सौरपुराणं - अध्यायः ५३
सौरपुराणं व्यासकृतम् ।
ऋषय ऊचु -
श्रुतमस्माभिरखिलं ज्ञानं माहेश्वरं महत् ।
वराण्श्रमविधिश्चैव प्रायचित्तमशेषतः ।
इदानीं श्रोतुमिच्छामो विवाहं गिरिजापतेः ॥१॥
सूत उवाच -
यदुवाच पुरा देवः पृष्टो मार्तण्डसूनुना ।
स्तुत्वा च स्तोत्रवर्येण तच्छृणुध्वं द्विजोत्तमाः ॥२॥
मनुरुवाच -
भगवन्यद्यथा पृष्टं तत्तथैव त्वयोदितम् ।
श्रुतं तदखिलं तात हृदि तच्च स्थिरीकृतम् ॥३॥
जानासि त्वं भगवतो माहात्म्यं पार्वतीपतेः ।
भवतो नापरः कश्चिद्वेत्ताऽस्तीत्यब्रर्वाच्छ्रुतिः ॥४॥
त्वमीशस्यापरा मूर्तिर्यतोऽसि परमेश्वरः ।
अतस्त्वमेव जानासि महिमानं महेशितुः ॥५॥
त्वामेव रुद्रं वरदं शिवं परमकारणम् ।
तपनं शरणं यामि सहस्राक्षं हिरण्ययम् ॥६॥
सूर्यं प्रभाकरं भानुं ज्योतिषां ज्योतिरव्ययम् ।
अम्बिकापतिमीशानं ज्योतिष्मन्तं दिवाकरम् ॥७॥
हिरण्यबाहुं जटिलमोंकाराख्यं प्रचेतसम् ।
ब्रूहि मे देवदेवेश विवाहं परमेष्ठिनः ॥८॥
काली हैमवती गौरी पुनर्जाता कथं विभो ॥९॥
भानुरुवाच -
पृष्टं यत्तत्प्रवक्ष्यामि शृणुष्व मनुजश्वेर ।
सर्वपापक्षयकरं परं ब्रह्म सनातनम् ॥१०॥
नीलग्रीवो महादेवः शरण्यो गोपतिर्विराट् ।
प्रपद्ये त्वां महेशानमुग्रं शर्वं कपर्दिनम् ॥११॥
त्वां नमामि परं हंसं पशुभर्तारमीश्वरम् ।
सर्वेषां स्मरणादेव देहिनां मोक्षसाधनम् ॥१२॥
य एतैर्नामभिः स्तौति प्रातः संप्रयतात्मवान् ।
तस्य पापं क्षयं याति लक्ष्मीश्चैव प्रवर्धते ॥१३॥
सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ।
सूत उवाच -
एवं मनोर्वचः श्रुत्वा यदुवाच दिवाकरः ॥१४॥
तदहं संप्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ॥१५॥
या सा दक्षसुता देवी सती त्रैलोक्यपूजिता ।
त्यक्त्वा दाक्षं शरीरं च बभूवाचलकन्यका ॥१६॥
नाम्ना कालीति विख्याता विश्वरूपा महेश्वरी ।
जगच्चैतन्यरूपा च जगच्चैतन्यबोधिनी ॥१७॥
अधिष्ठितस्तया काल्या हिमवान्पर्वतोत्तम ।
पुण्यस्थानमभूद्विप्रा मोक्शदः सर्वदेहिनाम् ॥१८॥
सिद्धानां च मुनीनां च गन्धर्वाणां दिवौकसाम् ।
आवासः किंनराणां च स्मरआण्त्पुण्यदो नृणाम् ॥१९॥
शिवं भर्तारमिच्छन्ती तस्मिन्गिरिवरोत्तमे ।
तपस्तष्तुं गता काली शिवा पित्रोरनुज्ञया ॥२०॥
अथास्मिन्नन्तरे दैत्यस्तारको लोककण्टकः ।
जातो दैत्यकुले वीरो मृत्युरूपो दिवौकसाम् ॥२१॥
ब्रह्माणं तपसाऽऽराध्य वरं तस्मादवाप ह ।
देवाः पलायितास्तेन तारकेण बलीयसा ॥२२॥
देवानां योषितो याश्च बलादपहृताश्च ताः ।
दुःखाग्निना सुसंतप्ताः शक्राद्याः प्रथितौजसः ॥२३॥
गताः सशक्राः शरणं ब्रह्माणं त्रिदशेश्वरम् ।
आगतांश्च सुरान्दृष्ट्वा ततः प्रोवाच पद्मजः ॥२४॥
ब्रह्मोवाच कस्मात्त्रस्ताः सुरा यूयमागता वै ममान्तिके ।
ब्रूत तत्सकलं देवा उपायं वच्मि वः स्फुटम् ॥२५॥
देवा ऊचु -
तारकाद्भयसंत्रस्ताः शरणं देवभागताः ।
यथा मृत्योर्भयं देव तस्मान्नस्त्रातुमर्हसि ॥२६॥
अपि क्षणं सुरश्रेष्ठ न लभामो वयं सुखम् ।
त्रिंशब्दर्षसहस्राणि हरितारकयोस्तदा ॥२७॥
अहर्निशमविश्रान्तं युद्धमासीत्सुदारुणम् ।
तथाऽपि न जितस्तेन देवदेवेन चक्रिणा ॥२८॥
अवध्योऽयमिति ज्ञात्वा ययौ त्यक्त्वा महोदधिम् ।
भ्रान्तचित्तस्तदा शार्ङ्गी गतस्तूर्णं महाबलः ॥२९॥
बयमप्येबमेवं हि भीतास्त्वां शरणं प्रभो ।
आगतास्त्राहि नस्तस्मात्सुखदो भव पद्मज ॥३०॥
ग्रह्मोबाच -
शृणुध्वं मेऽमराः सर्वे युष्माकं सुखदं महत् ।
योऽसौ दृप्तस्तारकाख्यस्तताप परमं तपः ॥३१॥
तस्य दैत्यस्य तपसा दह्यमानं चराचरम् ।
दृष्ट्वा तद्वरदानार्थं गतोऽहं तारकान्तिकम् ॥३२॥
उक्तं मया वरं वत्स वरयेति महासुरः ।
अब्रवीद्दैत्यराजो मामभिवन्द्य कृताञ्जलिः ॥३३॥
तारक उवाच -
अवध्योऽहं सुरैः सर्वैर्विष्णवाद्यैः पद्मसंभव ।
भवाम्यहं यथा देव तथा त्वं देहि मे वरम् ॥३४॥
एवमस्त्वित्यहं तस्मै वरं दत्त्वा सुरोत्तमाः ।
अन्यच्चोक्तं हितार्थं वः कस्माद्वध्योऽसि तद्वद ॥३५॥
तारक उवाच -
* ( कजसंज्ञितपुस्तकयोस्यं श्लोको नास्ति । )
* योऽयं देवाधिदेवेशः कपर्दी नीललोहितः ।
तस्य रेतः सुराः पीत्वा सगर्भा विष्णुना सह ॥३६॥
भविष्यन्ति ततो जातान्मृत्युरिष्टो न वाऽपरः ।
तथाऽस्त्विति तवश्चोक्त्वा ततोऽहं मेरुमूर्धनि ॥३७॥
गच्छध्वं शरण्म तस्माच्छरण्यं सर्वदेहिनाम् ।
विश्वेश्वरमुमाकान्तं शंकरं लोकशंकरम् ॥३८॥
मुक्त्वा हरात्मकं देवं त्रैलोक्ये सचराचरे
न तं पश्यामि भो देवास्तारकं यो वधिष्यति ॥३९॥
ब्रह्मणो मचनं श्रुत्वा सहस्राक्षः शचीपति ।
कथं भविष्यतीत्येवमालोक्य मनसा द्विजाः ॥४०॥
गुरुणा दैवतैः सार्धं पुनरेव स देवराट् ।
हरस्यैव सुतोत्पत्तावुपायश्चिन्त्यतां सुराः ॥४१॥
इत्युक्त्वा प्रययुर्देवाः शकाद्या ब्रह्मणा सह ।
मेरोरुत्तरतः शृङ्गं यत्र तिष्ठति माधवः ॥४२॥
* ( कखगजझसंज्ञितपुस्तकेष्वय श्लोको नास्ति । )
* गुप्तस्तिष्ठत्यमेयात्मा तारकाद्भयषीडितः ।
सब्रह्मकान्सुराम्दृष्ट्वा हृष्टः प्रोवाच माधवः ॥४३॥
माधव उवाच -
उषायश्चिन्तितः कोऽत्र वधार्थं तारकस्य हि ।
अस्ति चेदुच्यतां देवाः शर्म नो जायते यथा ॥४४॥
सूतं उवाच -
एवं विष्णोर्वचः श्रुत्वा ब्रह्मद्याः सुरसत्तमाः ।
यथोक्तं ब्रह्मणा तेभ्यस्तथोक्तं विष्णवे सुरैः ॥४५॥
किमिदानीं तु कर्तब्यमिति संचिन्त्य देवराट् ।
सोऽस्मरन्मनसा काममजेयमसुरैः सुरैः ॥४६॥
शक्रस्य चिन्तितं ज्ञात्वा कामो रतिपतिः स्वयम् ।
शचीपतिं समागम्य प्राह पुष्मधनुर्धरः ॥४७॥
काम उवाच -
किं कार्यं त्रिदशश्रेष्ठ कर्तव्यं किं मया प्रभो ।
तीव्रेण तपसा को हि स्थानमीहेत तावकम् ॥४८॥
किं वा काचित्तवाऽऽदेशं कर्तुं नेच्छति चाङ्गना ।
तां कामिनीं करोम्यद्य तव ध्यानपरायणाम् ॥४९॥
न कश्चिदस्ति मे शूरो न मानी न च पण्डितः ।
व्यापयामि जगत्कृत्स्नं ब्रह्माद्यं स्तम्बगोचरम् ॥५०॥
अथ किं बहुनोक्तेन दुर्वासा वा महामुनिः ।
सोऽपि विद्धः पतत्याशु मद्बाणैर्मरुतां पते ॥५१॥
इन्द्र उवाच -
जानाम्यहं रतेर्नाथ सामर्थ्यं पुष्पधन्विनः ।
नूनं हि सर्वकार्याणि त्वत्तः सिध्यन्ति नान्यथा ॥५२॥
गच्छ पार्श्वं महेशस्य सुराणां हितकाम्यया ।
चित्तं हरस्य संक्षोभ्य पार्वत्याः संगमं कुरु ॥५३॥
एतदेव हि मे कार्यमेष एव मनोरथः ।
एतस्मात्कारणात्त्वं हि स्मृतः पुष्पधनुर्धर ॥५४॥
एवं शक्रवचः श्चुत्वा बलवान्मकरध्वजः ।
मधोः सखा रतीयुक्तः पञ्चबाणो मनोभवः ॥५५॥
यत्राऽऽस्ते भगवाञ्शंभुर्ध्यानदृष्ट्या समाहितः ।
निष्कम्पः स्वात्मनाऽऽस्मानं चिन्तयानो महेश्वरः ॥५६॥
प्राप्य शंभोरायतनमपश्यन्मकरध्वजः ।
शैलादिं द्वारदेशे तु मेरुशृङ्गमिवोदितम् ॥५७॥
सर्वाभरणसयुक्तं सहस्रादित्यवर्चसम ।
शूलहस्तं त्रिनेत्रं च चम्द्रावयवभूषणम् ॥५८॥
वज्रपाणिं चतुर्बाहुं द्वितीयमिव शंकरम् ।
तं दृष्ट्वा मदनो विप्राश्चिन्ताक्रान्तस्तदाऽभवत् ॥५९॥
कथं प्रविश्य वक्ष्यामि शंभुं त्रिदशवन्दितम् ।
कथं कार्यं करिष्यामि सुराआणं प्रीतवर्धनम् ॥६०॥
चिन्तयित्वा तु बहुधा वञ्चनार्थाय नन्दिनः ।
वायुरूपं ततः कृत्वा सुगन्धं मृदुशीतलम् ॥६१॥
प्रविवेश तदा कामो दक्षिणां दिशमाश्रयम् ।
तेन याम्यां दिशि गतो वायुर्वाति सुखावहः ॥६२॥
अद्यापि कारणात्सोऽयं सुगन्धो मृदुशीतलः ।
अपश्यत्तत्र मदनः सूर्यकोटिमिवोदितम् ॥६३॥
सहस्रनयनं देवं सहस्रतनुमीश्वरम् ।
नीलकण्ठं सुधाभासं शुभ्रखण्डेन्दुधारिणम् ॥६४॥
जगदुत्पत्तिसंहारस्थित्यनुग्रहकारिणम् ।
शुद्धस्फटिकसंकाशं विधूममिव पावकम् ॥६५॥
रुण्डमालाचितं देवं सूर्यमालाविभूषितम् ।
अनौपभ्यमसादृश्यमप्रमेयमनाकुलम् ॥६६॥
जगच्चक्षुर्जगब्दाहुं जगच्छीर्षं जगन्मयम् ।
जगत्पादं जगच्छ्रोत्रं सूक्ष्मस्थूलं परात्परम् ॥६७॥
रुद्रं शर्वं पशुपतिमुग्रं भीमं भवं द्विजाः ।
महादेवं महेशानमष्टमूर्तिं जगत्पतिम् ॥६८॥
व्यक्ताब्यक्तं त्रिलोकेशं पूजितं च सुरासुरैः ।
अथ दृष्ट्वा महादेवं प्रहृष्टो मकरध्वजः ॥६९॥
निकृष्य चापमापूर्य स्थितः पश्यन्भवोद्भवम् ।
एवं स्थितस्य कामस्य सहस्राण्ययुतानि षट ॥७०॥
गतानि तस्य वर्षाणि मुनीन्द्राश्चित्तजन्मनः ।
ततः स भगवान्देवो नेत्रे उन्मील्य शंकरः ॥७१॥
अपश्याद्गिरिजां देवीमग्रे विश्वेश्वरः शिवः ।
+ गिरीन्द्रपुत्री तपसः ( सि ) प्रसक्तां लज्जयाऽन्विताम् ॥७२॥
दृष्ट्वा किमत्रेति विकल्पबुद्ध्या कामोऽयमत्रेति विचिन्त्य शर्वः ।
ज्ञात्वा विलोक्य प्रविकृष्टचापं नेत्राग्निनाऽसौ मदनोऽपि दग्धः ॥७३॥२९९७॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे मदनदहनंनाम त्रिपञ्चाशोऽध्यायः ॥५३॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP