सौरपुराणं - अध्यायः ४७
सौरपुराणं व्यासकृतम् ।
ऋषय ऊचु -
पतिघ्रता महाभागा सावित्री वरवर्णिनी ।
यदाह तद्वादात्माकं सूत वाक्यविशारद ॥१॥
सूत उवाच -
स्वर्गे तां शोभनां दृष्ट्वा गुणैः सर्वैरलंकृताम ।
अरुन्धत्युत्तमा स्त्रीणां पर्यपृच्छच्छुचिस्मिता ॥२॥
शतशः सन्ति सावित्रि देवाः स्वर्गनिवासिनः ।
देवपत्न्यस्तथैवैताः सिद्धाः सिद्धाङ्गनास्तथा ॥३॥
न तेषामीदृशो गन्धो न कान्तिर्न सरूपता ।
नान्येषां विद्यते शोभा यथा ते पतिना सह ॥४॥
न चैवाऽऽकल्पजातानि भ्राजन्ते सुरयोषिताम् ।
यथा तब तथा पत्युर्भ्राजन्ते वरवर्णिनि ॥५॥
नास्ति कान्तिर्विमानानां शक्रादीनां दिवौकसाम् ।
विमानस्यापि ते कान्तिस्तरुणार्कायुतद्युतिः ॥६॥
तपःप्रभावो दानं वा कर्म वा ऋतुविस्तरम् ।
युवयोस्तन्ममाऽऽचक्ष्व यथावद्वरवर्णिनि ॥७॥
सावित्र्युवाच -
शृनुष्वैतन्महाभागे यत्कृतं पूर्वजन्मनि ।
भर्त्रा सह मया भद्रे शंभोरायतने शुभे ॥८॥
कृतं संमार्जनं भक्त्या गोमयेनोपलेपनम् ।
स्वर्गप्राप्तिरियं तस्य कर्मणः फलमुत्तमम् ॥९॥
तीर्थोदकैः सुगन्धैश्च (?) स्नापितो यदुमापतिः ।
तेन कान्तिरतीवैषा देहेऽभूत्त्रिदशेश्वरि ॥१०॥
मन प्रसादं सौम्यत्वं शारीरी या च निर्वृतिः ।
यत्प्रियत्वं च सर्वस्य तद्घृतस्नानजं फलम् ॥११॥
आह्लादः परमस्वास्थ्यमारोग्यं चारुवेगता ।
प्राप्तिश्चाशेपकामाणां दधिक्षीरफलं शुभे ॥१२॥
सौगन्ध्यं यत्परं देहे धूपदानस्य तत्फलम् ।
गीतैनृत्यैस्तथा जाप्यैर्नियमैश्च पृथग्विधैः ॥१३॥
तोषितो भगवानीशस्तस्येयं पुष्टिरुत्तमा ।
स्वर्गेप्सुना सत्यवता मया च शुभदर्शने ॥१४॥
कृतमेतदतो न स्यादावयोर्भोगसंक्षयः ।
ये निश्चिता नराः सम्यक्पूजयन्ति महेश्वरम् ॥१५॥
तेषां ददाति विश्वेशो देवो मुक्तिं सुदुर्लभाम् ॥१६॥
सूत उवाच -
सैवमुक्ताऽथ सावित्र्या मुनीन्द्रा हृष्टमानसा ।
ब्रह्मस्नुषा शिवेशानौ प्रणिपत्येदमब्रवीत् ॥१७॥
अरुन्धत्युवाच -
सा पूज्या सा नमस्कार्या सा साध्वी सा पतिव्रता ।
या पूजयति सावित्रि सदा हैमवतीपतिम् ॥१८॥
यमाराध्या दितिः पुत्राल्लेभे शक्रपुरोगमान् ।
दितिश्च दैत्यान्विविधान्विनता गरुडारुणौ ॥१९॥
शच्युर्वशीमुखाश्चान्याः संपूज्योमापतिं पुरा ।
प्रापुश्चाभिमतान्कामांस्तमीशं को न पूजयेत् ॥२०॥
अभिनन्द्याथ तां चैवं वसिष्ठार्धशरीरिणी ।
जगाम स्वाश्रमं साध्वी सर्वदेवगणार्चिता ॥२१॥
एवं समर्च्य गौरीशं श्रद्दधानाश्च योषितः ।
लभन्तेऽभिमतान्भोगान्सावित्र्याह यथा द्विजाः ॥२२॥
ये नराः सकृदप्यत्र पूजयन्ति त्रिलोचनम् ।
ते धन्यास्ते महात्मानस्ते कृतार्थश्च पण्डिताः ॥२३॥
धर्मार्थ काममोक्षाणां लिङगार्चा हेतुरुच्यते ।
सर्वेषां प्राणिनां विप्रा इन्द्रियाणां यथा मनः ॥२४॥
हृत्पद्मकर्णिकावासां तेजोमूर्तिमसङ्गिनम् ।
निर्ममा निरहंकारा ध्यायति ज्ञानिनः सदा ॥२५॥
शैलजं बाणलिङ्गं वा पूजयेद्विधिवत्सदा ।
मृद्दारुघटितं वाऽपि रत्नजं वा गृहाश्रमी ॥२६॥
साम्राज्यं मनुजैः कैश्चित्स्वाराज्यं च तथा परैः ।
तथा वैराज्यमन्यैश्च लिङ्गामिष्ट्वा तदैश्वरम् ॥२७॥
शोचन्ते ते परं हीना अभाग्याश्च दिने दिने ।
प्रमादेनापि यैर्नोक्तं शिव इत्यक्षरद्वयम् ॥२८॥
संपूज्ये सर्वसामान्ये स्वाराध्ये सर्वकामदे ।
भवेऽपि सति सीदन्ति भाविनो यत्तदद्भुतम् ॥२९॥
उपसर्माः क्षयं यान्ति च्छिद्यन्ते विध्नपल्लवाः ।
मनः प्रसन्नतां याति पूजमाने महेश्वरे ॥३०॥
पूजिते सर्वदेवेशे सर्वदेवनमस्कृते ।
पूजिताः सर्वदेवाः स्युर्यतोऽसौ सर्वगो विभुः ॥३१॥
शिवार्चनरतो नित्यं महापातकसंभवैः ।
दोषैर्न लिप्यते विद्वान्पद्मपत्रमिवाम्भसा ॥३२॥
किमत्र शास्त्रमालाभिः संक्षेपेणोपदिश्यते ।
व्यापारान्सकलांस्त्यक्त्वा पूजयध्वं महेश्वरम् ॥३३॥
निकटा एव दृश्यन्ते कृतान्तनगरद्रुमाः ।
शिवं स्मर शिवं ध्याय शिवं चिन्तय सर्वदा ॥३४॥
किं वेदैः किमु वा शास्त्रैः किंवा तीर्थादिसेवया ।
शिवः संपूज्यतां नित्यमुपदेशोऽयमुत्तमः ॥३५॥
अयमेव परो धर्मश्चीर्णमेतत्परं तपः ।
इदमेवास्त्रिलं ज्ञानं पूजनं यन्महेशितुः ॥३६॥
शिवे दत्तं हुतं जप्तं बलिपूजानिवेदितम् ।
एकान्ततोऽत्यन्तफलं तद्भवेन्नत्र संशयः ॥३७॥
कर्मभूगौ ह्रि मानुष्यं जन्मनां नियुतैरपि ।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ॥३८॥
तदीदृग्दुर्लभं प्राप्य नार्चयन्तीह ये शिवम् ।
तेषां हि हस्ते मूर्खाणां विवेकः कुत्र तिष्ठति ॥३९॥
आराधितो हि यः पुंसामैहिकामुष्गिकं फलम्।
ददाति भगवाञ्शंभुः कस्तं न प्रतिपूजयेत् ॥४०॥
यो यमिच्छति विप्रेन्द्राः समाराध्य महेश्वरम् ।
निःसंशयं तमाप्नोति पुरा वैश्रवणो यथा ॥४१॥
दृष्टः संपूजितो ध्यातः संस्मृतो वा स्तुतोऽपि वा ।
यो ददाति नुणां मुक्तिं तस्मात्कैर्नार्च्यते शिवः ॥४२॥
श्वपचोऽपि मुनिश्रेष्ठाः शिवभक्तो द्विजाधिकः ।
शिवभक्तिविहीनस्तु द्विजोऽपि श्वपचाधमः ॥४३॥
यद्वा तद्वा शिवे कर्म पुमान्कृत्वा शिवालये ।
लोभात्सङ्गात्प्रमादाद्वा पृथिव्यामेकराड्भवेत् ॥४४॥
ऋषय ऊचु -
कथं वैश्रवणः पूर्वं समाराध्य महेश्वरम् ।
लब्धं तस्मात्कुबेरत्वं सूत तद्वक्तुमर्हसि ॥४५॥
सूत उवाच -
शृणुध्वमृषयः सर्वे यदुक्तं सप्तमेऽन्तरे ।
माहात्म्यसूचनकथा शिवस्य परमेष्ठिनः ॥४६॥
कश्चिदासीद्द्विजोऽवन्त्यां सोमशर्मेति विश्रुतः ।
पुत्रक्षेत्रकलत्रादिव्यापारेषु रतः सदा ॥४७॥
विहायाथ स गार्हस्थ्यं धनार्थं लोभमोहितः ।
प्रचचार मह्रीं सर्वां सग्रामपुरपत्तनाम् ॥४८॥
भार्या तस्य विशालाक्षी तस्मिन्गेहाद्विनिर्गते ।
स्वच्छन्दचारिणी नित्यं बभूवानङ्गमोहिता ॥४९॥
तस्याः कदाचित्पुत्रस्तु शूद्राज्जातो विधेर्वशात् ।
दुरात्माऽतीव निर्गूढो नाम्ना दुःसह इत्युत ॥५०॥
सोऽथ कालेन महता व्यसनोपप्लुतोऽभवत् ।
सर्वैर्वन्धुजनैस्त्यक्तः परिपन्थिपथे स्थितः ॥५१॥
पूजोपकरणद्रव्यं (?) स कस्मिंश्चिच्छिवालये ।
रजन्यां प्रविवेशाथ व्यसनेन प्रपीडितः ॥५२॥
यावद्दीपो गतप्रायो वर्तिच्छेदोऽभवत्किल ।
तावत्तेन दशा दत्ता द्रब्यान्वेषणकारणात् ॥५३॥
प्रबुद्धश्चोच्छ्रितस्तत्र देवपूजाकरो नरः ।
कोऽयं कोऽयमिति प्रोच्चैर्व्याहरन्परिघायुधः ॥५४॥
स च प्राणभयान्नष्टो वित्रस्तश्चापि मूढधीः ।
न विन्दन्नात्मनो जन्म कर्म वाऽपि सुदुर्मुखः ॥५५॥
पुरपालैर्हतोऽवन्त्यां मृतः कालादभूत्ततः ।
गान्धारविषये राजा ख्यातो नाम्ना सुदुर्मुखः ॥५६॥
गीतवाद्यरतः स्तब्धो वेश्यापानरुचिर्भृशम् ।
प्रजोपद्रवकृन्मूर्खः सर्वधर्मबहिष्कृतः ॥५७॥
किं त्वर्चयत्यसौ नित्यं लिङ्गं राज्यक्रमागतम् ।
पुष्पधूपसुनैवेद्यगन्धादिभिरमन्त्रवित् ॥५८॥
स्मरन्वै पौर्विकं कर्ग शिवस्याऽऽयतनेषु च ।
ददाति वहुशो दीपन्वर्तितैलसमुज्ज्वलान् ॥५९॥
कदाचिन्म्रुगयासक्तो ममाराथ स वीर्यवान् ।
पूर्वारिभिर्हतो युद्ध ऐरावत्यास्तटे शुभे ॥६०॥
शिवपूजाप्रभावेन विध्वस्ताशेषकिल्विषः ।
पुत्रो विश्रवसश्चाभूत्सर्वयक्षाधिपो बली ॥६१॥
कुबेर इति धर्मात्मा श्रुतिशास्त्रसमन्वितः ।
स्तोत्रेणानेन तुष्टाव भक्त्या तं सर्वकामदम् ॥६२॥
कुबेर उवाच -
नमाम्यहं देवमजं पुराणमुपन्द्रवेधोमरराजजुष्टम् ।
शशाङ्कसूर्याग्निसमाननेत्र वृषेन्द्रचिह्नं विलयादिहेतुम् ॥६३॥
सर्वेश्वरैकं त्रिदशैकबन्धुं ध्यानाधिगम्यं जगतोऽघिवासम् ।
तं वाड्मयाधारमनन्तशक्तिं ज्ञानार्णवं स्थैर्यगुणाकरं च ॥६४॥
पिनाकपाशाङ्कृशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् ।
सकालकूटं स्फटिकावभासं नमामि शंभुं भुवनैकनाथम् ॥६५॥
कपालिनं मालिनमादिदेवं जटाधरं भीमभुजंगहारम् ।
प्रशासितरं च सहस्रमूर्ति सहस्त्रशीर्षं पुरुषं वरिष्ठम् ॥६६॥
यमक्षरं निर्गुणमप्रमेयं तं ज्योतिरेकं प्रवदन्ति सन्तः ।
दूरंगमं वेदविदां च वन्द्यं सर्वस्य हृत्स्थं परमं पवित्रम् ॥६७॥
तेजोनिधिं बालमृगाङ्कमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् ।
कालेन्धनं कामदमस्तसङ्गं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥६८॥
अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ।
मनोमयं वेदमयं च हंसं प्रजापतीशं पुरुहूतमिन्द्रम् ॥६९॥
अनाहतैकध्वनिरूपमाद्यं ध्यायन्ति यं योगविदा यतीन्द्राः ।
संसारपाशच्छिदुरं विभुक्त्यै पुनः पुनस्तं प्रणमामि नित्यम् ॥७०॥
न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते विष्नुपितामहाद्यैस्तं वामदेवं प्रणमाभ्यचिन्त्यम् ॥७१॥
शिवं समाराध्य यमुग्रमूतिं पपौ समुद्रं भगवानगस्त्यः ।
लेभे दिलीपोऽप्यखिलां स चोवीं तं विश्वयोनिं शरणं प्रपद्ये ॥७२॥
संपूजयन्तो दिवि देवसंघा ब्रह्मेन्द्रमुख्या विविधांश्च कामान् ।
तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवन्द्यं शरण्म प्रपद्ये ॥७३॥
स्तुत्ववैमीशं विरराम यावत्तावत्सहस्रार्कसमानतेजाः ।
ददौ स तस्मै वरदोऽन्धकारिर्वरत्रयं वैश्रवणाय देवः ॥७४॥
कृत्वाऽधिराजं च ततस्त्रिनेत्रो यशस्विनं गुह्यकराजमत्र ।
ब्रह्माच्युतेन्द्रादिनताङ्घ्रिपद्मो जगाम कैलासममोघवाक्यः ॥७५॥
सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां सः ।
तथाऽधिकं चैतदनिन्द्यकीर्तिः सुखी बभूवाप्रतिमप्रभावः ॥७६॥
दोषाचरेन्द्रश्च तथा दशास्यः संपूज्य दोषाकरचारुमौलिम् ।
दोषाकरश्चाप्यजितेन्द्रियश्च मुक्तिं स लेभेऽस्तसमस्तदोषः ॥७७॥
स्वर्गस्य मार्गा बहवः प्रतिष्टास्ते कृच्छ्रसाध्या बहवः सविघ्नाः ।
निमेषमात्रेण महाफलोऽयमृजुश्च पन्थाः स्मरणं पुरारेः ॥७८॥
दृष्टं तदेवाद्भुतमत्र मर्त्या माहात्म्यमैशं ससुरासुराश्च ।
त्यक्त्वाऽऽत्मयोगं च मखक्रियाश्च यजन्त्यतस्र्यम्बकमेव सर्वे ॥७९॥
गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिमागे ।
स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥८०॥
कर्माण्यसंकल्पिततत्फलानि संन्यस्य रुद्रे परमात्मरूपे ।
अव्याप्य ते कर्ममहीमनन्ते तस्मिल्लयं ये त्वमलाः प्रयान्ति ॥८१॥
जानीय (?) नैतद्धि कदा विलीने शुभप्रदे कर्मणि देहबन्धः ।
प्रासाम खण्डे किल भारताख्ये कुलेऽकलङ्के शिवधर्मनिष्ठाः ॥८२॥
स्तोत्रेण येऽपि क्कचिदत्र भक्ताः प्रसंस्तुवन्ति प्रमथैकनाथम् ।
प्रयान्ति ते लोकमिहान्धकारेः पुरंदरोद्गीतमहाप्रभावाः ॥८३॥
सूत उवाच -
एवं वैश्रवणो जातो महादेवप्रसादतः ।
सर्वमेतदशेषेण कथितं मुनिपुंगवाः ॥८४॥
* ( धङचसंज्ञितपुस्तकेष्वय श्लोको न विद्यते । )
* यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ।
ब्रह्मलोके वसेकल्पमिति देवोऽब्रवीद्रविः ॥८५॥२५३४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादेऽरुन्धतीसावित्रीसंवादादिकथनं नाम सप्तचत्वारिंशोऽध्यायः ॥४७॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP