संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ५

सौरपुराणं - अध्यायः ५

सौरपुराणं व्यासकृतम् ।


सनत्कुमार उवाच -
गच्छ वाराणसीं व्यास यत्र विश्वेश्वरः शिवः ।
न तत्र युगधर्मोऽस्ति नैव लग्ना वसुंधरा ॥१॥
विश्वेश्वरस्य यल्लिङ्गं ज्योतिर्लिङ्गं तदुच्यते ।
यस्मिन्दृष्टे क्षणाज्जन्तुः संसारं न पुनर्विशेत् ॥२॥
गत्वा पश्य परं लिङ्गं तत्र सत्यवतीसुत
प्रपस्यसे परमां मुक्तिं देवैरपि सुदर्लभाम् ॥३॥
स्नात्वा गङ्गाजले पुण्ये पश्य विश्वेश्वरं परम् ।
स दास्यति परं ज्ञानं येन मुक्तो भविष्यसि ॥४॥
दृष्ट्वा विश्वेश्वरं देवं यावत्तिष्ठति ( त्स्थास्यसि ) तत्क्षणात् ।
आगमिष्यन्ति मुनयस्त्वां द्रष्टुं सर्व एव ते ॥५॥
विश्वेश्वरस्य माहात्म्यं प्रक्षन्ति त्वां महामुने ।
ब्रूहि मद्वचनात्तेषां ज्ञानं माहेश्वरं परम् ॥६॥
एवं सत्यवतीसूनुस्तन्माहात्म्यमशेषतः ।
सनत्कुमारात्स्वगुरोः श्रुत्वा माहेश्वराग्रणीः ॥७॥
प्रणिपत्य गुरुं भक्त्या रुद्रं ब्रह्मादिसेवितम् ।
सशिष्यः प्रययौ शीघ्रं व्यासो वाराणसीं प्रति ॥८॥
मनुरुवाच -
गत्वा वाराणसीं व्यासः सैद्धर्षिमुनिसेविताम् ।
अकारोत्किं तदाचक्ष्व भगवन्विश्वपूजित ॥९॥
भानुरुवाच -
संप्राप्य काशीं धर्मात्मा कृष्णद्वैपायनो मुनिः ।
स्नात्वा यथावज्जाह्नब्यां तर्पयित्वा सुरान्पितॄन् ॥१०॥
ययौ विश्वेश्वरं द्रष्टुं ज्योतिर्लिङ्गमनामयम् ।
संपूज्य सार्वभावेन दण्डवत्प्रणिपत्यच ॥११॥
देवस्य दक्षिणा मूर्तावुपविश्य महामुनिः ।
पश्यन्विश्वेश्वरं लिङ्गं जपन्वै शतरुद्रियम् ॥१२॥
क्षणाल्लिङ्गात्परं ज्योतिराविर्भूतं निरञ्जनम् ।
सूक्ष्मात्सूक्ष्मं च परममानन्दं तमसः परम् ॥१३॥
आदिमध्यान्तरहितं सूर्यकोटीसमप्रभम् ।
यत्तन्माहेश्वरं ज्योतिर्वेदान्तेषु प्रतिष्ठितम् ॥१४॥
दर्शनात्तस्य च मुनेः पाराशर्यस्य धीमतः ।
दिव्यं माहेश्वरं ज्ञानमुद्भूतं केवलं शिवम् ॥१५॥
मेने कृतार्थमात्मानं दुःखत्रयविवर्जितम् ।
अद्वयं निर्गुणं शान्तं जीवन्मुक्तस्तदा मुनिः ॥१६॥
अहो विश्वेश्वरो देवः कथं कैर्वा न सेव्यते ।
यस्मिन्दृष्टे क्षणाज्ज्ञानमुदितं मम निर्मलम् ॥१७॥
नमो भगवते तुभ्यं विश्वनाथाय शूलिने ।
पिनाकिने जगत्कर्त्रे विश्वमायाप्रवर्तिने ॥१८॥
दुर्विज्ञेयाप्रमेयाय परमानन्दरूपिणे ।
भक्तिप्र्याय सूक्ष्माय पार्वतीशाय ते नमः ॥१९॥
नमो जगत्प्रतिष्ठाय जगज्जननहेतवे ।
संहर्त्रे ऋग्यजुःसाममूर्तये तत्प्रवर्तिने ॥२०॥
जानाति कस्त्वां विश्वेश तत्त्वतो मादृशो जनः ।
वेदा अपि न जानन्ति साङ्गोपनिषदक्रमाः ॥२१॥
भानुरुवाच -
अथ तस्मिन्महादेवे परंज्योतिषि विश्वभुक् ।
शूलपाणिरमेयात्मा प्रादुरासीद्वृषध्वजः ॥२२॥
ततस्तमब्रवीद्वाक्यं कारुण्याच्छुभया गिरा ।
वरं वरय दास्यामि यत्ते मनसि रोचते ॥२३॥
व्यास उवाच -
भगवन्कृतक्रुत्योऽस्मि दर्शनात्तव शंकर ।
जातं त्वद्विषयं ज्ञानं देवानामपि दुर्लभम ॥२४॥
भक्तिं परे भगवति त्वय्येवाव्यभिचारिणीम् ।
देहि मे देवदेवेश नान्यदिष्टं वरं मम ॥२५॥
भानुरुवाच -
एवमस्त्विति देवेशो घ्यासायामिततेजसे ।
वरं दत्त्वा मुनीन्द्राय क्षणादन्तर्हितोऽभवत् ॥२६॥
तस्माव्द्यासात्परो नान्यः शिवभक्तो जगत्त्रये ।
कृष्णो वा देवकीसूनुरर्जुनो वा महामतिः ॥२७॥
एवं हराल्लब्धवरः कृष्णद्वैपायनः प्रभुः ।
तत्र यानि च लिङ्गानि तानि द्रष्टुं ययौ मुनिः ॥२८॥२०८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे भानुमनुसंवादे महादेववरप्रदानं नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : December 04, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP