अर्बुदखण्डम् - अध्याय ३६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ययातिरुवाच ॥
चंडिकाया द्विजश्रेष्ठ कथं तत्राश्रमोऽभवत्॥
कस्मिन्काले फलं तेन किं दृष्टेन भवेन्नृणाम् ॥१॥
॥ पुलस्त्य उवाच ॥
शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम्॥
यां श्रुत्वा मानवः सम्यक्सर्वपापैः प्रमुच्यते ॥२॥
पुरा देवयुगे राजन्महिषोनाम दानवः॥
पितामहवराद्दृप्तः सर्वदेवभयंकरः ॥३॥
तेन शक्रादयो देवा जिताः संख्ये सहस्रशः॥
भयात्तस्य दिवं हित्वा गतास्ते वै यथादिशम् ॥४॥
त्रैलोक्यं स वशे कृत्वा स्वयमिन्द्रो बभूव ह ॥५॥
आदित्या वसवो रुद्रा नासत्यौ मरुतां गणाः॥
कृतास्तेन तथा दैत्या यथार्हं बलवत्तराः ॥६॥
वह्निर्भयं समापन्नस्त्यक्त्वा देवगणांस्तदा॥
दानवेभ्यो हविर्भागं देवेभ्यो न प्रयच्छति ॥७॥
उद्द्योतं कुरुते सूर्यो यादृक्तस्याभिसंमतः॥
यज्ञभागं विनाऽप्येष भयात्पार्थिवसत्तम ॥८॥
लोकपालास्तथा सर्वे तस्य कर्म प्रचक्रिरे॥
दासवत्पार्थिवश्रेष्ठ यज्ञभागं विनाकृताः ॥ ९॥
कस्यचित्त्वथ कालस्य सर्वे देवाः समेत्य तु॥
पप्रच्छुर्विनयोपेता विप्रश्रेष्ठं बृहस्पतिम् ॥१०॥
भगवान्किं वयं कुर्मः कुत्र यामो निराश्रयाः॥
तस्माद्ब्रूहि क्षयोपायं महिषस्य दुरात्मनः ॥११॥
एवमुक्तो गुरुर्द्देवैर्ध्यात्वा कालं चिरं नृप॥
ततस्तांस्त्रिदशान्प्राह जीवयन्निव भूपतेः ॥१२॥
॥ बृहस्पतिरुवाच ॥
ब्रह्मलब्धवरो दैत्यः पौरुषे च व्यवस्थितः॥
अवध्यः सर्वदेवानां मुक्त्वेकां योषितं सुराः॥
व्रजध्वं सहितास्तस्मादर्बुदं पर्वतोत्तमम् ॥१३॥
तपोऽर्थं तत्र संसिद्धिर्जायतामचिराद्धि वः॥
शक्तिरूपां परां देवीं चंडिकां कामरूपिणीम्॥१४॥
आराधयध्वमेकांते यया व्याप्तमिदं जगत्॥
सा तुष्टा वै वधार्थं तु महिषस्य दुरात्मनः ॥१५॥
करिष्यति समुद्योगमवतारसमुद्भवम्॥
तस्या हस्तेन सोऽवश्यं वधं प्राप्स्यति दुर्मतिः ॥१६॥
अहं वः कीर्तयिष्यामि शक्तियं मंत्रमुत्तमम्॥
पूजाविधानसंयुक्तं भुक्तिमुक्तिप्रदं शुभम् ॥१७॥॥
॥ पुलस्त्य उवाच ॥
एवमुक्ताः सुराः सर्वे हर्षेण महतान्विताः॥
तेनैव सहिता राजन्गताः पर्वतमर्बुदम् ॥१८॥
तत्र स्नाताञ्छुचीन्सर्वान्दीक्षयामास गीष्पतिः॥
शक्तियैः परमैर्मंत्रैः सद्यःसिद्धिकरैर्नृप ॥१९॥
सार्धयामत्रयं तत्र परिवारसमन्विताः॥
बलिपूजोपहारैश्च गंधं माल्यानुलेपनैः ॥२०॥
मंत्रेण विविधेनैव चारुस्तोत्रेण भक्तितः॥
प्रार्थयंतस्तथा नित्यं दीपज्योतिः समाहिताः ॥२१॥
निर्ममा निरहंकारा गुरुभक्तिपरायणाः॥
अंगन्याससमायुक्ताः समदर्शित्वमागताः ॥२२॥
एवं संतिष्ठमानानां तेषां पार्थिवसत्तम॥
सप्त मासा व्यतिक्रांतास्ततस्तुष्टा सुरेश्वरी ॥२३॥
दीपज्योतिःसमावेशात्तेषां गात्रेषु पार्थिव॥
मंत्रेण परिपूतानां परं तेजो व्यवर्धत ॥२४॥
द्वादशार्कप्रभा जाताः षण्मासाभ्यंतरेण ते॥
अथ तांस्तेजसा युक्ताञ्ज्ञात्वा जीवो महीपते ॥२५॥
मंडलं रचयामास सर्वसिद्धिप्रदायकम्॥
उपवेश्य ततः सर्वान्समस्तांस्त्रिदशालयान् ॥२६॥
तेषां शरीरगं तेजः शक्तियैर्मंत्रसत्तमैः॥
आकृष्य न्यसयामास मंडले तत्र पार्थिव ॥२७॥
ततस्तेजोमयी कन्या तत्र जाता स्वरूपिणी॥
शक्तिरूपा महाकाया दिव्यलक्षणलक्षिता ॥२८॥
इंद्रस्तस्यै ददौ वज्रं स्वपाशं च जलेश्वरः॥
शक्तिं च भगवानग्निः सिंहयानं धनाधिपः ॥२९॥
अन्ये चैव गणाः सर्वे निजशस्त्राणि हर्षिताः॥
तस्यै ददुर्नृपश्रेष्ठ स्तुतिं चक्रुः समाहिताः ॥३०॥
॥ देवा ऊचुः ॥
नमस्ते देवदेवेशि नमस्ते कांचनप्रभे॥
नमस्ते पद्मपत्राक्षि नमस्ते जगदम्बिके ॥३१॥
नमस्ते विश्वरूपे च नमस्ते विश्वसंस्तुते॥
त्वं मतिस्त्वं धृतिः कांतिस्त्वं सुधा त्वं विभावरी ॥३२॥
क्षमा ऋद्धिः प्रभा स्वाहा सावित्री कमला सती॥
त्वं गौरी त्वं महामाया चामुण्डा त्वं सरस्वती ॥३३॥
भैरवी भीषणाकारा चंडमुंडासिधारिणी॥
भूतप्रिया महाकाया घटाली विक्रमोत्कटा ॥३४॥
मद्यमांसप्रिया नित्यं भक्तत्राणपरायणा॥
त्वया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥३५॥
॥ पुलस्त्य उवाच ॥
एवं स्तुता सुरैः सर्वैस्ततो देवी प्रहर्षिता॥
तानब्रवीद्वरं सर्वा गृह्णंतु मम देवताः ॥३६॥
॥ देवा ऊचुः ॥
दानवो महिषो नाम पितामहवरान्वितः॥
अवध्यः सर्वभूतानां देवानां च तथा कृतः ॥३७॥
मुक्त्वैकां योषितं देवि तस्मात्त्वं विनिपातय ॥३८॥
॥ देव्युवाच ॥
गच्छध्वं त्रिदशाः सर्वे स्वानि स्थानानि निर्वृताः ॥३९॥
अहं तं सूदयिष्यामि समये पर्युपस्थिते॥
एवमुक्ता गताः सर्वे देवाः स्थानानि हर्षिताः ॥४०॥
देवी तत्रैव संहृष्टा स्थिता पर्वतरोधसि॥
कस्यचित्त्वथकालस्य नारदो भगवान्मुनिः ॥४१॥
तत्र देवीं च संदृष्ट्वा तीर्थयात्रापरायणः॥
त्रिविष्टपमनुप्राप्तो महिषो यत्र तिष्ठति ॥४२॥
तत्र दृष्ट्वा मुनिं प्राप्तं प्रणम्य महिषासुरः॥
विनयेन समायुक्तो ह्यभ्युत्थानमथाकरोत्॥४३॥
ततस्तं पूजयामास मधुपर्कार्घविष्टरैः॥
सुखासीनं सुविश्रांतं ज्ञात्वा वाक्यमुवाच ह ॥४४॥
कुतो भवानितः प्राप्तः किमर्थं मुनिसत्तम॥
अमी पुत्रास्तथा राज्यं कलत्राणि धनानि च ॥४५॥
अहं भृत्यसमायुक्तः किमनेन द्विजोत्तम॥
सर्वं तेऽहं प्रदास्यामि ब्रूहि येन प्रयोजनम्॥ ४६॥
॥ नारद उवाच ॥
अभिनंदामि ते सर्वमेतत्त्वय्युपपद्यते ।
निःस्पृहा हि वयं नित्यं मुनिधर्मं समाश्रिताः ॥४७॥
कौतूहलादिह प्राप्तश्चिरात्ते दर्शनं गतः॥
मर्त्त्यलोकात्समायातो यास्यामि ब्रह्मणः पदम् ॥४८॥
॥ महिषासुर उवाच ॥
क्वचिद्दृष्टं त्वया किञ्चिदाश्चर्यं भूतले मुने॥
दैवं वा मानुषं वापि दानवा लंभिता विभो ॥४९॥
॥ नारद उवाच ॥
अत्याश्चर्यं मया दृष्टं दानवेन्द्र धरातले॥
यत्र दृष्टं क्वचित्पूर्वं त्रैलोक्ये सचराचरे ॥५०॥
अस्त्यर्बुद इति ख्यातः पर्वतो धरणीतले॥
सर्वर्तुपुष्पितैर्वृक्षैः शोभितः स्वर्गसन्निभः ॥५१॥
बकुलैश्चंपकैश्चाम्रैरशोकैः कर्णिकारकैः॥
शालैस्तालैश्च खर्जूरैर्वटैर्भल्लातकैर्धवैः ॥५२॥
सरलैः पनसैर्वृक्षैस्तिंदुकैः करवीरकैः॥
मंदारैः पारिजातैश्च मलयैश्चंदनैस्तथा ॥५३॥
पुष्पजातिविशेषैश्च सुगंधैरप्यनेककैः॥
खाद्यैः सर्वेस्तथा लेह्यैश्चोष्यैः फलवरैर्वृतः ॥५४॥
न स वृक्षो न सा वल्ली नौषधी सा धरातले॥
न तत्र याऽसुरज्येष्ठ पर्वते वीक्षिता मया ॥५५॥
पक्षिणो मधुरारावाश्चकोरशिखिचातकाः॥
कोकिला धार्तराष्ट्राश्च भ्रमराः श्वेतपत्रकाः ॥५६॥
येषां शब्दं समाकर्ण्य मुनयोऽपि समाहिताः॥
क्षोभं यांति त्रिकालज्ञाः कंदर्पशरपीडिताः ॥५७॥
निर्झराणि सुरम्याणि नद्यश्च विमलोदकाः॥
पद्मिनीखंडसंयुक्ता ह्रदाः शतसहस्रशः ॥५८॥
पद्मपत्रविशालाक्षा मध्यक्षामाः शुचिस्मिताः॥
विवेकिनो नरास्तत्र शास्त्रव्रतसमन्विताः ॥५९॥
किं चात्र बहुनोक्तेन यत्किंचित्तत्र पर्वते॥
स्वेदजांडजसंज्ञेया उद्भिज्जाश्च जरायुजाः॥
सर्वलोकोत्तरास्तत्र दृश्यंते पर्वतोत्तमे ॥६०॥
दशयोजनविस्तारो द्वाभ्यां संहितपर्वतः॥
उच्चैः पंच च स श्रीमान्मर्त्ये स्वर्गो व्यजायत ॥६१॥
तत्राऽहं कौतुकाविष्ट इतश्चेतश्च वीक्षयन्॥
सर्वाश्चर्यमयीं नारीमपश्यं लोकसुंदरीम् ॥६२॥
न देवी नापि गंधर्वी नासुरी न च मानुषी॥
तादृग्रूपा मया दृष्टा न श्रुता च वरांगना ॥६३॥
रतिः प्रीतिरुमा लक्ष्मीः सावित्री च सरस्वती॥
तस्या रूपस्य लेशेन नैतास्तुल्याः स्त्रियोऽखिलाः ॥६४॥
अहं दृष्ट्वा तथा रूपां नारीं कामेन पीडितः॥
तदा दानवशार्दूल वैक्लव्यं परमं गतः ॥६५॥
ततो धैर्यमवष्टभ्य मया मनसि चिंतितम्॥
न करिष्ये समालापं तया सह च कर्हिचित् ॥६६॥
यस्या दर्शनमात्रेण कामो मे हृदि वर्द्धितः॥
तस्याः संभाषणेनेव किं भविष्यति मे पुनः ॥६७॥
चिरकालं तपस्तप्तं ब्रह्मचर्येण वै मया॥
नाशं यास्यति तत्सर्वं विषयैर्निर्जितस्य च॥
तस्माद्गच्छामि चान्यत्र यावन्न विकृतिर्भवेत् ॥६८॥
नारीनाम तपोविघ्नं पूर्वं सृष्टं स्वयंभुवा॥
अर्गला स्वर्गमार्गस्य सोपानं नरकस्य च ॥६९॥
तावद्धैर्यं तपः सत्यं तावत्स्थैर्यं कुलत्रपा॥
यावत्पश्यति नो नारीमैकांते च विशेषतः ॥७०॥
एतत्संचिंत्य बहुधा निमील्य नयने ततः॥
अप्रजल्प्य वरारोहां तामहं चात्र संस्थितः ॥७१॥
॥ पुलस्त्य उवाच ॥
नारदस्य वचः श्रुत्वा महिषः कामपीडितः॥
श्रवणादपि राजेंद्र पुनः पप्रच्छ तं मुनिम् ॥७२॥
॥ महिषासुर उवाच ॥
काऽसौ ब्राह्मणशार्दूल तादृग्रूपा वरांगना॥
यस्याः संदर्शनादेव भवानेव स्मरान्वितः ॥७३॥
देवी वा मानुषी वापि यक्षिणी पन्नगी मुने॥
कुमारी वा सकांता वा ब्रूहि सर्वं सविस्तरम् ॥७४॥
॥ नारद उवाच ॥
न सा पृष्टा मया किंचिन्न जानामि तदन्वयम्॥
एतन्मे वर्त्तते वित्ते सा कुमारी यशस्विनी ॥७६॥
अक्षमालाधरा बाला कमंडलुसमन्विता॥
तपस्तेपे गिरौ तत्र हेतुना केनचिच्छुभा ॥७६॥
सोऽहं यास्यामि दैत्येश ब्रह्मलोकं सनातनम्॥
नोत्सहे तत्कथां कर्तुं कामबाणभयातुरः ॥७७॥
एवमुक्त्वा ततो राजन्ब्रह्मलोकं गतो मुनिः॥
महिषोऽपि स्मराविष्टश्चरं तस्याः समादिशत् ॥७८॥
गत्वा भवान्द्रुतं तत्र दृष्ट्वा तां च वरांगनाम्॥
किमर्थं सा तपस्तेपे को वै तस्याः परिग्रहः ॥७९॥
अथाऽसौ महिषादेशाद्दूतो गत्वार्बुदाचलम्॥
दृष्ट्वा तां पद्मगर्भाभां ज्ञात्वा सर्व विचेष्टितम् ॥८०॥
तस्मै निवेदयामास महिषाय सविस्मयः॥
दृष्टा दैत्यवर स्त्री च सर्वलक्षणलक्षिता ॥८१॥
देवतेजोभवा कन्या साऽद्यापि वरवर्णिनी॥
त्वद्वधार्थं तपस्तेपे कौमारव्रतमाश्रिता ॥८२॥
एवं तत्र भवंती स्म पृष्टाः सर्वे तपस्विनः॥
सत्यमेतन्महाभाग कुरुष्व यदनंतरम् ॥८३॥
तस्या रूपं वयः कांतिर्वर्णितुं नैव शक्यते॥
नालापं कुरुते बाला सा केनापि समं विभौ ॥८४॥
॥ पुलस्त्य उवाच ॥
तच्छ्रुत्वा महिषो वाक्यं भूयः कामनिपीडितः॥
दूतं संप्रेषयामास दानवं च विचक्षणम् ॥८५॥
विचक्षण द्रुतं गत्वा मदर्थे तां तपस्विनीम्॥
सामभेदप्रदानेन दंडेनापि समानय ॥८६॥
अथाऽसौ प्रययौ शीघ्रं प्रणिपत्य विचक्षणः॥
अर्बुदे पर्वतश्रेष्ठे यत्र सा परमेश्वरी॥
प्रणम्य विनयोपेतो वाक्यमेतदुवाच ताम् ॥८७॥
महिषो नाम विख्यातस्त्रैलोक्याधिपतिर्बली॥
दनुवंशसमुद्भूतः कामरूपसमन्वितः ॥८८॥
स त्वां वांछति कल्याणि धर्मपत्नीं स्वधर्मतः॥
तस्माद्वरय भद्रं ते सर्वकामप्रदं पतिम् ॥८९॥
यदि स्यात्तव कांतोऽसौ त्वं च तस्य तथा प्रिया॥
तत्कृतार्थं द्वयोरेव यौवनं नात्र संशयः ॥९०॥
एवमुक्ता ततस्तेन देवी वचनमब्रवीत्॥
किञ्चित्कोपसमायुक्ता मुहुः प्रस्फुरिताधरा ॥९१॥
॥ देव्युवाच ॥
अवध्यः सर्वथा दूतः सर्वत्र परिकीर्तितः॥
अवस्थासु ततो न त्वं सहसा भस्मसात्कृतः ॥९२॥
गत्वा ब्रूहि दुराचारं महिषं दानवाधमम्॥
नाहं शक्या त्वया पाप लब्धुं नान्येन केनचित् ॥९३॥
वधार्थं ते समुद्योग एष सर्वो मया कृतः॥
तस्यास्तद्वचनं श्रुत्वा महिषं स पुनर्ययौ ॥९४॥
भयेन महताविष्टस्तस्या रूपेण विस्मितः॥
सर्वं निवेदयामास महिषाय विचेष्टितम्॥
तस्याश्चैव तथाऽऽलापानस्पृहत्वं च कृत्स्नशः ॥९५॥
तच्छुत्वा महिषो राजन्कामबाणप्रपीडितः॥
सेनापतिं समाहूय वाक्यमेतदुवाच ह ॥९६॥
अर्बुदे पर्वते सेनां कल्पयस्व सुदुर्धराम्॥
हस्त्यश्वकल्पितां भीमां रथपत्तिसमाकुलाम् ॥९७॥
ततोऽसौ कल्पयामास चतुरंगां वरूथिनीम्॥
पताकाच्छत्रशबलां वादित्रारावभूषिताम् ॥९८॥
ततो द्विपाश्च संनद्धा दृश्यंतेऽधिष्ठिता भटैः॥
इतश्चेतश्च धावन्तः सपक्षाः पर्वता इव ॥९९॥
अश्वाश्चैवाप्यकल्माषा वायुवेगाः सुवर्चसः॥
अंगत्राणसमायुक्ताः शतशोऽथ सहस्रशः ॥१००॥
विमानप्रतिमाकारा रथास्तेन प्रकल्पिताः॥
किंकिणीजालसद्घंटापताकाभिरलंकृताः ॥१०१॥
पत्तयश्च महाकाया महेष्वासा महाबलाः॥
असिचर्मधराश्चान्ये प्रासपट्टिशपाणयः ॥१०२॥
लक्षमेकं मतंगानां रथानां त्रिगुणं ततः॥
अश्वा दशगुणा राजन्नसंख्याताः पदातयः ॥१०३॥
ततश्चार्बुदमासाद्य वेष्टयित्वा स दूरतः॥
संमितैः सचिवैः सार्धं तदंतिकमुपाद्रवत् ॥१०४॥
ध्यानस्थां वीक्ष्य तां देवीं कन्दर्पशरपीडितः॥
ततोऽब्रवीत्स तां वाक्यं विनयेन समन्वितः ॥१०५॥
श्रुत्वा तवेदृशं रूपमहं प्राप्तो वरानने॥
गांधर्वेण विवाहेन तस्माद्वरय मां द्रुतम् ॥१०६॥
षष्टिभार्यासहस्राणि मम संति शुचिस्मिते॥
कृत्वा मां दर्पितं कांतं तासां त्वं स्वामिनी भव ॥१०७॥
अनर्हं ते तपो बाले भुंक्ष्व भोगान्यथेप्सितान्॥
त्रैलोक्यस्वामिनी भूत्वा मया सार्धमहर्निशम् ॥१०८॥
एवमुक्ताऽपि सा तेन नोत्तरं प्रत्यभाषत॥
ततः कामसमाविष्टस्तदंतिकमुपाययौ ॥१०९॥
ततस्तं लोलुपं दृष्ट्वा सा देवी कोपसंयुता॥
अस्मरद्वाहनं सिंहं समायातः स साऽऽरुहत् ॥११०॥
अब्रवीत्परुषं वाक्यं गच्छगच्छेति चासकृत्॥
नो चेत्त्वां च वधिष्यामि स्थानेऽस्मिन्दानवाधम ॥१११॥
अथाऽसौ सचिवैः सार्द्धं समंतात्पर्यवेष्टयत्॥
प्रग्रहार्थं तु तां देवीं कामबाणप्रपीडितः ॥११२॥
ततो जहास सा देवी सशब्दं परमेश्वरी॥
तस्मादहर्निशं सार्द्धं निष्क्रांता पुरुषा घनाः ॥११३॥
सुसन्नद्धाः सशस्त्राश्च रोषेण महताऽन्विताः॥
ततस्तानब्रवीद्देवी पापोऽयं वध्यतामिति ॥११४॥
ततस्ते सहिताः सर्वे महिषं समुपाद्रवन्॥
तिष्ठतिष्ठेति जल्पन्तो मुंचन्तोऽस्त्रणि भूरिशः ॥११५॥
ततः समभवद्युद्धं गणानां दानवैः सह॥
ततस्ते सचिवाः सर्वे वैवस्वतगृहं गताः ॥११६॥
अथाऽसौ महिषो रुष्टः सचिवैर्विंनिपातितैः॥
स्वसैन्यमानयामास तस्मिन्पर्वतरोधसि ॥११७॥
रथप्रवरमारुह्य सारथिं समभाषत॥
नय मां सारथे तूर्णं यत्र साऽऽस्ते व्यवस्थिता ॥११८॥
हत्वैनामद्य यास्यामि पारं रोषस्य दुस्तरम्॥
एवमुक्तस्ततो राजन्प्रेरयामास सारथिः ॥११९॥
रथं तेनैव मार्गेण यत्र सा तिष्ठते ध्रुवम्॥
एतस्मिन्नेव काले तु तत्रोत्पाताः सुदारुणाः ॥१२०॥
बहवस्तेन मार्गेण येनासौ प्रस्थितो नृप॥
सम्मुखः प्रववौ वातो रूक्षः कर्करसंयुतः ॥१२१॥
पपात महती चोल्का निहत्य रविमंडलम्॥
अपसव्यं मृगाश्चक्रुस्तस्य मार्गे नृपोत्तम ॥१२२॥
उपविष्टास्तथा वांता बहुमूत्रं प्रसुस्रुवुः॥
रथध्वजे समाविष्टो गृध्रः शब्दमथाकरोत् ॥१२३॥
स तान्सर्वाननादृत्य महोत्पातान्सुदारुणान्॥
प्रययौ सम्मुखस्तस्या देव्याः कोपपरायणः ॥१२४॥
विमुंचंश्च शरान्नादांस्तिष्ठतिष्ठेति च ब्रुवन्॥
न कश्चिद्दृश्यते तत्र तेषां मध्ये नृपोत्तम ॥१२५॥
महिषं रोषसंयुक्तं यो वारयति संगरे॥
तेन हत्वा गणगणान्कृतं रुधिरकर्दमम् ॥१२६॥
ततो देवी समासाद्य प्रोक्ता गर्वेण पार्थिव॥
न त्वया संगरो भीरु नूनं कर्तुं ममोचितः ॥१२७॥
न च बालिशि मे वीर्यं न सौभाग्यं न वा धनम्॥
न करोषि हि तेन त्वं मम वाक्यं कथञ्चन ॥१२८॥
नूनं तत्त्वेन जानामि अवलिप्तासि भामिनि॥
कुरुष्वाद्यापि मे वाक्यं भार्या भव मम प्रिया ॥१२९॥
स्त्रियं त्वां नोत्सहे हंतुं पौरुषे च व्यवस्थितः॥
असकृन्निर्जितः संख्ये मया शक्रः सुरैः सह ॥१३०॥
त्रैलोक्ये नास्ति मत्तुल्यः पुमान्कश्चिच्च बालिशि॥
एवमुक्ता ततो देवी कोपेन महताऽन्विता ॥१३१॥
प्रगृह्य सशरं चापं वाक्यमेतदुवाच ह॥
नालापो युज्यते पाप कर्तुं सह मम त्वया ॥१३२॥
कुमार्याः कामयुक्तेन तथापि शृणु मे वचः॥
न त्वया निर्जितः शक्रः स्ववीर्येण रणाजिरे ॥१३३॥
पितामह वरं देवा मन्यंते दानवाधम॥
गौरवात्तस्य तेन त्वमात्मानं मन्यसेऽधिकम् ॥१३४॥
मुक्त्वैकां कामिनीं पाप त्वं कृतः पद्मयोनिना॥
अवध्यः सर्वसत्त्वानां पुंसः जातौ धरातले ॥१३५॥
पितामहवरः सोऽत्र जयशीलोऽसि दानव॥
यदि ते पौरुषं चास्ति तच्छीघ्रं संप्रदर्शय ॥१३६॥
एषा त्वामिषुभिस्तीक्ष्णैर्नयामि यमसादनम्॥
एवमुक्त्वा ततो देवी शरानष्टौ मुमोच ह ॥१३७॥
चतुर्भिश्चतुरो वाहाननयद्यमसादनम्॥
सारथेश्च शिरः कायाच्छरेणैकेन चाक्षिपत् ॥१३८॥
ध्वजं चिच्छेद चैकेन ततोऽन्येन हृदि क्षतः॥
स गात्रविद्धो व्यथितो ध्वजयष्टिं समाश्रितः ॥१३९॥
मूर्छया सहितो राजन्किंचित्कालमधोमुखः॥
ततः स चेतनो भूत्वा मुमोच निशिताञ्छरान् ॥१४०॥
देवी सखीसमायुक्ता सर्वदेशेष्वताडयत्॥
ततः क्षुरप्रबाणेन धनुस्तस्य द्विधाऽकरोत् ॥१४१॥
छिन्नधन्वा ततो दैत्यश्चर्मखङ्गसमन्वितः॥
विद्राव्य सहसा देवीं तिष्ठतिष्ठेति चाब्रवीत् ॥१४२॥
तस्य चापततस्तूर्णं खड्गं द्वाभ्यां ह्यकृन्तयत्॥
शराभ्यामर्धबाणेन प्रहस्य प्रासमेव च ॥१४३॥
विशस्त्रो विरथो राजन्स तदा दानवाधमः॥
ततोऽस्मरच्छरान्भूप शस्त्राणि विविधानि च ॥१४४॥
ब्रह्मास्त्रं मनसि ध्यायंस्तृणं तस्यै मुमोच सः॥
मुक्तेनास्त्रेण तस्मिंस्तु धूमवर्तिर्व्यजायत ॥१४५॥
एतस्मिन्नेव काले तु स ब्रह्मास्ते दिवौकसः॥
परं भयमनुप्राप्ता दृष्ट्वा तस्य पराक्रमम् ॥१४६॥
ततो देवी क्षणं ध्यात्वा तदस्त्रं पार्थिवोत्तम॥
ब्रह्मास्त्रेणाहनत्तूर्णं ततो व्यर्थं व्यजायत ॥१४७॥
ब्रह्मास्त्रे विफले जाते ह्याग्नेयं दानवोत्तमः॥
प्रेषयामास तां क्रुद्धो ह्यहनद्वारुणेन सा ॥१४८॥
एवं नानाप्रकाराणि तेन मुक्तानि सा तदा॥
अस्त्राणि विफलान्येव चक्रे देवी सहस्रशः ॥१४९॥
एवं निःशेषितास्त्रोऽसौ दानवो बलवत्तरः।.
चकार परमां मायां दिव्यैरस्त्रैः सुरेश्वरी ॥१५०॥
व्यक्षिपच्च महाकायं महिषं पर्वताकृतिम्॥
दीर्घतीक्ष्णविषाणाभ्यां युक्तमंजनसंनिभम् ॥१५१॥
सिंहस्कंधं च सा देवी ततस्तमध्यरोहत॥
खड्गेन तीक्ष्णेन शिरो देवी तस्य न्यकृंतत ॥१५२॥
शूलेन भेदयामास पृष्ठदेशे सुरेश्वरी॥
ततः कलेवरात्तस्मान्निश्चक्राम महान्पुमान् ॥१५३॥
चर्मखड्गधरो रौद्रस्तिष्ठतिष्ठेति चाब्रवीत्॥
तमप्येवं गृहीत्वा तत्केशपाशे सुरेश्वरी ॥१५४॥
निस्त्रिंशेनाहनत्प्रोच्चैः स च प्राणैर्व्ययुज्यत॥
दानवः पार्थिवश्रेष्ठ पार्श्वे सिंहविदारिते ॥१५५॥
ततो जघान भूयोऽपि दानवान्सा रुषान्विता॥
हतशेषाश्च ये दैत्या निर्भिद्य धरणीतलम् ॥१५६॥
प्रविष्टा भयसंत्रस्ताः पातालं जीवितैषिणः॥
ततो देव गणाः सर्वे वसवो मरुतोऽश्विनौ ॥१५७॥
विश्वेदेवास्तथा साध्या रुद्रा गुह्यककिन्नराः॥
आदित्याः शक्रसंयुक्ताः समेत्य परमेश्वरीम् ॥१५८॥
समंताद्दिव्यपुष्पैश्च तां देवीं समवाकिरन्॥
स्तुवंतो विविधैः स्तोत्रैर्नमंतो भक्तितत्पराः ॥१५९॥
युक्तं कृतं महेशानि यद्धतः पापकृत्तमः॥
त्रैलोक्यं सकलं ध्वस्तं पापेनानेन सुंदरि ॥१६०॥
त्वया दत्तं पुना राज्यं वासवस्य त्रिविष्टपे॥
तस्माद्वरय भद्रं ते वरं यन्मनसीप्सितम्॥
सर्वे देवाः प्रसन्नास्ते प्रदास्यंति न संशयः ॥१६१॥
॥ देव्युवाच ॥
यदि देवाः प्रसन्ना मे यदि देयो वरो मम॥
आश्रमोऽत्रैव मे पुण्यो जायतां ख्यातिसंयुतः ॥१६२॥
अस्मिंश्चाहं सदा देवाः स्थास्यामि वरपर्वते ॥१६३॥
रूपेणानेन देवेशि ये त्वां द्रक्ष्यंति मानवाः॥
आश्रमेऽत्र महापुण्ये ते यास्यंति परां गतिम्॥१६४॥
ब्रह्मज्ञानसमायुक्तास्ते भविष्यंति मानवाः ॥१६५॥
यस्माच्चंडं कृतं कर्म त्वया दानवसूदनात्॥
तस्मात्त्वं चंडिकानाम लोके ख्यातिं गमिष्यसि ॥१६६॥
तव नाम्ना तथा ख्यात आश्रमोऽयं भविष्यति ॥१६७॥
येऽत्र कृष्ण चतुर्द्दश्यामाश्विने मासि शोभने॥
पिंडदानं करिष्यंति स्नानं कृत्वा समाहिताः ॥१६८॥
गयाश्राद्धफलं कृत्यं तेषां देवि भविष्यति॥
त्वद्दर्शनात्तथा मुक्तिः पातकस्य भविष्यति ॥१६९॥
॥ कृष्ण उवाच ॥
एकरात्रिं भविष्यंति येऽत्र श्रद्धासमन्विताः॥
उपवासपरास्तेषां पापं यास्यति संक्षयम् ॥१७०॥
पुत्रहीनश्च यो मर्त्यो नारी वापि समाहिता॥
तन्मनाः पिंडदानं वै तथा स्नानं करिष्यति॥
अपुत्रो लभते शीघ्रं सुपुत्रं नात्र संशयः ॥१७१॥
॥ इन्द्र उवाच ॥
भ्रष्टराज्यो नृपो योऽत्र स्नानं दानं करिष्यति॥
सर्वशत्रुक्षयस्तस्य राज्यावाप्तिर्भविष्यति ॥१७२॥
॥ अग्निरुवाच॥
अत्रागत्य शुचिः श्राद्धं यः करिष्यति मानवः॥
आत्मवित्तानुसारेण तस्य यज्ञफलं भवेत् ॥१७३॥
॥ यम उवाच॥
अत्र स्नात्वा तिलान्यस्तु ब्राह्मणेभ्यः प्रदास्यति॥
अल्पमृत्युभयं तस्य न कदाचिद्भविष्यति ॥१७४॥
॥ राक्षसा ऊचुः ॥
पिंडदानं नरा येऽत्र करिष्यंति तवाऽऽश्रमे॥
प्रेतोत्थं न भयं तस्य देवि क्वापि भविष्यति ॥१७५॥
॥ वरुण उवाच ॥
स्नानार्थं ब्राह्मणेंद्राणां योऽत्र तोयं प्रदास्यति॥
विमलस्तु सदा भावि इह लोके परत्र च ॥१७६॥
॥ वायुरुवाच ॥
विलेपनानि शुभ्राणि सुगंधानि विशेषतः॥
योत्र दास्यति विप्रेभ्यो नीरोगः स भविष्यति ॥१७७॥
॥ धनद उवाच ॥
योऽत्र वित्तं यथाशक्त्या ब्राह्मणेभ्यः प्रदास्यति॥
न भविष्यति लोके स वित्तहीनः कथंचन ॥१७८॥
॥ ईश्वर उवाच ॥
योऽत्र व्रतपरो भूत्वा चातुर्मास्यं वसिष्यति॥
इह लोके परे चैव तस्य भावि सदा सुखम् ॥१७९॥
॥ वसव ऊचुः ॥
त्रिरात्रं यो नरः सम्यगुपवासं करिष्यति॥
आजन्ममरणात्पापान्मुक्तः स च भविष्यति ॥१८०॥
॥ आदित्य उवाच ॥
अत्राश्रमपदे पुण्ये ये नरा भक्तिसंयुताः॥
छत्रोपानत्प्रदातारस्तेषां लोकाः सनातनाः ॥१८१॥
॥ अश्विनावूचतुः ॥
मिष्टान्नं श्रद्धयोपेतो ब्राह्मणाय प्रदास्यति॥
योऽत्र तस्य परा प्रीतिर्भविष्यत्यविनाशिनी ॥१८२॥
॥ तीर्थान्यूचुः ॥
अद्यप्रभृति सर्वेषां तीर्थानामिह संस्थितिः॥
भविष्यति विशेषेण ह्याश्रमे लोकविश्रुते ॥१८३॥
कृष्णपक्षे चतुर्द्दश्यामाश्विने मासि भक्तितः॥
उपवासपरो भूत्वा योऽत्र स्नानं करिष्यति॥
सर्वेषामेव तीर्थानां स फलं हि लभिष्यति ॥१८४॥
॥ गंधर्वा ऊचुः ॥
गीतवाद्यानि यश्चात्र प्रकरिष्यति मानवः॥
सप्तजन्मांतराण्येव रूपवान्स भविष्यति ॥१८५॥
॥ ऋषय ऊचुः ॥
आश्रमेऽस्मिंस्त्रिरात्रं य उपवासं करिष्यति॥
चांद्रायणसहस्रस्य फलं तस्य भविष्यति ॥१८६॥
॥ पुलस्त्य उवाच ॥
एवं सर्वे वरान्दत्त्वा देव्यै देवा नृपोत्तम॥
तदाज्ञया दिवं जग्मुर्देवी तत्रैव संस्थिता ॥१८७॥
अथ मर्त्त्या दिवं जग्मुर्दृष्ट्वा देवीं तदाश्रमे॥
अनायासेन संपूर्णास्ततो मर्त्यैस्त्रिविष्टपः ॥१८८॥
अग्निष्टोमादिकाः सर्वाः क्रिया नष्टा धरातले॥
धर्मक्रियास्तथा चान्या मुक्त्वा देव्याः प्रपूजनम् ॥१८९॥
ततो भीतः सहस्राक्षः संमंत्र्य गुरुणा सह॥
आह्वयामास वेगेन कामं क्रोधं भयं मदम् ॥१९०॥
व्यामोहं गृहपुत्रोत्थं तृष्णामायासमन्वितम्॥
गत्वा यूयं द्रुतं मर्त्ये स्थातुकामान्नरान्स्त्रियः ॥१९१॥
चंडिकायतने पुण्ये सेवध्वं हि ममाज्ञया॥
विशेषेणाश्विने मासि कृष्णपक्षेंऽत्यवासरे ॥१९२॥
एवमुक्तास्ततः सर्वे कामाद्यास्ते द्रुतं ययुः॥
मर्त्यलोके महाराज रक्षां चक्रुश्च सर्वशः ॥१९३॥
एवं ज्ञात्वा द्रुतं गच्छ तत्र पार्थिवसत्तम॥
यदीच्छसि परं श्रेय इह लोके परत्र च ॥१९४॥
यो याति चंडिकां द्रष्टुमबुर्दं प्रति पार्थिव॥
नृत्यंति पितरस्तस्य गर्जंति च पितामहाः ॥१९५॥
तारयिष्यति नः सर्वान्स पुत्रो य इहाश्रमे॥
चंडिकायाः प्रगत्वाऽथ कुर्याच्छ्राद्धं समाहितः ॥१९६॥
एकया लभ्यते राज्यं स्वर्गश्चैव द्वितीयया॥
तृतीयया भवेन्मोक्षो यात्रया तत्र पार्थिव ॥१९७॥
तस्मात्सर्वप्रयत्नेन यात्रां तत्र समाचरेत्॥
अर्बुदे पर्वतश्रेष्ठे सर्वतीर्थमये शुभे ॥१९८॥
तत्र श्लोकः पुरा गीतो नारदेन महर्षिणा॥
स्नात्वा तत्राश्रमे पुण्ये बहुविप्र समागमे ॥११९॥
पुनंत्येवान्यतीर्थानि स्नानदानैरसंशयम्॥
अर्बुदालोकनादेव विपाप्मा तत्र जायते ॥२००॥
यः शृणोति सदाख्यानमेत च्छ्रद्धासमन्वितः॥
स प्राप्नोति नरश्रेष्ठ कामान्मनसि वांछितान् ॥२०१॥
यस्यैतत्तिष्ठते गेहे लिखितं पुस्तकं नृप॥
तस्यापि वांछिताः कामाः संपद्यते दिनेदिने ॥२०२॥
पठति श्रद्धयोपेतो यो वा भूमिपते नरः॥
सोऽपि यात्राफलं राजँल्लभते पुरुषोत्तमः ॥२०३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे .तृतीयेऽर्बुदखण्डे चंडिकाश्रमोत्पत्तिमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥३६॥
N/A
References : N/A
Last Updated : February 03, 2025

TOP