संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय १७

अर्बुदखण्डम् - अध्याय १७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
पंगु तीर्थं ततो गच्छेत्सर्वपातकनाशनम्॥
यत्र पूर्वं तपस्तप्तं पंगुना ब्राह्मणेन च ॥१॥
पंगुनामा द्विजः पूर्वं च्यवनस्यान्वयेऽभवत्॥
अशक्तश्चलितुं भूमौ पंगुभावान्नृपोत्तम ॥२॥
गृहकृत्यनियुक्तोऽसावेकदा बान्धवैर्नृप॥
पंगुर्गंतुं न शक्तोऽसौ परं दुःखमवाप्तवान् ॥३॥
अथासौ तैः परित्यक्तो गत्वार्बुदमथाचलम्॥
एकं सरः समासाद्य तपस्तेपे सुदारुणम् ॥४॥
लिंगं संस्थाप्य तत्रैव पूजयामास तं विभुम्॥
गन्धपुष्पादिनैवेद्यैः सम्यक्छ्रद्धासमन्वितः ॥५॥
शिवभक्तिपरो जातो वायुभक्षो बभूव ह॥
जपहोमरतो नित्यं पंगुनामा द्विजोत्तमः ॥६॥
ततस्तुष्टो महादेवो ब्राह्मणं नृपसत्तम॥
पंगुं प्रति महाराज वाक्यमेतदुवाच ह ॥७॥
॥ ईश्वर उवाच ॥
पंगो तुष्टो महादेवो वरं वरय सुव्रत॥
तव दास्याम्यहं सर्वं यद्यपि स्यात्सुदुर्लभम् ॥८॥
॥ पंगुरुवाच ॥
नाम्ना मे ख्यातिमायातु तीर्थमेतत्सुरेश्वर॥
पंगुभावोऽत्र मे यातु प्रसादात्तव शंकर ॥९॥
तवास्तु सततं चात्र सांनिध्यं सह भार्यया॥
एवमुक्तः स तेनाथ विप्रं प्रति वचोब्रवीत् ॥१०॥
॥ ईश्वर उवाच ॥
नाम्ना तव द्विजश्रेष्ठ तीर्थमेतद्भविष्यति॥
ख्यातिं तपःप्रभावेन तीर्थं यास्यति सत्तम ॥११॥
चैत्रशुक्लचतुर्द्दश्यां सांनिध्यं मे भवेत्तथा ॥१२ ॥
॥ पुलस्त्य उवाच ॥
स्नानमात्रेण विप्रोऽसौ दिव्यरूपमवाप ह॥
तत्र तस्थौ महादेवो गौर्या सह महेश्वरः ॥१३॥
तस्मिन्दिने नृपश्रेष्ठ स्नानं तत्र समाचरेत्॥
स पंगुत्वाद्विनिर्मुक्तो दिव्यरूपमवाप्नुयात् ॥१४॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे पंगुतीर्थमाहात्म्यवर्णनंनाम सप्तदशोऽध्यायः ॥१७॥


References : N/A
Last Updated : January 21, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP