संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १७

सौरपुराणं - अध्यायः १७

सौरपुराणं व्यासकृतम् ।


* ( अयमेव हञ्चदशाध्ययः कखगसंज्ञितपुस्तकेष्वष्टादशः । )
* ऋषय ऊचु -
यदुक्तं भवता सूत नैष्फलं ज्ञानमुत्तमम् ।
श्रुतं चाखिलमस्माभिर्मनांसि हृषितानि नः ॥१॥
भक्तिश्च शाश्वते शंभौ जाताऽस्माकं हि शाश्वती ।
वर्णाश्रमाचारविधिमिदानीं ब्रूहि तत्त्वतः ॥२॥
सूत उवाच -
चतुर्णामपि वर्णानां विधिं वक्ष्यामि सुव्रताः ।
यदुक्तं भानुना पूर्वं मनवे परमेष्ठिने ॥३॥
येन विश्वेश्वरः क्षंभुः कर्मयोगरतैः सदा ।
आराध्यते न चान्येन इत्येषा वैदिकी श्रुतिः ॥४॥
ब्राह्मणः क्षव्रियो वैश्यश्चतुर्यः शूद्र उच्यते ।
वर्णाश्चत्वार एवैते त्रय आद्या द्विजाः स्मृताः ॥५॥
गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ।
चत्वारश्चाऽऽश्रमारतेषां पञ्चमो नोपपद्यते ॥६॥
सर्वेषामाश्रमाणां च विहितं दण्डधारणम् ।
न दण्डेन विना कश्चिदाश्रमीति निगद्यते ॥७॥
ब्रह्मचारी भवेद्दण्डी कृष्णाजिनधरस्तथा ।
मेखली च तथा मुण्डो शिखी वा यदि वा जटी ॥८॥
भिक्षाहारेण सततं वर्तनं तस्य सुव्रताः ।
अग्निकार्यं तथा कुर्यात्सायं प्रातर्यथाविधि ॥९॥
अग्निकार्यपरित्यागी पतितः सर्वकर्मसु ।
स्नात्वा संतर्प्य देवादीन्देवताभ्यर्चनं ततः ॥१०॥
अभिवादनशीलः स्याद्वृद्धेषु च यथाक्रमम् ।
कृतेऽभिवादने कुर्यान्नैव प्रत्यभिवादनम् ॥११॥
करोति नाभिवाद्योऽसौ यथा शूद्रस्तथैव सः ।
आध्याश्मिकं वैदिकं वा तथा लौकिकमेव वा ॥१२॥
आदतीत गुरोर्यस्मात्तं पूर्वमभिवादयेत् ।
असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः ॥१३॥
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथंचन ।
* ( भिक्षामाहृत्येत्यादि वर्तने नित्यमित्यन्तं कखसंज्ञितयोः षुस्तकयोर्नास्ति । )
शिष्टानां च गृहान्नित्यं * भिक्षामाहृत्य सुव्रतः ॥१४॥
निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ।
भैक्षेण वर्तनं नित्यं नैकान्नादी ब्रती भवेत् ॥१५॥
उपवाससमा भिक्षा प्रोक्ता वै ब्रह्मचारिणाम् ।
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ॥१६॥
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ।
प्राड्मुखोऽन्नादि भुञ्जीत सूर्याभिमुख एव वा ॥१७॥
नाद्यादुदड्मुखो नित्यं विधिरेष सनातनः ।
पादौ प्रक्षाल्य विधिवदाचम्य प्रयतो द्विजः ॥१८॥
भुञ्जीत मौनी सततं स्वरेद्देवं सदाशिवम् ।
सोपानत्को जलस्थो वा नोष्णीषी चाऽऽचमेद्बुधः ॥१९॥
न चैव वर्षधाराभिर्न तिष्टन्प्रलपन्न च ।
प्राश्नीयान्त्रिरपः पूर्वं ब्राह्मेण प्रयतो द्विजः ॥२०॥
संवृत्ताङ्ष्ठमूलेन मुखं चैवमुपस्पृशेत् ।
अङ्गुष्ठानाभिकाभ्यां च संस्पृशेन्नयनद्वयम् ॥२१॥
अङ्गुष्ठतर्जनीभ्यां च संस्पृशेन्नासिकापुटे ।
कनिष्ठाङ्गुष्ठयोगेन स्पृशेच्छ्रोत्रयुगं द्विजः ॥२२॥
सर्वाभिरङ्गुलीभिश्च हृदयं च तलेन वा ।
संस्पृशेद्वै शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥२३॥
विन्यस्य दक्षिणे कर्णे ब्रह्मसूत्रमुदड्मुखः ।
दिवा मूत्रपुरीषे च शर्वर्या दक्षिणामुखः ॥२४॥
आच्छाद्य पर्णैर्वसुधां तृणैर्वा मौनसंयुतः ।
शिरः प्रावृत्य विप्रेन्दा नान्यथा च कदाचन ॥२५॥
पथि गोष्ठे नदीतीरे छायायां कूपसंनिधौ ।
तुषाङ्गारकपालेषु न क्षेत्रे न चतुष्पथे ॥२६॥
नोद्याने न श्मशाने च न पश्यंस्तारकादिकान् ।
न चैवाभिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् ॥२७॥
शौचं पश्चात्प्रकुर्वीत गन्धलेपक्षयावधि ।
आन्तरं मनसः शुद्धिर्यथा भवति तद्द्विजाः ॥२८॥
+ ( ख त्संज्ञितपुस्तके‍ऽयं श्लोको न विद्यते । )
+ जितेन्द्रियः स्यात्सततं वश्यात्माऽक्रोधनः शुचिः ।
प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ॥२९॥
परोपघतं पैशून्यं कामं लोभं तथैव च ।
द्यूतं जनपरीवादं स्त्रीक्ष्वेल्यालम्भनं तथा ॥३०॥
गन्धमाल्यं रसं छात्रं वर्जयेद्दन्तधावनम् ।
सर्वं पर्युषितं वर्ज्यं कृतं च लवणं तथा ॥३१॥
मलापकर्षणं स्नानं शूद्रादयिरभिभाषणम् ।
गुरोरवज्ञां सततं ब्रह्मचारी विवर्जयेत् ॥३२॥
उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ।
गुर्वर्थमाहरेन्नित्यं भैक्षं चाहरहश्चरेतु ॥३३॥
आचम्य संयतो नित्यमधीयीत ह्युदड्मुखः ।
उपसंगृत्य तत्पादौ वीक्षमाणो गुरोर्मुखम् ॥३४॥
सर्वेषामेव भूतानां वेद्श्चक्षुः सनातनम् ।
वेदः श्रेयस्करः पुंसां नान्य इत्यब्रवीद्रविः ॥३५॥
अनधीत्य द्विजो यस्तु शास्त्राणि सुबहून्यपि ।
शृणोति ब्राह्मणो नासौ नरकाणि प्रपद्यते ॥३६॥
नाधीतविद्यो यो विप्र आचारेषु प्रवर्तते ।
नाऽऽचारफलमाप्नोति यथा शूद्रस्तथैव सः ॥३७॥
नित्यं नैमित्तिकं काम्यं यच्चान्यत्कर्म वैदिकम् ।
अनधीतस्य विप्रस्य सर्वं भवति निष्फलम् ॥३८॥
अनधीतस्य विप्रस्य पुत्रो वाऽध्ययनान्वितः ।
शूद्रपुत्रः स विज्ञेयो न विएदफलमश्रुते ॥३९॥
वेदं वेदौ तथा वेदान्वेदांश्च चतुरो द्विजाः ।
अधीत्य गुरुवे दत्त्वा दक्षिणां च भवेगूदृही ॥४०॥
रूपलक्षणसंयुक्तां कन्यामुद्वाहयेत्ततः ।
अमातृगोत्रप्रभवामसमानार्षगोत्रजाम् ॥४१॥
मातृतः पञ्चमादूर्ध्वं पितृतः सप्तमात्तथा ।
अगोत्रकुलसंपन्नां रोगहीनां सुरूपिणीम् ॥४२॥
मातृतः पञ्चमादर्वाक्पितृतः सप्तमत्तथा ।
कन्यां विवाहयेद्यस्तु गुरुतल्पी भवेद्धि सः ॥४३॥
ब्राह्मेणैव विवाहेन दैवेनापि तथैव च ।
आर्षं वं केचिदिच्छान्ति धर्मकार्येषु गर्हितम् ॥४४॥
धारयेद्वैणवीं यष्टिमन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीतद्वितयं सोदकं च कमण्डलुमू ॥४५॥
छत्रं चोष्णीषममलं पादुके वाऽप्युपानहौ ।
रौक्मे च कुण्डले नित्यं कृत्तकेशनखः शुचिः ॥४६॥
शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः ।
न जीर्णमलवद्वासा भवेद्वै विभवे सति ॥४७॥
ऋतुगामी भवेद्विप्रो निषिद्धतिथिवर्जितः ।
षष्ठ्यष्टम्यौ पञ्चदशीममावास्यां चतुर्दशीम् ॥४८॥
ब्रह्मचारी भवेन्नित्यं जन्मर्क्षे च विशेषतः ।
आददीताऽऽवसथ्याग्निं जुहुयाज्रातवेदसम् ॥४९॥
वेदोदितं रवकं कर्म नित्यं कुर्यादतन्द्रितः ।
अकुर्वाणः पतत्याशु निरयानतिभीषणान् ॥५०॥
कुर्याद्गृह्याणि कर्माणि संध्योपासनमेव च ।
सख्यं सामाधिकैः कुर्यादुपेयादीश्वरं सदा ॥५१॥
षापं न गूहयेद्विद्वान्न धर्मं ख्यापयेत्कचित् ।
वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ॥५२॥
वेषवान्बुद्धिसादृश्यमाचरन्विचरेत्सदा ।
श्रुतित्मृत्युदितः सन्यक्साधुभिर्यश्च सेवितः ॥५३॥
तमाचारं निवेवेत साधून्वक्ष्यामि सांप्रतम् ।
गङ्गायमुनयोर्मध्ये मध्यदेशः प्रकीर्तितः ॥५४॥
तत्रोत्मन्ना द्विजां ये वै साधवस्ते प्रकीर्तिताः ।
यस्तैरनुष्ठितो धर्मः श्रुतिस्गृत्योश्च संततः ॥५५॥
सदाचारः स वै प्रोक्तो देवदेवेन शंभुना ।
कुरुक्षेत्राश्च मत्स्याश्च पाञ्चाला शूरसेनजाः ॥५६॥
एते देशाः पुण्यदेशाः सर्वे चान्ये च निन्दिताः ।
देशेष्वेतेषु निवसेद्ब्राह्मणैर्धर्मकाङ्क्षिभिः ॥५७॥
अत्रैव दृश्यते धर्मो नान्यत्रेत्यब्रवीद्रविः ।
अङ्गवङ्गकलिङ्गाश्च सौराष्ट्रं गुर्जरं तथा ॥५८॥
आभीरं कौङ्कणं चैव द्राविडं दक्षिणापथम् ।
अन्ध्रं च मागधं चैव देशानेतांश्च वर्जयेत् ॥५९॥
नित्यं स्वाध्यायशीलः स्यात्पञ्चयज्ञपरायणः ।
X ( कखघङचछसंज्ञितपुस्तकेष्वय श्लोको नास्ति । )
X शान्तो दान्तो जितक्रोधो लोभमोहविवर्जितः ॥६०॥
सावित्रीजाप्यनिरतः शिवभक्तिपरायणः ।
श्राद्धकृद्दाननिरतः क्षमायुक्तो दयालुकः ॥६१॥
गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ।
न शरीरं विना देवः पूज्यते गिरिजापतिः ॥६२॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा यतिः ।
शिवभक्तियुतं कर्म कुर्वन्मुच्येत बन्धनात् ॥६३॥७७२॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वर्णाश्रमाचारविधिकथनं नाम सप्तदशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP