अर्बुदखण्डम् - अध्याय २७
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ चक्रतीर्थमनुत्तमम्॥
यत्र चक्रं पुरा मुक्तं विष्णुना प्रभविष्णुना ॥१॥
निहत्य दानवान्संख्ये कृत्वा स्नानं सुनिर्झरे॥
विष्णुः प्राक्षालयत्तोयं तेन तन्मेध्यतां गतम् ॥२॥
तत्र श्राद्धं तु यः कुर्याच्छयने बोधने हरेः॥
आकल्पं पितरस्तस्य तृप्तिं यांति नराधिप ॥३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे चक्रतीर्थप्रभाववर्णनंनाम सप्तविंशोऽध्यायः ॥२७॥
N/A
References : N/A
Last Updated : February 01, 2025

TOP