहुः॥
शंभोः सकाशमनयत्प्रहृष्टेनान्तरात्मना ॥१३॥
ततोऽब्रवीत्सुतं देव ममैव गात्रलेपजम्॥
देहि देव वरानित्थं महत्त्वं येन गच्छति ॥१४॥
॥ श्रीभगवानुवाच ॥
शरीरस्थं शिरो मुख्यं यस्मात्पर्वतनन्दिनि॥
महत्त्विदं शिरः प्रोक्तं त्वया स्कन्देन योजितम्॥ १५॥
विशेषान्नायकत्वं च गात्रे चास्य यतः स्थितम्॥
महाविनायको ह्येष तस्मान्नाम्ना भविष्यति ॥१६॥
गणानां चैव सर्वेषामाधिपत्यं नगात्मजे॥
अस्य दत्तं मया यस्माद्भविष्यति गणाधिपः ॥१७॥
सर्वकार्येषु ये मर्त्याः पूर्वमेनं गणाधिपम्॥
स्मरिष्यंति न वै तेषां कार्यहानिर्भविष्यति ॥१८॥
ततोऽस्य प्रददौ स्कन्दः प्रक्रीडार्थं कुठारकम्॥
तदेव चायुधं तस्य सुप्रियं हि सदाऽभवत् ॥१९॥
ततो गौरी ददौ भोज्यपात्रं मोदकपूरितम्॥
पुत्रस्नेहात्स तत्प्राप्य लास्यमेवं तदाऽकरोत् ॥२०॥
तस्य भक्ष्यस्य गन्धेन निष्क्रान्तो मूषको बिलात्॥
भक्षणाच्चामरो जातस्तस्य वाह्यो व्यजायत ॥२१॥
॥ पुलस्त्य उवाच ॥
महाविनायको ह्येवं तत्र जातो मही पते॥
तस्मिन्दृष्टे च यत्पुण्यं तत्त्वमेकमनाः शृणु ॥२२॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि यत्॥
करोति मानवो राजंस्तस्मात्पापात्प्रमुच्यते ॥२३॥
माघमासे सिते पक्षे चतुर्थ्यां समुपोषितः॥
यस्तं पश्यति वाग्ग्मी स सर्वज्ञश्च प्रजायते॥
तस्याग्रे सुमहत्कुण्डं स्वच्छोदकपूरितम् ॥२४॥
तत्र स्नात्वा नरो भक्त्या यः पश्यति विनायकम्॥
तस्यान्वयेऽपि सर्वज्ञा जायन्ते मानवा नृप॥२५॥
गणानां त्वेति मंत्रेण कृत्वा वै त्रिः प्रदक्षिणम्॥
यस्तं पश्यति राजेन्द्र दुरितं न स पश्यति ॥२६॥
तस्मात्सर्वप्रयत्नेन तं प्रपश्येद्विनायकम्॥
य इच्छेत्सकलान्कामानिह लोके परत्र च ॥२७॥
गृहस्थोऽपि च यो भक्त्या स्मरेत्कार्य उपस्थिते॥
अविघ्नं तस्य तत्सर्वं संसिद्धिमुपगच्छति ॥२८॥
प्रातरुत्थाय यो मर्त्यः स्मरेद्देवं विनायकम्॥
तस्य तद्दिनजातानि सिद्धिं कृत्यानि यांति हि ॥२९॥
विवाहे कलहे युद्धे प्रस्थाने कृषिकर्मणि॥
प्रवेशे च स्मरेद्यस्तु भक्तिपूर्वं विनायकम्॥
तस्य तद्वांछितं सर्वं प्रसादात्तस्य सिद्ध्यति ॥३०॥
महाविनायकीं शांतिं यः करोति समाहितः॥
न तं प्रेता ग्रहा रोगाः पीडयंति विनायकाः॥३१॥
॥ ययातिरुवाच ॥
महावैनायिकीं शांतिं वद मे मुनिसत्तम॥
के मंत्राः किं विधानं च परं कौतूहलं हि मे ॥३२॥
॥ पुलस्त्य उवाच ॥
शुक्लपक्षे शुभे वारे नक्षत्रे दोषवर्जिते॥
श्रेष्ठचंद्रबले शांतिं गणेशस्य समाचरेत् ॥३३॥
पूर्वोत्तरे समे देशे कृत्वा वेदिं च मंडपम्॥
मध्ये चाष्टदलं पद्मं गृह्यसूत्रं प्रयोजयेत्॥३४॥
इन्द्रादिलोकपालांश्च दिक्षु सर्वासु भूपते॥
गणेशपूर्विकाश्चापि मातरश्च विशेषतः ॥३५॥
गंधपुष्पोपहारैश्च यथोक्तैर्बलिविस्तरैः॥
श्वेतवस्त्रयुगच्छन्नं कलशं जलपूरितम् ॥३६॥
तस्यैव पूर्वदिग्भागे सहिरण्यं फलान्वितम् ॥३७॥
गणानां त्वेति मंत्रेण सहस्रं चाष्टसंयुतम्॥
जपेत्तत्र तथा चारून्पंचांगान्नृपसत्तम ॥३५॥
विनायकं समुद्दिश्य पुरः कुण्डे करात्मके॥
चतुरस्रे योनियुते मेखलाभिर्विभूषिते ॥३९॥
मधुदूर्वाक्षतैहोमैर्ग्रहहोमादनंतरम्॥
गणानां त्वेति मंत्रेण दशसाहस्रिकस्तथा ॥४०॥
कार्यो वै पार्थिवश्रेष्ठ कार्यश्चोदङ्मुखैर्द्विजैः॥
चतुर्भिश्चतुरै राजन्पीतवस्त्रानुलेपनैः ॥४१॥
पीतांबरधरैश्चैव धृतहेमांगुलीयकैः॥
ततो होमावसाने तु यजमानं नृपोत्तम ॥४२॥
मृगचर्मोपरिस्थं च मंत्रैरेभिर्विधानतः॥
स्नापयेत्प्राङ्मुखं शांतं शुक्लवस्त्रावगुंठितम् ॥४३॥
इमं मे गंगे यमुने पंचनद्यः सुपुष्करे॥
श्रीसूक्तसहितं विष्णोः पावमानं वृषाकपिम् ॥४४॥
सम्यगुच्चार्य विघ्नानां ततो नाशं प्रपद्यते॥
ग्रहाः सौम्यत्वमायांति भूता नश्यंति तत्क्षणात्॥४५॥
आधयो व्याधयो रौद्रा दुष्टरोगा ज्वरादयः॥
प्रणश्यंति द्रुतं सर्वे तथोत्पाताः सुदारुणाः ॥४६॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि॥
विनायकस्य माहात्म्यं महत्त्वं शांतिकं तथा॥४७॥
यश्च कीर्त्तयते सम्यक्चतुर्थ्यां सुसमाहितः॥
शृणोति वा नृपश्रेष्ठ तस्याऽविघ्नं सदा भवेत् ॥४८॥
यंयं काममभिध्यायन्यजेच्चेदं समाहितः॥
तत्तदाप्नोति नूनं च गणनाथप्रसादतः ॥४९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे विनायकमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥३२ ॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP