संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय ६

अर्बुदखण्डम् - अध्याय ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ वसिष्ठं तपसां निधिम्॥
यं दृष्ट्वा मानवः सम्यक्कृतार्थत्वमवाप्नुयात् ॥१॥
तत्रास्ति जलसम्पूर्णं कुण्डं पापहरं नृणाम्॥
तस्मिन्कुण्डे नृपश्रेष्ठ वसिष्ठेन महात्मना ॥२॥
गोमती च समानीता तपसा नृपसत्तम॥
तत्र स्नातो नरः सम्यक्पातकै र्विप्रमुच्यते॥३॥
ऋषिधान्येन यस्तत्र श्राद्धं नृप समाचरेत्॥
स पितृंस्तारयेत्सर्वान्पक्षयोरुभयोरपि॥४॥
अत्र गाथा पुरा गीता नारदेन महात्म ना॥
स्नात्वा पुण्योदके तत्र दृष्ट्वा तं मुनिसत्तमम् ॥५॥
किं गयाश्राद्धदानेन किमन्यैर्मखविस्तरैः॥
वसिष्ठस्याश्रमं प्राप्य यः श्राद्धं कुरुते नरः॥
स पितॄंस्तारयेत्सर्वानात्मना नृपसत्तम ॥६॥
तत्रैवारुंधती साध्वी वसिष्ठस्य समीपतः॥
पूजनीया विशेषेण सर्वकामप्रदा नृणाम् ॥७॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा॥
वसिष्ठदर्शनात्सद्यो नराणां याति संक्षयम्॥८॥
दीपं प्रयच्छते यस्तु वसिष्ठाग्रे समाहितः॥
सुखसौभाग्यसंयुक्तस्तेजस्वी जायते नरः ॥९॥
उपवासपरो यस्तु तत्रैका रजनीं नयेत्॥
स याति परमं स्थानं यत्र सप्तर्षयोऽमलाः ॥१०॥
त्रिरात्रिं कुरुते यस्तु वसिष्ठाग्रे समाहितः॥
स याति च महर्लोकं जरामरणवर्जितः ॥११॥
यस्तु मासोपवासं च वसिष्ठाग्रे करोति च॥
सोऽपि मुक्तिमवाप्नोति न याति स भवार्णवम्॥ १२॥
श्रावणस्य सिते पक्षे पौर्णमास्यां समाहितः॥
ऋषिं तर्पयते यस्तु ब्रह्मलोकं स गच्छति॥१३॥
वसिष्ठस्याग्रतो यस्तु गायत्र्यष्टशतं जपेत्॥
आजन्ममरणात्पापात्सद्यो मुच्येत मानवः॥ १४॥
वामदेवं यजेत्तत्र यदि श्रद्धासमन्वितः॥
अग्निष्टोमफलं राजन्सद्यः प्राप्नोति मानवः ॥१५॥
तस्मात्सर्वप्रयत्नेन द्रष्टव्योऽसौ महामुनिः॥
शुचिभिः श्रद्धया युक्तास्ते यास्यंति परं पदम् ॥१६॥
तस्मात्सर्वात्मना राजन्वामदेवं च पूजयेत्॥ १७॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे वसिष्ठाश्रममाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥६॥


References : N/A
Last Updated : January 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP