संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६

सौरपुराणं - अध्यायः ६

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचुः -
कानि दिव्यानि लिङ्गानि यानि द्रष्टुं ययौ मुनिः ।
आचक्ष्व तानि नः सूत माहात्म्यं चापि कृत्स्नशः ॥१॥
सूत उवाच -
यदुक्तं भानुना पूर्वं मनवे मुनिसत्तमाः ।
तदेव कथयिष्यामि शृणुध्वं गदतो मम ॥२॥
आग्नेय्यामविमुक्तस्य वापी त्रैलोक्यविश्रुता ।
यत्र संनिहितो देवो नित्यं विश्वेश्वरः शिवः ॥३॥
यत्र स्नानं द्विजश्रेष्ठा देवानामपि दुर्लभम् ।
भक्त्या यैस्तज्जलं पीतं ते रुद्रा एव भूतले ॥४॥
तेषां लिङ्गानि जायन्ते हृदये त्रीणि सुब्रत ।
दुर्लभं तज्जलं तस्मात्तिष्ठत्येव हि मुद्रितम् ॥५॥
तत्र सत्यवतीसूनुः स्नात्वा चैव यथाविधि ।
अविमुक्तेश्वरं दृष्ट्वा लाङ्गलीशं ततो यथौ ॥६॥
तत्र ब्रह्मादयो देवाः सेवन्ते शूलपाणिनभ् ।
तस्य दर्शनमात्रेण ज्ञानं पाशुपतं भवेत् ॥७॥
जगाम स मुनिः पश्चात्द्रष्टुं वै तारकेश्वरम् ।
यत्रान्तकाले भगवाञ्ज्ञानं तत्संप्रयच्छति ॥८॥
यत्रैवानेन देवस्य स्थापितं लिङ्गमुत्तमम् ।
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ॥९॥
तदृष्ट्वा परमं लिङ्गं व्यासः सत्यवतीसुतः ।
ययौ शुक्रेश्वरं द्रष्टुं सर्वसिद्धिप्रदायकम् ॥१०॥
X ( अयं श्लोको घङच्छसंज्ञितपुस्तकेषु नास्ति । )
X आराध्य मुनिना यत्र शुक्रेणामिततेजसा ।
प्रपता संजीवनी विद्या सुराणामपि दुर्लभा ॥११॥
देवस्य वह्निदिग्भागे कृपस्तिष्ठति शोभनः ।
स्नानं तत्राश्वमेधस्य फलं यच्छति शोभनम् ॥१२॥
तस्मिन्कूपे मुनिः स्नात्वा दृष्ट्वा शुक्रेश्वरं शिवम् ।
ब्रह्मेश्वरं ययो द्रष्टुं तत्र ब्रह्मा विराट् स्वयम् ॥१३॥
तपतप्त्वा महाधोरं प्रीतये पार्वतीपतेः ।
ब्रह्मत्वं प्राप्तवान्ब्रह्मा योगं चान्ये महर्षयः ॥१४॥
दर्शनात्तस्य लिङ्गस्य सर्वयज्ञफलं लभेत् ।
पुनर्जंगाम भमवानोंकारेश्वरमव्ययम् ॥१५॥
स्मरआण्द्यस्य लिङ्गस्य मुच्यते सर्वपातकैः ।
यत्र साक्ष्जाच्छिवः सूक्ष्मो नित्यं तिष्ठति वै द्विजाः ॥१६॥
अनुग्रहाय लोकानां पशुपाशविमोचकः ।
यत्र पाशुपताः सिद्धा ओंकारेश्वरमीश्वरम् ॥१७॥
संपूज्य परमां सिद्धिं प्राप्तवन्तो द्विजोत्तमाः ।
कृष्णपक्षे चतुर्दश्यां तस्मिलिङ्ग उपोषितः ॥१८॥
यदि जागरणं कुर्यात्परां सिद्धिमवाप्नुयात् ।
ततः सत्यवतीसूनुः कृत्तिवासेश्वरं ययौ ॥१९॥
उपासते महादेवं यत्र ब्रह्मादयः सुराः ।
मुनयः शंशितात्मानो रुद्रजाप्यपरायणाः ॥२०॥
कृत्तिवासेश्वरे लिङ्गे लीला (ना)श्च वहवो द्विजाः ।
वेवस्य पूर्वदिग्भागे हंसतीर्थं महत्सरः ॥२१॥
स्नात्वा तत्र महादेवं कृत्तिवासेश्वरं शिवम् ।
X ( घ. ड. च. छ. संज्ञितपुस्तकेष्वयं श्लोको नास्ति । )
X ये द्रक्ष्यन्ति महात्मानस्ते वै ब्रह्मादिवन्दिताः ॥२२॥
सकृत्पश्यति यो भक्त्या कृत्तिवासेश्वरं विभुम् ।
न पतत्येव संसारे रुद्र एव न संशयः ॥२३॥
हंसतीर्श्चे नरः स्नात्वा कृत्तिवासेश्वरं विभुम् ।
संपूज्य परया भक्त्या कृतिवासेश्वरं शिवम् ॥२४॥
न पतत्येव संसारे नात्रकार्या विचारणा ।
ययौ रत्नेश्वरं द्रष्टुं मोक्षो यत्र प्रतिष्ठितः ॥२५॥
दर्शनात्तस्य लिङ्गस्य फलं वक्तुं न शक्यते ।
सर्वस्मादधिको योगो वेदविद्भिर्निषेव्यते ॥२६॥
योऽयं पाशुपतो योगः पशुपाशविमोचकः ।
वर्षैर्द्वादxभिः सभ्यक्कृते पाशुपते द्विजाः ॥२७॥
रत्नेश्वरे तदा ज्योतिर्दर्शनान्मनुजोत्तमः ।
रत्नेश्वरं तु संपूज्य पाराशर्यो महामुनिः ॥२८॥
द्रष्टुं देवाधिदेवेशं वृद्धकालेश्वरं ययौ ।
तस्मिंल्लिङ्गे महादेवः सदा तिष्ठति लीलया ॥२९॥
अनुग्रहाय लोकानामुमया सह विश्वभुक् ।
पृथिव्यां यानि लिङ्गानि सन्ति दिव्यानि वै द्विजाः ॥३०॥
वृद्धकालेश्वरे दृष्टे दृष्टान्येव न संशयः ।
देवस्य पूर्वदिग्भागे कूपो मुनिनिषेवितः ॥३१॥
पूरितः पुण्यसलिलैर्देवदेवेन शंभुना ।
यैः पीतं तस्य सलिलं प्राकृतैश्चुलुकत्रयम् ॥३२॥
प्रकृतिर्मुच्यते तेभ्यो मुक्तात्मानो भवन्ति ते ।
तत्र द्वेपायनो विप्राः स्नानं कृत्वा समाहितः ॥३३॥
वृद्धकालेश्वरं लिङ्ग संपूज्य च ततो ययौ ।
मन्दाकिनीतले रम्ये मुनिसिद्धनिषेविते ॥३४॥
मध्यमेश्वरनामानं मोक्शलिङ्गमनुत्तमम् ।
यत्र ब्रह्मादयो देवा मुनयः सनकादयः ॥३५॥
उपासते परं लिङ्गं शिवदर्शनकाङ्क्षिणः ।
मन्दाकिन्यां मुनिः स्नात्वा दृष्ट्वा वै मध्यमेश्वरम् ॥३६॥
घण्टाकर्णहृदे स्नात्वा लिङ्गं तद्विमलं शिवम् ।
प्रतिष्ठाप्य मुनिश्रेष्ठो लब्धवाञ्ज्ञानमुत्तमम् ॥३७॥
घण्टाकर्णहृदे तत्र दृष्ट्वा व्यासेश्वरं शिवम् ।
यत्र यत्र मृतो वाऽपि वाराणस्यां मृतो भवेत् ॥३८॥
ततः सत्यवतीसूनुः कपर्दीश्वरभीश्वरम् ।
द्रष्टुं जगाम विप्रेन्दा लिङ्गं तत्पारमेश्वरम् ॥३९॥
पिशाच्चमोचनं नाम तत्र तीर्थमनत्तमम् ।
रुद्रलोकस्य सोपानमिति प्राह महामुनि. ॥४०॥
ये द्रक्ष्यन्ति कपदींशं कृतार्थास्ते न संशयः ।
मानुषीं तनुमाश्रित्य रुद्रा एव न संशयः ॥४१॥
तस्मिंस्तीर्थे मुनिः स्नात्वा संतर्प्य च सुरान्पितॄन् ।
कपर्दीश्वरमीशानं संपूज्यं प्रययौ मुनिः ॥४२॥२५०॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वाराणसीलिङ्गमहिमवर्णनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : December 04, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP