संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६२

सौरपुराणं - अध्यायः ६२

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
वह्नौ संतर्पिते सूत रेतसा त्रिदिवौकसः ।
सगर्भाः खलुः संजाता देवदेवेन शंभुना ॥१॥
सौख्यं कथमवापुस्त उदरस्थेन रतेसा ।
किमकुर्वंस्तदा सर्वे नारायणपुरोगमाः ॥२॥
गर्भनिष्क्रमणं तेषामुत्पन्नेन च किं कृतम् ।
एतत्सर्वं समासेन ब्रूहि नः सूत पृच्छताम् ॥३॥
सूत उवाच -
वह्नौ संतर्पितास्तेन रेतसा त्रिदिवौकसः ।
रेतसा चोदरस्थेन संतप्तास्ते सुरादयः ॥४॥
दशपञ्चसहस्राणामतीतेषु द्विजोत्तमाः ।
वर्षाणां च तथाऽष्टौ च गूढगर्भा दिवौकसः ॥५॥
दुःखिताः पार्वतीकान्तं शंकरं शरणं ययुः ।
ऊचुः प्राञ्जलयः सर्वे सूर्यकोटिसमप्रभम् ॥६॥
देवा ऊचु -
भगवन्यदिदं दुःखं गर्भजं देहशोषणम् ।
यथा नश्यति देवेश तदुपायं कुरु प्रभो ॥७॥
वह्निना पीतमात्रेण रेतसा तव शंकर ।
वयं सगर्भाः संजाता गर्भकाले च तोयदाः ॥८॥
* ( ङसंज्ञितपुस्तकेऽयं श्लोको नास्ति । )
* उपहास्यमिदं देव पुंसां यद्गर्भसंभवः ।
सर्वे वै भृशमुद्विग्नास्तव तेजोवशाद्विभो ॥९॥
दह्यमाना महादेव नरके पापिनो यथा ।
शरणं भव देवानां करालम्बं ददस्व नः ॥१०॥
दुःखोदधौ प्रदुस्तारे प्रणतातिंविनाशन ।
X  ( एवं श्रुत्वेत्यादि सुरेश्वर इत्यन्तं शब्दजातं कझसंज्ञितपुस्तकयोर्नास्ति । )
X एवं श्रुत्वा तु वचनं देवानां पार्वतीपतिः ॥११॥
ईषद्विहस्य भगवानुवाचेदं सुरेश्वरः ।
ईश्वर उवाच -
भवद्भिरीट्टशं कार्यमिष्टं वै सुरपुंगवाः ॥१२॥
नेष्टं देव्यों [ व्यु ] दरस्थं हि तस्माद्गर्भदशां गताः ॥१३॥
इदानीं यत्प्रकर्तव्यं शृणुध्वं तत्सुरोत्तमाः ।
वह्निं यूयं पुरस्कृत्य मेरुं व्रजत मन्दरात् ॥१४॥
शरधानवने यूयं हृदोत्सङ्गे प्रसूयत (?) ।
निःसरिष्यत्यसंदेहं ततः सौख्यमवाप्स्यथ ॥१५॥
ततः शंभोर्वचः श्रुत्वा नारायणपुरोगमाः ।
अग्निमन्विष्य च ययुर्मेरुं गिरिवरोत्तमम् ॥१६॥
तस्य चोत्तरदिग्भागे शरधानवने शुभे ।
उपविश्य महात्मानो मध्ये संस्थाप्य वेधसम् ॥१७॥
नारायणं पुरस्क्रुत्य प्रसूताः सर्वदेवताः ।
गर्भशल्यविनिर्मुक्ता जातास्ते सुखिनो द्विजाः ॥१८॥
शार्वेण तेजसा तेन रञ्जितो मेरुपर्वतः ।
ततः काञ्चनतां प्राप्तः सशैलवनकाननः ॥१९॥
शार्वं तेजो धृतं यस्माद्देवैर्वह्निपुरोगमैः ।
तस्माज्जरादिभिर्मुक्ता अमराश्च सुरोत्तमाः ॥२०॥
सिद्धाश्च मुनयश्चैव ये केचित्तत्र संस्थिताः ।
तृणगुल्मलताश्चैव जलस्थलरुहाश्च ये ॥२१॥
सर्वे काञ्चनसंकाशाः संजातास्तत्प्रभावतः ।
पार्श्वं मेरोर्विनिर्भिद्य शंभोस्तेजो विनिर्गतम् ॥२२॥
गङ्गायां निहितं यच्च तदेकस्थमभूद्द्विजाः ।
अथ देवो महादेवस्तेजोराशिरुमापतिः ॥२३॥
गोपयामास तत्तेजः पिङ्गलं प्रेक्ष्य शंकरः ।
गोप्यमाने तु तस्मिंश्च मेरौ सूर्यायुतप्रभः ॥२४॥
वर्षाणां च सहस्रेण कठिनं स्कन्दतां गतः ।
स्कन्दः इत्युच्यते तेन तदाप्रभृति सुब्रताः ॥२५॥
हराज्जातो यतस्तेन कुमार इति कथ्यते ।
स्कन्दः कुमारः षड्वक्त्रस्तथा द्वादशलोचनः ॥२६॥
भुजैर्द्वादशभिश्चै शोभमानोऽभवत्तदा ।
ईशादेशात्पुनः स्नातुं कृत्तिकाः परमोज्ज्वलाः ॥२७॥
ताभिः क्षीरं यतो दत्तं कार्तिकेय इति स्मृतः ।
गर्भपङ्कविलिप्ताङ्गो गङ्गायां स्नापितः प्रभुः ॥२८॥
तत्पचामीकराभासः शरधानवते तदा ।
नाम्नां सहस्रेण तदा कुमारो वेधसा स्तुतः ॥२९॥
मुमोच नादमुत्थाय सर्वभूतभयंकरम् ।
पातालं भेदयित्वा तु तच्छृङ्गं शतधा कृतम् ॥३०॥
सिंहादयोऽपि तत्रस्थास्तेन नादेन सूदिताः ।
ततस्तं क्रीडमानं तु दृष्ट्वा देवं शिवात्मजम् ॥३१॥
पिङ्गलो देवदेवेशं ज्ञापयामास शंकरम् ।
पश्य त्वं देवदेवेश क्रीडमानं कुमारकम् ॥३२॥
सूर्यायुतप्रतीकाशमात्मसूनुं षडाननम् ।
ज्ञापितः पिङ्गलेनेशो वाक्यं देव्यै मुदावहम् ।
वरो वरेण्यो वरदो विश्वाकार उवाच ह ॥३३॥
ईश्वर उवाच -
गच्छाव एहि देवोशि मेरौ यत्र सुतस्तव ।
परश्यावस्तं वरारोहे कुमारं तु षडाननम् ॥३४॥
पुरा त्वयेष्टं कनकावभासं पश्याद्रिजे मानसराजहंसम् ।
प्रधावमानं शतसूर्गकल्षं षडाननं कार्मुकपाणिमग्रे ॥३५॥
समागतौ स ज्वलनोऽथ दृष्ट्वा त्रिलोकनायौ जगतः प्रदीपौ ।
उवाच वह्निर्वरदं कमारं हराम्बिके द्वौ पितरौ तवेतौ ॥३६॥
त्वामागतौ द्रष्टुमनन्तवीर्यं व्रजाश्रयेति प्रमथाधिनाथौ ।
गतोऽथ वह्नेर्वचनं निशभ्यं ततः सुतत्वाद्गिरिजाङ्गगोऽभूत् ॥३७॥
तं सा पिवन्तं मुहुरङ्कसंस्थमतृप्यमानं कलहंसनादिनी ।
उमाङ्संस्थो मदनारिसूनुः करेण तस्यास्तिलकालकौ तु ॥३८॥
ममर्द शंभोश्च भुजंगहारं जग्राह चन्द्रं स कषर्दसंस्थम् ॥३९॥
पञ्चम्यां स्थापितः सोऽथ षष्ठ्यां षष्ठीप्रियो गुहः ।
चतुष्पादवतीं त्यक्त्वा त्रैलोक्यं हन्तुमुद्यतः ॥४०॥
अबोधयत्तदा बालो जन्तून्स्थावरजङ्गमान् ।
क्कचिच्छृङ्गं गिरेः शौर्यान्नयत्याशु समानताम् ॥४१॥
क्कचित्सिंहान्समाकृष्य पातयामास भूतले ।
आरुह्याभ्धहनत्पृष्ठे (?) तानेव भ्रामयन्पुनः ॥४२॥
क्कजिन्नागौ गृहीत्वा तु कराम्यां संमुखावुभौ ।
आस्फोटयत्तदाऽन्योन्यं कुम्भाभ्यां सxxx लीलया ॥४३॥
समुत्पत्य समादाय खेचराणामुमासुतः ।
चिक्षेप सहसा बालो विमानान्यवनीतले ॥४४॥
पुनरुत्पत्य वेगेन प्रेक्ष्यमाणः खमण्डले ।
मार्गं रुधोध सूर्येन्द्वोर्गहाणां च तथैव सः ॥४५॥
उत्पाट्य मेरुशृङ्गाणि इतश्चेतश्च सोऽक्षिपत् ।
पर्वतांश्च विशेषेण नदीश्चोन्मार्गतोऽनयत् ॥४६॥
त्रासितं तु जगत्सर्वं दामोदरपदत्रये ।
ततस्ते भृशमुद्विग्नाः शक्रं शत्रुप्रतापनम् ॥४७॥
ऊचुर्गत्वा द्विजश्रेष्ठा भूता वाक्यमिदं तदा ।
अयमर्कायुतप्रख्यो वालो नो हन्ति वृत्रहन् ॥४८॥
तवैष राज्यहर्तावैभविष्यति न संशयः ।
पराक्रमाद्बलाच्छाक्र तथोत्साहाच्च तेजसः ॥४९॥
नूनं शतग्णेनायमधिकश्चेह दृश्यते ।
यदि सूदयसे नाथ तत्त्वं सुखमवाप्रयसि ॥५०॥
करिष्यसि वचोऽस्माकं तव राज्यं भविष्यति ।
उपेक्षा नैव कर्तव्या शिशुं मत्वा पुरंधर ॥५१॥
एतद्विचार्य यत्नेन ततो बालं निषूदय ।
एवमुक्तस्ततस्तैस्तु भूतव्रातैः पुरंदरः ॥
उवाच वचनं श्लक्ष्णं तेषां धर्मपरायणम् ॥५२॥
इन्द्र उवाच -
कथमुक्तमिदं भूता बालस्य हननं प्रति ।
धर्मघ्नं पापसंघातं कीर्तिघ्नं वै चराचरे ॥५३॥
श्रूतयामभिधास्यामि धर्मशास्त्रस्य निश्चितम् ।
ऋषिभिश्च पुराऽऽख्यातं पुराणेषु चराचराः ॥५४॥
आतुरं भीरुमुद्विग्नमेकस्थं शरणागतम् ।
स्त्रियमप्यथवा बालमन्धं पङ्गुं तपस्वितम् ॥५५॥
विलपन्तं तथोन्मत्तं काभासक्तं निरायुधम् ॥५६॥
पतितं प्रपलायन्तं विश्वस्तं ब्राह्मणं तथा ।
नग्नं दीनं तथा वृद्धं नखरोममन्वितम् ।
मुक्तकेशं तथा मत्तं सुप्तं च भुवनाकैसः ॥५७॥
सूदयिष्यन्ति ये नूनं मूढास्ते नरकार्णवात् ।
अनुत्थाना भविष्यन्ति गर्तस्थः कुञ्जरो यथा ॥५८॥
तस्मादूव्रजध्वं शरणं यत्र शंभुसुतो गुहः ।
नाहं बालवधं कर्तुमुत्सहे सचराचरे ॥५९॥
+ ( खगसंज्ञितपुस्तकयोरवैष श्लोको वर्तते । )
+ एवमुक्ते तु शक्रेण भूतास्ते भृशदुःखिताः ।
क्रोधसंदीपनं वाक्यं पुनरूचुश्चराचराः ॥६०॥
भूता ऊचु -
गर्भो दितेर्यथा शक्र संरम्भात्सूदितस्त्वया ।
तदा नीतिर्गता कुत्र दारुणे गर्भपातने ॥६१॥
अशक्यामिति मत्वैव नीतिमानसि मानद ।
अशक्यकर्मणि विभो नीतिमान्पुरुषो भवेत् ॥६२॥
कश्च नाम नरः शूरो यो बालं योधयेद्रणे ।
अपि शक्रशतैस्तस्य वज्रकोटिनिपातनैः ॥६३॥
अप्येकमपि रोमाग्रं पातितुं नैव शक्यते ।
एवमुक्तस्ततस्तैस्तु भूतव्रातैः पुरंदरः ॥६४॥
आज्यधाराभिषिक्तोऽग्निर्यथैव प्रज्वलंस्तथा ।
उवाचेदं वचस्तान्स क्रोधवह्निप्रदीपितः ॥६५॥
वज्रमुद्यम्य हस्तेन वृत्रहा कुलिशायुधः ॥६६॥
इन्द्र उवाच -
पुरा मया यथा गर्भो घातितश्च चराचराः ।
दितेः कायं समाविश्य तथेदानीं निहन्यते ॥६७॥
अथ गत्वा हनिष्यामि पतङ्गमिव वह्निना ।
वज्रं हस्ते समादाय आहवे प्रसहेत कः ॥६८॥
एवमुक्त्वा ततः शक्रः क्रोधानलसमीरितः ।
आज्ञापयत्तदा विप्राः साध्यान्देवान्दिवाकरान् ॥६९॥
शरधानं गमिष्यामि वधाथ बालकस्य च ।
हंसकुन्देन्दुवर्णाभं चतुर्दन्तं महागजम् ॥७०॥
आनयध्वं ममाग्रे तु करीन्द्रं मम वल्लभम् ।
जलधेधि रिव गम्भीरं दीर्घहस्तं घनस्वनम् ॥७१॥
दैत्यदानवरक्तेन क्लिन्नदंष्ट् भयावहम् ।
तदादेशात्सुरैस्तूर्णं सर्वायुधसमन्वितः ॥७२॥
निवेदितः स शक्राय तमारुह्य पुरंदरः ।
विश्वैर्देवैश्च साध्यैश्च वसुभिश्च मरुद्गणैः ॥७३॥
आदित्यैरश्विनीनाभ्यां च ययौ स्कन्दवधाय सः ।
वियमन्मण्डलगास्थाय स्तूयमानश्चराचरैः ॥७४॥
नृत्यमानाप्सरोभिश्च वाद्यमानैश्च किंनरैः ।
गीयमानश्च गन्धर्वैः सनीतैर्गीतशालिभिः ॥७५॥
नदद्भिश्च महासिंहैर्गर्जद्भिश्च गजोत्तमैः ।
हरिभिर्हेयमाणैश्च वायुवेगैर्महारथैः ॥७६॥
पताकाभिर्जयन्तीभिर्ध्वजैश्छत्रैश्च चामरैः ।
एवमाद्यैरनेकैश्च नन्दीश्वर इवापरः ॥७७॥
दोधूयमानश्चमरैश्च दिव्यैर्जगीयमानः सुरकिंनरीभिः ।
पेपीयमानः सुरसुन्दरीभिः कामातुराभिर्नयनैरजस्नम् ॥७८॥
संपूज्यमानो मुनिसिद्धसंवैर्मुदाऽन्वितो वज्रधरः किरीटी ।
कुमारमुद्दिश्य गतोऽथ वेगाद्धरिर्हरिर्वै म(द) नुजान्यथेव ॥७९॥३५१३॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे परमेश्वरसुरसंवादादिकथनं नाम द्विषष्टितमोऽध्यायः ॥६२॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP