सौरपुराणं - अध्यायः ५६
सौरपुराणं व्यासकृतम् ।
सूत उवाच -
आह्वानयत्ततो विश्वकर्माणं पर्वतेश्वरः ।
विवाहमण्डपं कर्तुं नानाश्चर्यविभूषितम् ॥१॥
तेनाऽऽहुतस्ततः शीघ्रं विश्वकर्मा महामतिः ।
प्रययौ हिमवत्पार्श्वं कुशलो विश्वकर्मणि ॥२॥
दृष्ट्वाऽथ विश्वकर्माणं हृष्टः पर्वतराट् स्वयम् ।
स्वागतासनपाद्याद्यैः सादरस्तमपूजयत् ॥३॥
विधिवत्पूजयित्वा तु विश्वकर्माणमब्रवीत् ॥४॥
पर्वतराडुवाचु -
विश्वकर्मन्महाप्राज्ञ सर्वशास्त्रविशारद ।
यत्कारणादिहाऽऽहूतो मया त्वं तद्ब्रवीम्यहम् ॥५॥
विश्वेश्वरो महादेवो भगवान्नीललोहितः ।
आगमिष्यति विश्वेशीं परिणेतुं शिवः स्वयम् ॥६॥
मण्डपस्तत्र कर्तव्गो यज्ञार्थं हि हिरण्मयः ।
योजनायुतविस्तीर्णमनेकाश्चर्यसंयुतम् ॥७॥
दृष्टमात्रेण सर्वस्य प्रीतिर्भवति वै यथा ।
तथा त्वं मण्डपं शीघ्रं कुरु विश्वेश्वरप्रियम् ॥८॥
एवमुक्तस्तदा तेन गिरिणा विश्वकर्मकृत् ।
वैवाहं मण्डपं शीघ्रं कुरु विश्वेश्वरप्रियम् ॥९॥
स्तम्भेर्हममयैश्चित्रैर्मणिभिः सूर्यसंनिभैः ।
इन्द्रनीलमयैर्दिव्यैर्वैदूयैर्विद्रुमैरपि ॥१०॥
मौक्तिकैर्वज्रनीलैश्च चन्द्रकान्तमयैरपि ।
स्फटिकैर्विद्रुमैश्चापि मुक्तादामविलम्बितैः ॥११॥
चामरालकृतैरुच्चैदर्पणैर्विविधैरपि ।
* ( सूर्यबिम्बेत्यादि शंमितन्तिसम्यसंज्ञि पुस्तयोनाकित । )
* सूर्यबिम्बप्रतीकाशैश्चन्द्रबि८म्बसमप्रभैः ॥१२॥
ध्वजमालाकुलं दिव्यं पताकानेकशोभितम् ।
रत्नजैः सिंहशार्दूलैर्गजवणैर्निरन्तरम् ॥१३॥
रचितं मण्डपं दिव्यं प्रियं त्रिपुरविद्विषः ।
रुद्राणां च तथा रूपैर्गन्धर्वाप्सरसां तथा ॥१४॥
देवैश्चैव मनोहार्यैंमर्त्यजैश्च तथा परैः ।
मालाभिः स्तम्बकैर्विप्रा रत्नजैः कुसुमैर्भृशम् ॥१५॥
* ( गजसंज्ञितपुस्तकयोरेवेदं श्लोकार्धमस्ति । )
* क्कचिच्चामीकरेणाथ हृद्यां भूमिं विनिर्ममे ।
क्कचित्पद्मदलाकारामिन्द्रायुधसमप्रभाम् ॥१६॥
क्कचिन्नीलोत्पलाभासां नीलजीमूतसप्रभाम् ।
मनसैव यथा ब्रह्मा विश्वमतेद्धि निर्ममे ॥१७॥
क्कचिद्वन्धूकसंकाशां दीप्तां विद्रुमसंनिभाम् ।
अनेकाकारविन्यासैस्ततो धात्रीं विनिर्ममे ॥१८॥
क्कचित्कलशविन्यासैः क्कचित्स्वस्तिकभूषितैः ।
हरिचन्दनगन्धाद्यैः कर्पूरोद्गारगन्धिभिः ॥१९॥
जातीपटलपद्मानां चम्पकानां सुगन्धिभिः ।
आसनैर्विविधैः पूतैश्चन्द्रजीपूतसंनिभैः ॥२०॥
उदयार्कसमाकारैर्भेरुशृङ्गोपमैर्भृशम् ।
तमालचम्पकाभैश्च इन्द्रनीलमयैस्तथा ॥२१॥
सिन्दूरचयसंकाशैर्जपाकुसुमसंनिभैः ।
+ ( दाडिमीत्याद्यप्यैरित्यन्तं घङचछजसंज्ञितपुस्तकेषु नास्ति । )
संध्यारागानिभैश्चान्यै + र्दाडिमीकुसुमप्रभैः ॥
हेमकुम्मनिभैश्चान्यैर्मुक्ताफलनिभैरपि ॥२२॥
तारकापुञ्जसंकाशैः पद्मनीलेन्द्रनीलजैः ।
तत्रैव मण्डपे दिव्ये तोयस्थानान्यकल्पयत् ॥२३॥
दीर्घिकास्तोयपूर्णाश्च क्षीरपूर्णास्तथैव च ।
दधिहृदाननेकांश्च सुधासंपूरितानि वै ॥२४॥
घृतपूर्णा महानद्यो रत्नसोपानमण्डिताः ।
वृक्षांश्च कामिकान्दिव्यान्दीघ्रिकाणां तथोभयोः ॥२५॥
असृजत्क्रीडनार्थाय सदा पुष्पफलान्वितान् ।
भक्ष्यैर्नानाविधैर्दिव्यैः फलितान्मुनिपंगवाः ॥२६॥
कदलीखण्डमध्ये तु तमालगहनेष्वपि ।
क्रीडावाप्यः सुशोभाढ्यास्तथैवाशोकसंकुलाः ॥२७॥
दीर्घिकाणां तटे रम्ये तरुणाः स्निग्धशाखिषु ।
दोलांश्चाऽऽबन्धयामासुर्मुक्तादामभिरुज्ज्वलैः ॥२८॥
* ( कझसंज्ञितपुस्तकयारेष श्लोको न दृश्यते । )
* रमणीयानि दिव्यानि मनस्तुष्टिकराणि च ।
उद्यानवनखण्डानि स्थाने स्थाने ह्यकल्पयत् ॥२९॥
त्रैलोक्यतिलके तस्मिन्हेमपीठस्य मध्यगाम् ।
सिंहैश्च विधृतां श्वेतैः सहस्रदलमण्डिताम् ॥३०॥
पारिजातद्रुमाणां च मञ्जरीभिरलंकृताम् ।
इन्द्रनीलमयीं वेदिं चारुसोपानभूषिताम् ॥३१॥
शतयोजनविस्तीर्णां स्तम्भैश्च कलशान्विताम् ।
नानानेकाप्सरोभिश्च रत्नजां दिव्यरूपिणीम् ॥३२॥
पीनोरुजघनास्ताश्च पीनोन्नतपयोधराः ।
चामराग्रकरास्तास्तु हारावलिविभूषिताः ॥३३॥
वीणावेणुकराश्चान्याः काञ्चीगुणाविराजिताः ।
चञ्चलायतनेत्राश्च तिलकालकमण्डिताः ॥३४॥
मध्यक्षामाश्च विम्बोष्ठीः कमलोत्पलमालिकाः ।
अनेकाकारबिन्यानैर्निर्ममे ताः पृथक्पृथक् ॥३५॥
एवं हि दिव्यैः सुरसुन्दरीभिर्नानाप्रयोगौर्वीविधैश्च चित्रैः ।
मनोभिरामैर्नयनाभिरामैर्युक्तान्तवेदिं त्वरितश्चकार ॥३६॥३०८१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बविवाहमण्डपवर्णनं नाम् षट्पञ्चाशोऽध्यायः ॥५६॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP