संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ५९

अर्बुदखण्डम् - अध्याय ५९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो महौजसं गच्छेत्तीर्थं पातकनाशनम्॥
यस्मिन्स्नातो नरो राजंस्तेजसा युज्यते ध्रुवम्॥
ब्रह्महत्याग्निना शक्रः पुरा दैन्यं परं गतः ॥१॥
निःश्रीकस्तेजसा हीनो दुर्गन्धेन समन्वितः॥
परित्यक्तः सुरैः सर्वैर्विषादं परमं गतः ॥२॥
ततः पप्रच्छ देवेन्द्रो द्विजश्रेष्ठं बृहस्पतिम्॥
भगवंस्तेजसो वृद्धिः कथं स्यान्मे यथा पुरा ॥३॥
॥ बृहस्पतिरुवाच ॥
तीर्थयात्रां सुरश्रेष्ठ कुरुष्व धरणीतले॥
तीर्थं विना ध्रुवं वृद्धिस्तेजसो न भविष्यति॥४॥
ततस्तीर्थान्यनेकानि भ्रांत्वा शक्रो नराधिप॥
क्रमेणैवार्बुदं प्राप्तस्तत्र दृष्ट्वा जलाशयम्॥
स्नानं चक्रे ततः श्रान्तो महौजाः प्रत्यपद्यत ॥५॥
दुर्गन्धेन विनिर्मुक्तस्ततो देवैः समावृतः॥
उवाच प्रहसन्वाक्यं शृणुध्वं सर्वदेवताः ॥६॥
येऽत्र स्नानं करिष्यन्ति प्राप्ते शक्रोच्छ्रये सदा॥
आश्विने शुक्लपक्षांते ते यास्यंति परां गतिम्॥
सुश्रीकाश्च भविष्यंति सदा जन्मनिजन्मनि ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे महौजसतीर्थप्रभाववर्णनंनामैकोनषष्टितमोऽध्यायः ॥५९॥


References : N/A
Last Updated : February 03, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP