संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १९

सौरपुराणं - अध्यायः १९

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
श्राद्धं दर्शेऽथ कर्तव्यमष्टकास्वयनद्वये ।
विषुवे च व्यतीपाते तीर्थेषु च विशेषतः ॥१॥
परीक्ष्य ब्राह्मणान्सम्यग्वेदवेदोङ्गपारगान् ।
विशेषाच्छिवभक्तांश्च रुद्रजाप्यपरायणान् ॥२॥
अभावे शिवभक्तानां सदाचाररतान्द्विजान् ।
भोजयेच्छ्रद्धया श्राद्धे शिवबुद्ध्या समाहितः ॥३॥
व्रतोपवासनिरताः सोमपाः संयतेन्द्रियाः ।
अग्निहोत्रपराः शान्ता बह्वृचा गुरुपूजकाः ॥४॥
त्रिणाचिकेताः शिष्याश्च त्रिमधुत्रिसुंपर्णिकाः ।
मन्त्रब्राह्मणवेत्तारः पुराणस्मृतिपाठकाः ॥५॥
अध्यात्मशास्त्रनिरता ब्राह्मणाः पङ्क्तिपावनाः ।
एकं वा भोजयेद्विप्रं शिवभक्तिपरायणम् ॥६॥
तेन पूजा भवन्त्येव ये केचित्पङ्क्तिदूषकाः ।
वधबन्धोपजीवी च वृषलः शूद्रयाजकाः ॥७॥
वेदविक्रयिणश्चैव श्रुतिविक्रयिणस्तथा ।
वेदविक्रयिणश्चान्ये कोपिनः कुण्डगोलकौ ॥८॥
कायस्था लम्बकर्णाश्च नित्यं राजोपसेवकाः ।
नक्षत्रतिथिवक्तारो भिषक्शास्त्रोपजीवितः ॥९॥
व्याधिनः काव्यकर्तारो गायकाश्चैव गोत्रिणः ।
वेदनिन्दारताश्चैव कृतघ्नाः पिशुनास्तथा ॥१०॥
हीनातिरिक्तदेहाश्च श्राद्धे वर्ज्याः प्रयत्नतः ।
ब्रह्महत्यामवाप्नोति यदि स्त्रीगमनं भवेत् ॥११॥
अध्वानं कलहं क्रोधं पुत्रभार्यादिताडनम् ।
श्चाद्धभोजी भवेद्यो हि तद्दिने परिवर्जयेत् ॥१२॥
प्रक्षालयेत्ततः पादाबर्जिते मण्डले शुभे ।
चतुरस्रं ब्राह्मणस्य क्षत्त्रियस्य त्रिकोणकम् ॥१३॥
वर्तुलं चैव वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम् ।
उपवेश्य ततो विप्रान्दत्त्वा चैव कुशासनम् ॥१४॥
पश्चाच्छ्राद्धस्य रक्षार्थं तिलांश्च विकिरेत्ततः ।
विश्वेदेवानथाऽऽहूय विश्वेदेवास इत्यृचा ॥१५॥
शंनोदेव्या जलं क्षिप्त्वा सपवित्रे तु भाजने ।
यवान्यवोऽसीति तथा गन्धपुष्पं च निक्षिपेत् ॥१६॥
या दिव्या इति मन्त्रेण हस्तेऽप्यर्ध्यं विनिक्षिपेत् ।
प्रदद्याद्गन्धमाल्यादि धूपं वासांसि शक्तितः ॥१७॥
अपसव्यं ततः कृत्वा पितॄनाबाहयेत्ततः ।
उशन्तस्त्वेति च ऋचा आवाह्य तदनुज्ञया ॥१८॥
जपेदायन्तु न ऋचं तिलोऽसीति तिलांस्तथा ।
क्षिपेदर्ध्यं यथापूर्वं विग्रहस्ते समाहितः ॥१९॥
संस्रवान्प्रक्षिपेत्पात्रे न्युब्जं चैव यथा भवेत् ।
पितृभ्यः स्थानमसीति ततोऽ‍ग्नौकरणं मतम् ॥२०॥
अग्नौ करिष्य इत्युक्त्वा कुरुष्वेत्यभ्यनुज्ञया ।
अन्नं घृतप्लुतं वह्नौ जुहुयात्पितृयज्ञवत् ॥२१॥
अग्नेरभावाद्विप्रस्य पाणौ होमो विधीयते ।
महादेवस्य पुरतो गोष्टे वा श्रद्धमाऽ‍न्वितः ॥२२॥
पिण्डनिर्वपणं कृत्वा ब्राह्मणांश्चैव भोजयेत् ।
केचिदप्येवमिच्छन्ति नैव भानोर्मतं द्विजाः ॥२३॥
विविधं पायसं दद्याद्भक्ष्याणि सुबहून्यपि ।
लेह्यं चोप्यं तथा कामपुष्पमेव फलं विना ॥२४॥
विविधान्यपि मांसानि पितॄणां प्रीतिपूर्वकम् ।
दत्तान्यपि निषिद्धानि श्राद्धं नैवाक्षयं भवेत् ॥२५॥
नाश्नाति यो द्विजो मांसं नियुक्तः पितृकर्मणि ।
स प्रेत्य नरकं याति पशुत्वं च प्रपद्यते ॥२६॥
धर्मशास्त्रं पुराणं च तथाऽथर्वशिरस्तथा ।
रुद्रांश्च पौरुषं सूक्तं ब्राह्मणाञ्श्रावयेत्ततः ॥२७॥
भुञ्जीरन्ब्राह्मणाः सर्वे वाग्यता घृतभोजनाः ।
विकिरं निक्षिपेत्पश्चाच्छेषमन्नमथाब्रवीत् ॥२८॥
हस्तप्रक्षालनं दत्त्वा कुर्याद्वै स्वस्तिवाचनम् ।
दद्याद्वै दक्षिणां शक्त्या स्वधाकारमुदीरयेत् ॥२९॥
दातारो नोऽभिवर्धन्तां वाजेवाजेति वै ऋचम् ।
जप्त्वा च ब्राह्मणान्स्तुत्वा नमस्कृत्य विसर्जयेत् ॥३०॥
भोक्ता च श्राद्धदस्तस्यां रजन्यां मैथुनं त्यजेत् ।
स्वाध्ययं च तथाऽऽध्वानं प्रयत्नेन विवर्जयेत् ॥३१॥
अध्वगो व्यसनी चैव विशेषेण ह्यनग्निकः ।
आमश्राद्धं द्विजः कुर्यादुर्बलस्तु सदैव हि ॥३२॥
फलैरपि च मूलैर्बा कुर्याच्छ्राद्धं च निर्धनः ।
स्नात्वा तिलोदकैर्वापि तर्पयेच्छ्रद्धया पितॄन् ॥३३॥
श्रद्धया तु कृते श्राद्धे भगवान्नीललोहितः ।
प्रीतो ग्रवति विश्वात्मा विश्वेशो हव्यकव्यभुक् ॥३४॥८७०॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे श्राद्धविधि कथनं नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP