संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे अर्बुदखण्डम्|
अध्याय २८

अर्बुदखण्डम् - अध्याय २८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ पुलस्त्य उवाच ॥
ततो गच्छेन्नृपश्रेष्ठ सुपुण्यं मानुषं ह्रदम्॥
यत्र स्नातो नरः सम्यङ्मनुष्यो जायते सदा ॥१॥
न तिर्यक्त्वमवाप्नोति कृत्वाऽपि बहुपातकम्॥
तत्राश्चर्यमभूत्पूर्वं यत्तच्छृणु नराधिप ॥२॥
मृगयूथमनुप्राप्त व्याधव्याप्तं समन्ततः॥
ते मृगा भयसन्त्रस्ताः प्रविष्टा जलमध्यतः ॥३॥
सद्यो मनुष्यतां प्राप्ताः पूर्वजातिस्मरास्तथा॥
एतस्मिन्नेव काले तु व्याधास्ते समुपागताः ॥४॥
चापबाणधराः सर्वे यथा वै यमकिंकराः॥
पप्रच्छुश्च मृगान्भूप मानुषत्वमुपागतान् ॥५॥
मृगयूथमनु प्राप्तमस्मिन्स्थाने जलाश्रये॥
केन मार्गेण तद्यातं वदध्वं सत्वरं हि नः॥
वयं सर्वे परिश्रांताः क्षुत्तृड्भ्यां च विशेषतः ॥६॥
॥ मनुष्या ऊचुः ॥
वयं ते हरिणाः सर्वे मानुष्यं भावमाश्रिताः॥
तीर्थस्यास्य प्रभावेण सत्यमेतदसंशयम् ॥७॥
॥ पुलस्त्य उवाच ॥
ततस्ते शबराः सर्वे त्यक्त्वा चापानि पार्थिव॥
कृत्वा स्नानं जले तस्मिन्सद्यः सिद्धिं गता नृप ॥८॥
ततः शक्रस्तु तद्दृष्ट्वा तीर्थं पापहरं नृप॥
पूरयामास सर्वत्र पांसुभिर्नृपसत्तम ॥९॥
अद्यापि मनुजास्तत्र बुधाष्टम्यां नराधिप॥
स्नानं ये प्रकरिष्यंति तिर्यक्त्वं न व्रजंति ते ॥१०॥
पितृमेधफलं कृत्स्नं श्राद्धदानादवाप्नुयुः ॥११॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखंडे मनुष्यतीर्थप्रभाव वर्णनंनामाष्टाविंशोऽध्यायः ॥२८॥


References : N/A
Last Updated : February 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP