अर्बुदखण्डम् - अध्याय १९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ तीर्थं पापप्रणाशनम्॥
वाराहस्य हरेरिष्टं सदा वाससुखप्रदम् ॥१॥
वाराहेणावतारेण पृथ्वी तत्र समुद्धृता॥
हरिणोक्ता स्थिरा तिष्ठ न भेतव्यं कदाचन ॥२॥
अहं चेतो गमिष्यामि वैकुण्ठे च पुनः शुभे॥
वरं वरय कल्याणि यद्यदिष्टं सुदुर्लभम् ॥३॥
॥ पृथिव्युवाच ॥
यदि देयो वरो मह्यं शंखचक्रगदाधर॥
अनेन वपुषा तिष्ठ ह्यस्मिंस्तीर्थे सदा हरे ॥४॥
॥ हरिरुवाच ॥
अनेन वपुषा देवि पर्वतेऽर्बुदसंज्ञके॥
अहं स्थास्यामि ते वाक्यात्सदा लोक हिते रतः ॥५॥
ममाग्रे यो ह्रदः पुण्यः सुनिर्मलजलान्वितः॥
माघमासे सिते पक्ष एकादश्यां समाहितः ॥६॥
तत्र स्नात्वा नरो भक्त्या मुच्यते ब्रह्महत्यया॥
तत्र श्राद्धं करिष्यंति मनुष्याः श्रद्धयान्विताः ॥७॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम्॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥८॥
॥ पुलस्त्य उवाच ॥
इत्युक्त्वांतर्दधे राजन्गोविंदो गरुडध्वजः॥
तस्मिन्दिने नृपश्रेष्ठ स्नात्वा व्रतं समाचरेत्॥९॥
तर्पणं पिंडदानं च यः कुर्याद्भक्तितत्परः॥
स याति विष्णुसालोक्यं पूर्वजैः सह पार्थिव ॥१०॥
तत्र दानं प्रशंसंति गत्वा ब्राह्मणसत्तमे॥
अस्मिंस्तीर्थे नृपश्रेष्ठ गोदानं च करोति यः ॥११॥
रोमसंख्यानि वर्षाणि स्वर्गे तिष्ठति मानवः॥
तस्मात्सर्वात्मना राजन्गोदानं च समाचरेत् ॥१२॥
एकादश्यां विशेषेण कर्त्तव्यं स्नानमुत्तमम्॥
दानं कुर्याद्यथाशक्त्या स याति परमां गतिम् ॥१३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखंडे वाराहतीर्थमाहात्म्यवर्णनंनामैकोनविंशोध्यायः ॥१९॥
N/A
References : N/A
Last Updated : February 01, 2025

TOP