सौरपुराणं - अध्यायः २३
सौरपुराणं व्यासकृतम् ।
सूत उवाच -
ततः ससर्ज भगवान्देवोऽसावात्मनः सुतान् ।
सनातनं च सनकं सनन्दनमथापि च ॥१॥
शंभुं सनत्कुमारं च पञ्चैतान्पद्मसंभवः ।
न सृष्टौ दधिरे बुद्धिं शिवैकध्यानतत्पराः ॥२॥
सृष्टौ तेष्वनपेक्षेषु मोहाविष्टः प्रजापतिः ।
तपस्तताप परमं न किंचित्प्रत्यपद्यत ॥३॥
गते बहुतिथे काले समभूत्क्रोधमूर्छितः ।
प्राणात्मकः समुद्भूतो ललाटाद्ब्रह्मणो हरः ॥४॥
केनापि हेतूना विप्राः सूर्यकोटीसमप्रभः ।
निश्चक्राम ततो भित्त्वा भालं भगवतो विधेः ॥५॥
रोदयित्वाऽब्जजन्मानं तस्मादुद्र इति स्मृतः ।
अन्यानि सप्त नामानि शृणुर्ध्व मुनिपुंगवाः ॥६॥
भवः शर्वस्तथेशानः पशूनां पतिरेव च ।
भीमश्चोग्रो महादेव इति नामानि सत्तमाः ॥७॥
भूमिरापोऽनलो वायुर्व्योम सूर्यश्च चन्द्रमाः ।
अष्टमी दीक्षितस्तव मूर्तिरीशस्य शूलिनः ॥८॥
याभिर्व्याप्तमिदं विश्वं विश्वस्यास्य जगन्मयः ।
तेन विश्वेश्वरो देव इति नाम्ना शिवः स्मृतः ॥९॥
प्रजाः सृजेति निर्दिष्टश्चन्द्रमौलिर्विरञ्चिना ।
ससर्ज मनसा रुद्रानात्मतुल्यान्महेश्वरः ॥१०॥
नीलकण्ठांस्त्रिनेत्रांश्च जटामुकुटमण्डितान् ।
* ( वृषध्वजान्त्विदि परानित्यन्तं कसंज्ञितपुस्तके नास्ति । )
* वृषध्वजान्वीतरागाञ्जरामरणवर्जितान् ॥११॥
सर्वज्ञाञ्शतकोटींस्तान्सर्वानुग्राहिणः परान् ।
दृष्ट्वा तान्विविधान्रुद्रान्विरञ्चिः प्राह शंकरम् ॥१२॥
जरामरणनिर्मुक्तामीदृशीं मा सृजः प्रजाम् ।
सृजस्वान्यां सुरेशान प्रजां मृत्युसमन्विताम् ॥१३॥
ब्रह्माणमब्रवीच्छंभुर्नारित मे तादृशी प्रजा ।
ततः प्रभृति विश्वात्मा न प्रासूत शुभाः प्रजाः ॥१४॥
रुद्रैरात्मसमृद्भूतैः क्रीडायुक्तस्तदाऽभवत् ।
स्थाणुवन्निश्चलो यस्मात्स्थितः स्थाणुरिति स्मृतः ॥१५॥
ज्ञानं वेराग्यमैश्वयॅं तपः सत्यं क्षमा धृतिः ।
द्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च ॥१६॥
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे ।
स एव भगवानीशो विश्वेशो नीललोहितः ॥१७॥
ततस्तमाह भगवान्ब्रह्मा संवीक्ष्य शंकरम् ।
अनुगृह्य यथा मां त्वं पुत्रत्वे दत्तवान्वरम् ॥१८॥
अद्य तत्सफलं जातं चिन्तितं यन्मयेप्सितम् ।
एवं विश्वेश्वरं शंभुं समाभाष्य चतुर्मुखः ॥
स्तोत्रेणानेन तुष्टाव शिरस्याधाय चाञ्जलिम् ॥१९॥
ब्रह्मोवाच -
नमस्तेऽस्तु महादेव नमस्ते परमेश्वर ।
नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे ॥२०॥
नमोऽस्तु ते महेशान नमः शान्ताय हेतवे ।
प्रधानपुरुषेशाय योगाधिपतये नमः ॥२१॥
* ( कसंज्ञितपुस्तकेऽयं श्लोको न विद्यते । )
* नमः कालाय रुद्राय महाग्रासाय शूलिने ।
नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः ॥२२॥
नमस्त्रिमूर्तये तुभ्यं ब्रह्मणो जनकाय च ।
ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने ॥२३॥
नमो वेदरहस्याय कालकालाय ते नमः ।
वेदान्तसारसाराय नमो वेदात्ममूर्तये ॥२४॥
नमः शुद्धाय बुद्धाय योगिनां गुरवे नमः ।
प्रहीणशोकैर्विविधैर्भूतैः परिवृताय ते ॥२५॥
नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः ।
त्र्यम्बकाय च देवाय नमस्ते परमेष्टिने ॥२६॥
नमो दिग्वाससे तुभ्यं नमो मुण्डाय दण्डिने ।
अनादिमलहीनाय ज्ञानगम्याय ते नमः ॥२७॥
नमस्ताराय तीर्थाय नमो योगर्द्धिहेतवे ।
नमो धर्माधिगम्यय गोगगम्याय ते नमः ॥२८॥
नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः ।
ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने ॥२९॥
X ( घङचछजसंज्ञितपुस्तकेष्वयं श्लोको न विद्यते । )
X त्वयेव सृष्टमखिलं त्वय्येव सकलं स्थितम् ।
त्वया संह्रियते विश्वं प्रधानाख्यं जगन्मय ॥३०॥
त्वमीश्वरो महादेवः परं ब्रह्म महेश्वर ।
परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ॥३१॥
त्वमक्षरं परं ज्योतिरोंकारः परमेश्वरः ।
त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ॥३२॥
भूमिरापोऽनलो वायुर्व्योमाहंकार एव च ।
यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ॥३३॥
यस्य द्यौरभवन्मूर्धा पादौ पृथ्वी दिशो भुजाः ।
आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ॥३४॥
संतापयति यो नित्यं स्वाभाभिर्भासयन्दिशः ।
ब्रह्मतेजोमयं विश्वं तस्मै सूर्यात्मने नमः ॥३५॥
हव्यं वहति यो नित्यं रौद्री तेजोमयी तनुः ।
कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ॥३६॥
आप्याययति यो नित्यं स्वधाम्ना सकलं जगत् ।
पीयते देवतासंघैस्तस्मै चन्द्रात्मने नमः ॥३७॥
बिभर्त्यशेषभूतानि योऽन्तश्वरति सर्वदा ।
शक्तिर्माहेश्वरी तुभ्यं तस्मै वाय्वात्मने नमः ॥३८॥
सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः ।
स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ॥३९॥
यः शेते शेषशयने विश्वामावृत्य मायया ।
आत्मानुभूतियोगेन तस्मै विश्वात्मने नमः ॥४०॥
ब इभर्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् ।
ब्रह्माण्डं योऽखिलाधारं तस्मै शेषात्मने नमः ॥४१॥
यः परान्ते परानन्दं पीत्वा दिव्यैकसाक्षिणम् ।
नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ॥४२॥
योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः ।
तं सर्वसाक्षिणं देवं नमस्ते परमात्मने ॥४३॥
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै व्योमातने नमः ॥४४॥
यं विनिद्रा यतश्वासाः संतुष्टाः समदर्शिनः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥४५॥
यस्य भासा विभातीदं तदहं तमसः परम् ।
तत्त्वं सदा निराकारं चिद्रूपं पारमेश्वरम् ॥४६॥
= ( गजसंज्ञितपुस्तकयोरयं श्लोको नास्ति । )
= यया संतरते मायां योगी संक्षीणकल्मषः ।
अपरान्तामपर्यन्तां तस्मै विद्यात्मने नमः ॥४७॥
नित्यानन्दं निराधारं निष्फलं परमं शिवम् ।
प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ॥४८॥
एवं स्तुत्वा महादेवं ब्रह्म तद्भावभावितः ।
प्राञ्जलिः प्रणतस्तस्थौ गृणन्ब्रह्म सनातनम् ॥४९॥
ततस्तस्य महादेवो नित्ययोगमनुत्तमम् ।
ऐश्वर्य ब्रह्मसद्भावं वैराग्यं च ददौ हरः ॥५०॥
कराम्यां सुशुभाभ्यां च उपस्पृश्य महेश्वरः ।
व्याजहार महादेवः सोऽनुगृह्य पितामहम् ॥५१॥
यत्त्वयाऽभ्यर्थितो ब्रह्मन्पुत्रत्वेऽहं मया कृतम् ।
त्वमिदानीं ममाऽऽदेशात्सृजस्व विविधाः प्रजाः ॥५२॥
त्रिधा भिन्नोऽस्म्यहं ब्रह्मन्ब्रह्मविष्णुहराख्यया ।
सर्गरक्षालयगुणैर्निर्गुणोऽहं न संशयः ॥५३॥
स त्वं ममाग्रतः पुत्रः सृष्टिहेतोर्विनिर्मितः ।
ममैव दक्षिणादङ्गाद्वामाङ्गात्पुरुषोत्तमः ॥५४॥
मवव हृदयादुद्रः संज्ञातः कामरूपधृक् ।
ब्रह्मविष्णुहराख्यानां यः परः परमेश्वरः ॥५५॥
तं महान्तं महादेवं ब्रह्मञ्जानन्ति सूरयः ।
एवं ब्रह्माणमाभाष्य दत्त्वा च विधिधान्वरान् ॥५६॥
अन्तर्हितो महादेवः पश्यतः पद्मजन्मनः ।
अनुग्रहाततस्तस्य तस्माज्ज्ञानोदयो भवेत् ॥५७॥
ततश्च पाशविच्छितिः शिव एव भवेत्ततः ।
नश्यन्ति व्याधयस्तस्य गलगण्डग्रहादयः ॥५८॥
ऐहिकीं लभते सिद्धिं चिरंजीवित्वमेव च ।
सर्वपापविनिर्मुक्तः शिवलोके महीयते ॥५९॥१०२०॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे हरोत्पत्त्यादिकथनं नाम त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP