सौरपुराणं - अध्यायः ४९
सौरपुराणं व्यासकृतम् ।
ऋषय ऊचु -
पाबत्याः श्रोतुमिच्छामो माहात्म्यं रोमहर्षण ।
जघान सा यथा दैत्यान्रक्तासुरपुरोगमान् ॥१॥
सूत उवाच -
प्रणिपत्य महादेवीं शंकरार्धशरीरिणीम् ।
महेन्द्राणीश्वरनुतां भक्तानुग्रहकारिजीम् ॥२॥
एकाक्षरीति विख्याता ब्राह्मी दाक्षायणीति या ।
उमा हैमवती दुर्गा सती माता महेश्वरी ॥३॥
आर्याऽम्बिका मृडानी च चण्डी नारायणी शिवा ।
महालक्ष्मीर्जगन्माता कालिका मेनकात्मजा ॥४॥
नानारूपधरा सैवमवतीर्यैव पार्वती ।
धर्मसंस्थापनार्थाय निघ्नती दैत्यदानवान् ॥५॥
परमात्मा यथा रुद्र एकोऽपि बहुधा स्थितः ।
प्रयोजनवशाद्देवी सैकाऽपि बहुधा भवेत् ॥६॥
आसीद्रक्तासुरो नाम महिष्यस्य सुतो बली ।
महामायो महाबाहुर्हिरण्याक्ष इवापरः ॥७॥
स विजित्य सुरान्सर्वान्विष्ण्विन्द्राग्निपुरोगमान् ।
त्रैलोक्येऽस्मिन्निरातङ्कश्चक्रे राज्यं प्रतापवान् ॥८॥
तस्यैते मनित्रिणश्चाऽऽसन्रुद्रात्मानो मदोत्कटाः ।
* ( घङसंज्ञितपुस्तकयोर्मध्ये त्रयस्त्रिंशदित्यारभ्य, महाबला इत्यन्तं शब्दजातं नास्ति । )
* त्रयस्त्रिंशद्द्विजश्रेष्ठाः सहस्राक्षौहिणीयुताः ॥९॥
सिंहस्कन्धा महाकाया दुरात्मानो महाबलाः ।
धूम्राक्षो भीमदंष्ट्रश्च कालपाशो महाहनुः ॥१०॥
ब्रह्मघ्नो यज्ञकोपश्च स्त्रीघ्नो बालघ्न एव च ।
X ( झसंज्ञितपुस्तके विद्युन्मालीत्यारभ्य, एव चेत्यन्तं शब्दजातं नास्ति । )
X विद्युन्माली च बन्धूकः शङ्कुकर्णो बिभावसुः ॥११॥
देवान्तको विधर्मश्च दुर्भिक्षः क्रूर एव च ।
हयग्रीवोऽश्चकर्णश्च केतुमान्वृषभो गजः ॥१२॥
शलभः शरभो व्याघ्रो निकुम्भो मणिको बकः ।
सूर्यको विक्षुरो माली कालो दण्डश्च केरलः ॥१३॥
स कदाचित्समासीनो दैत्यकोटीसमावृतः ।
सदस्यथाब्रवीद्दैत्यान्दानवान्सनरांस्तथा ॥१४॥
मां यजध्वं स्तुवध्वं च पूज्योऽहं भवतां सदा ।
यस्तु देवान्समातिष्ठेत्स गच्छेद्वध्यतां मम ॥१५॥
दानयज्ञोपवासांश्च त्यक्त्वा देवर्षिदर्शितान् ।
प्रत्यक्षसौख्यान्भुञ्जीध्वं यथेष्टं सुरयोषितः ॥१६॥
इति दैत्येन्द्रवाक्येण नष्टा यज्ञक्रियास्तदा ।
नाधीयन्ते तदा वेदा न पूज्यन्ते च देवताः ॥१७॥
उत्सवा न प्रवर्तन्ते सर्वमासीत्तदाऽऽसुरम् ।
धर्महीनस्ततो लोको म्लेच्छाकुल इवाभवत् ॥१८॥
धर्मनाशात्सुरेन्द्रस्य बलहानिरजायत ।
ज्ञात्वा हीनबलं शक्रं दानवास्तं समाद्रवन् ॥१९॥
सोऽभिभूतोऽसुरैर्गाढं त्यक्त्वा राज्यं च देवराट् ।
बृहस्पतिमुपागम्य वाक्यमेतदुवाच ह ॥२०॥
रक्तासुराभ्यनुज्ञाता दैत्याः कोटिसहस्रशः ।
आबाधन्ते स्म सर्वत्र मद्वधार्थं न संशयः ॥२१॥
न स्थातुमत्र शक्नोमि न गन्तुं तैस्त्वभिद्रुतः ।
सर्वथा योद्धुमिच्छामि यद्भाव्यं तद्भपिष्यति ॥२२॥
नश्यतो युध्यतो वाऽपि तावद्भवति जीवितम् ।
यावत्प्रमार्ष्टि न विधिर्भालेऽस्य लिखिताक्षरम् ॥२३॥
जयमाशंस मे ब्रह्मन्योत्स्येऽहमरिभिः सह ।
मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् ॥२४॥
धिक्तस्य जीवितं पुंसः शत्रूणामाततायिनाम् ।
अपकर्तुमशक्तो यो जीवामीत्यधिगच्छति ॥२५॥
कर्मायत्तं किलैश्वर्यं मदायत्तं च पौरुषम् ।
तस्मायुद्धं करिष्यामि ध्रुवं श्रेयो भविष्यति ॥२६॥
श्रुत्वैवं भगवद्वाक्यं वाचस्पतिरथाब्रवीत् ।
न कालो विग्रहस्याद्यं किं कोपेन शचीपते ॥२७॥
न च खेदस्त्वया कार्यः कार्याणां गतिरीट्टशी ।
दैवाद्भवन्ति भूतानां संपदो विपदोऽपि वा ॥२८॥
स्वशक्तिं परशक्तिं च षाड्गुण्यविदुदारधीः ।
देशकालबलोपेताञ्ज्ञात्वा विग्रहमाचरेत् ॥२९॥
देशकालविहीनानि कर्माणि विपरीतवत् ।
क्रियमाणानि दुष्यन्ति हविरप्रयतेष्विव ॥३०॥
सम्यग्विज्ञातशास्त्रार्थो राजा विजयमाचरेत् ।
सप्ताङ्गराज्यत्राणं च बुद्ध्वा वाऽरिविनिग्रहम् ॥३१॥
कुर्यादेवान्यथा नाशमुपयाति शचीपते ।
विश्वासयति भूतानि न च विश्वसते क्कचित् ॥३२॥
छिद्रेषु योऽन्वियाच्छत्रुं स राज्यं महदश्नुते ।
सांप्रतं बद्धमूलोऽसौ त्वं दैवानवलोकितः ॥३३॥
अतो युद्धावकाशं ते न पश्यामि शतक्रतो ।
मत्सहायाश्च ये शूराः शक्तिमन्तो निरुत्सुकाः ॥३४॥
दुर्धर्षानपि ते शत्रूञ्जयन्त्येव सदा नृपाः ।
पुरोधसैवमुक्तस्तु पुनराह पुरंदरः ॥३५॥
अभोभूतो भृशं दैत्यैर्नाहं जीवितुमत्सहे ।
शत्रुभिवंर्तमानस्य मूर्खस्य स्त्रीजितस्य च ॥३६॥
व्याधितस्य दरिद्रास्य श्रेयो मृत्युर्न जीवितम् ।
किमत्र बहुनोक्तेन योत्स्येऽहं दानवै सह ॥३७॥
नृणां कर्मसमारम्भे श्रेयसी ह्येकचित्तता ।
गुणदोषावुभावेतावेकीकृत्य विचक्षणः ॥३८॥
कार्यमारभते यस्तु तस्य दोषाः पराड्मुखाः ।
तावद्भयस्य भेतब्यं यावद्भयमनागतम् ॥३९॥
आगतं तु भयं दृष्ट्वा योद्धव्यं वाऽष्यभीरुवत् ।
मृतस्य जीवतो वाऽपि नरस्येह प्रयुध्यतः ॥४०॥
श्रेय एव महर्धिः स्यात्तस्माद्योत्स्याम्यहं परैः ।
तयोः संवदतोरेवं ब्रह्माऽऽगत्येदमब्रवीत् ॥४१॥
मा विषादं कृथाः शक्र शरणं व्रज पार्वतीम् ।
या जघ्ने महिषं दैत्यं रुरुं चित्रासुरं तथा ॥४२॥
सद्यो रक्तासुरं हत्वा स्वं राज्यं ते प्रदास्यति ।
एवमुक्त्वा हरिं ब्रह्मा तत्रैवान्तरधीयत ॥४३॥
शक्रोऽपि त्रिदशैः सार्धं जगाम हिमवद्गिरिम् ।
स तत्र गत्वा शर्वाणीं निर्भयो विगतज्वरः ॥४४॥
स्तोत्रेणानेन तुष्टाव शिवां शंकरवल्लभाम् ।
शक्र उवाच -
जयाक्षरे जयानन्ते जयाव्यक्ते निरामये ॥४५॥
जय देवि महामाये जय त्रिदशवन्दिते ।
जय भद्रे विदेहस्थे जयाऽऽद्यं त्रिगुणात्मिके ॥४६॥
जय विश्वंभरे गङ्गे जय सर्वार्थासिद्धिदे ।
जय ब्रह्माणि कौमारि जय नारायणीश्वरि ॥४७॥
जय बाराहि चामुण्डे जयेन्द्राणि महेश्वरि ।
जय मातर्महालक्ष्मि जय पार्वति सर्वगे ॥४८॥
जय देवि जगज्ज्येष्ठे जयैरावति भारति ।
मृगावति जयानन्ते तेजोवति जयामले ॥४९॥
जयेशानि शिषे सर्वे जय नित्ये जयार्चिते ।
मोक्षदे जय सर्वज्ञे जय धर्मार्थकामदे ॥५०॥
जय गायत्रि कल्याणि जय संध्ये विभावरि ।
जय दुर्गे महाकालि शिवदूति जयाजये ॥५१॥
जय दण्डमहामुण्डे जय नन्दे शिवप्रिये ।
जय क्षेमंकरि शिवे जय भ्रामणि रेवति ॥५२॥
जयोमे साध्वि मङ्गल्ये हरसिद्धे नमोऽस्तु ते ।
जयाऽऽनन्दे महावर्णे महिषासुरघातिनि ॥५३॥
जयानघे विशालाक्षि जयानङ्गे सरस्वति ।
जयाशेषगुणावासे जय वृत्रासुरान्तके ॥५४॥
जय योगेशि संकल्पे जय त्रैलोक्यसुन्दरि ।
जय शुम्भनिशुम्भध्ने जय पद्मेन्दुसंभवे ॥५५॥
जय कौशिकि कौमारि जय वारुणि कामदे ।
नमो नमस्ते शर्वाणि भूयो भूयो जयाम्बिकि ॥५६॥
त्राहि नस्त्राहि नो देवि शरआण्गतवत्सले ।
य इमां कीर्तयिष्यति जयमालां भवानि ते ॥५७॥
त्रिविधैरपि दुःखौर्घैर्मुच्यन्ते परमेश्वरि ।
सर्वपापविनिर्मुक्ताः सर्वैश्वर्यसमन्विताः ॥५८॥
भान्ति लोके तथाऽऽदित्याः सर्वरोगविवर्जिताः ।
देहावसाने तेऽवश्यं पश्यन्त्येव हि पार्ततीम् ॥५९॥
नेन्द्रियाणां विकलता यथाऽन्येषां भवेन्नृणाम् ।
देवींलोकं गमिष्यन्ति स्कन्दलोकोपरि स्थितम् ॥६०॥
पुनरावृत्तिरहितं स्तोत्रजाप्यन्न संशयः ।
सूत उवाच -
सैवं स्तुता भगवती महेन्द्रेणाथ पार्वती ।
आत्मानं दर्शयामास सर्वालंकरणान्वितम् ॥६१॥
नमस्कृत्याथ तामूचुः सुरास्ते भयनाशिनीम् ।
हत्वा रक्तासुरं दैत्यं पाहि नो महतो भयात् ॥६२॥
तेषां तद्वचनं श्रुत्वा दत्त्वा तेभ्योऽभयं ततः ।
बभूवाद्भुतरूपा सा त्रिनेत्रा चन्द्रशेखरा ॥६३॥
सिंहारूढा महादेवी नानाशस्त्रास्त्रधारिणीं ।
सुवक्त्रा विंशतिभुजा स्फूर्जद्विद्युल्लतोपमा ॥६४॥
ततोऽम्बिका ननादौच्चेः साट्टहासं मुहुर्मुहः ।
तस्या नादेन घोरेण कृत्स्नमापूरितं जगत् ॥६५॥
प्रकम्पिताऽखिला चोर्वी तदा वारिधिमेखला ।
शैलोत्तुङ्गस्तनी रभ्या प्रमदेव भयातुरा ॥६६॥
तेऽपि तत्रासुराः प्राप्ताश्चतुरङ्गवलोत्कटाः ।
सभ्यग्विदितवृत्तान्ताः कालान्तकयमोपमाः ॥६७॥
रक्षोदानवदैत्याश्च पातालेष्वपि ये स्थिता ।
ते सर्व एव दैत्येन्द्रं कोटिशरतमुपागताः ॥६८॥
देवारयस्तदा सर्वे संनद्धाश्चोच्छ्रितध्वजाः ।
पालिता दानवेन्द्रेण नानाशस्त्रास्त्रपाणयः ॥६९॥
तमालालिकुलाभासा जीमूतध्वनिनिःस्वनाः ।
युगान्तमिव कुर्वाणा नानालंकारभूषिताः ॥७०॥
गजघण्टारवैश्चोर्गैर्हयानामथ हेषितैः ।
सिंहनादैश्च शूराणां शस्त्राणां क्कणितेन च ॥७१॥
रथनेमिनिनादैश्च कम्पयन्तो वसुंधराम् ।
ततस्ते दानवाः सर्वे देवीं दृष्ट्वा प्रहर्षिताः ॥७२॥
आस्फोटयन्तः पटहान्भेरीजर्जरिणीमुखान् ।
अनेकान्वादमन्तोऽन्ये शङ्खरमरुडिण्डिमान् ॥७३॥
मनोजयैर्हयैर्जात्यैगंजैश्चाचलसंनिभैः ।
अन्यैर्विचित्रैरारूढा विरेजुर्दैत्यपुंगवाः ॥७४॥
एवंविधे समाजे तां भवानीं त्रिदशारयः ।
सर्व एव समाजघ्नुः शर्वाणीं सर्वतोमुखीम् ॥७५॥
वाणिर्नानाविधैर्घोरैर्यमदन्डोपमैः शितैः ।
कुठारचक्रपरशुमुसलाङ्कुशलाङ्गलैः ॥७६॥
पाशतोमरशूलैश्च दण्डपट्टिशमुद्गरैः ।
परिघप्रासशक्त्त्यृष्टिशतध्रीकण(पाद)पोपलैः ॥७७॥
आयोगुडैर्भृशुण्डीभिश्चक्रकुन्तगदादिभिः ।
छादयन्तो महादेवीं सिंहनादान्विनेदिरे ॥७८॥
सा हन्यमाना रोषेण जज्वाल समरेऽम्बिका ।
अग्रसत्साऽथं शर्वाणी शस्त्रास्त्राणि सुरद्विषाम् ॥७९॥
शैलेन्द्रतनया देवी स्तूयमाना सुरर्षिभिः ।
युयुधे दानवैः सार्धं महासमरदुर्दिने ॥८०॥
ते हन्यमानाः पार्वत्या तामेवाभिप्रद्रुदुवुः ।
परिपूर्णे यथा काले शलभा जातवेदसम् ॥८१॥
सैका प्रद्रवतां तेषां बहूनामाततायिनाम् ।
दधार वेगं सर्वेषां मरुतामिव पर्वतः ॥८२॥
पार्वतीशस्रनिर्भिन्ना दैत्यास्ते क्षतजेक्षणाः ।
आलिङ्ग्य शेरते क्षोणीं रते कान्तामिव प्रियाम् ॥८३॥
मण्डलीकृतकोदण्डां ददृशुश्चाम्भिकां तदा ।
मृत्युजिह्वोदिताकारां प्राणकर्षणतत्पराम् ॥८४॥
जघ्नुस्ते कोटिशो दैत्याः पार्वतीं समराङ्गणे ।
हुंकारेण निनादेन पातयन्ती सहस्रशः ॥८५॥
प्नचिच्छेद रणेऽरीणां शिरांसि निशितैः शरैः ।
देवीकामुंकनिर्मुक्तैर्दिव्यैर्नानाविधैः शरैः ॥८६॥
दह्यन्तेऽसुरसैन्यानि तृणानीव दवाग्निना ।
सिंहवेगानिलोद्धूतांश्चूर्णयन्ती महारथान् ॥८७॥
ववर्ष शरवर्षाणि युगान्ताम्बुदसंनिभान् ।
गजवाजिरथानां च द्रवतां पततां तथा ॥८८॥
दैत्येन्द्राणां च भारेण श्वसतीव वसुंधरा ।
समुत्थितं रजो घोरं संस्पृश्यार्केन्दुमण्डलम् ॥८९॥
गजाश्चदैत्यरक्तौधैः प्रशान्तिमगमत्ततः ।
प्रावर्तत नदी तत्र शोणितोदतरङ्गिणी ॥९०॥
हयमत्स्या गजग्राहा चर्मकूर्मास्थिसंकुला ।
महारथमहावर्ता पताकाछत्रफेनिला ॥९१॥
वहन्ती यमलोकान्तं दैत्यासुरतटद्रुमान् ।
तद्बलं च वभौ शीघ्रं शस्त्रास्त्रक्षतकंधरम् ॥९२॥
गलद्रुधिरफेनौघं घूर्णितार्णवसंनिभम् ।
वध्यमानं स्वकं सैन्यं दृष्ट्वा देव्याश्च विक्रमम् ॥९३॥
रक्तासुरोऽभ्युवाचेंद सैनिकाञ्जातविस्मयः ।
हन्यतां हन्यतां शीघ्रं भवानी कालसंनिभा ॥९४॥
परिवृत्य रथैर्नागहंयश्चैव पदातिभिः ।
दानवेश्वरवाक्येण ततस्ते तस्य सैनिकाः ॥९५॥
त्यक्त्वाऽऽत्मानं महात्मानो देवीमापुर्बलान्विताः ।
धूम्राक्षप्रमुखा धीराः षोडशैव महारथाः ॥९६॥
शरशक्तिगदाशूलैस्ताडयन्तोऽम्बिकां रणे ।
श्वसन्त इव नागेन्द्राः प्रज्वलन्त इवाग्नयः ॥९७॥
जृम्भन्त इव शार्दूलाः गर्जन्त इव तोयदा ।
युयुधुस्ते स्थिरीभूता विविधायुधयोधिनः ॥९८॥
नृत्यन्तीव च रुद्राणी नूनं भाति महाहवे ।
पार्वती चण्डकोडण्डनादापूरितदिड्मुखी ॥९९॥
पट्टीशाभिहतान्कांश्चिन्मुसलोन्मथितांस्तथा ।
सारोहान्पातयामास गजानश्वांश्च कोटिशः ॥१००॥
कालपाशशिरच्छित्त्वा सार्धचन्द्रेण भासुरम् ।
गदया प्रममाथाऽऽशु देवान्तकमहाहनुम् ॥१०१॥
ब्रह्मध्नस्यासिना कायात्पातयामास चाम्बिका ।
धूम्राक्षं कालदण्डे वज्रेण क्रूरमेव च ॥१०२॥
यज्ञदंष्ट्रं यज्ञक्पों विधर्मं च चमूपतिम्।
रौद्रामन्यांस्त्रिशूलेन जघान परमेश्वरी ॥१०३॥
सशङ्कुकर्णदुर्भिक्षविद्युन्मालिविभावसून् ।
दुर्वारपौरुषांश्चक्रे चक्रेणोत्कृत्तमस्तकान् ॥१०४॥
रक्तासुरानुजौ चोभौ महाबलपराक्रमौ ।
कूष्माण्दशुभकाक्षौ तु जघ्नतुर्मुशलाश्मभिः ॥१०५॥
महाबलौ महाकायौ घोरौ तत्र महासुरौ ।
शरैराशीविषाकारैर्जघानाथ तदा द्विजाः ॥१०६॥
ततः स्त्रीघ्रोऽभ्यधावत्तां दृष्ट्वा तौ विनिपातितौ ।
तमप्यपातयद्भूमौ खड्गेनाभिहतं रुषा ॥१०७॥
घण्टकश्चाथ दैत्येन्द्रो गिरीन्द्रसदृशो बली ।
परिघेणाऽऽयसेनाऽऽजौ देवीं क्रुद्धोऽभ्यताडयत् ॥१०८॥
ततः सपरिघश्चासौ देब्याः करतलाहतः ।
स पपात तदा भूमौ वज्राहत इवाचलः ॥१०९॥
प्रापञ्चिको महाबाहुश्चक्रीकृतशरासनः ।
शक्त्या दग्धतनुत्राणो जगामान्तकमन्दिरम् ॥११०॥
अष्टादशैवं दुर्धर्षान्निहत्यासुरसैनिकान् ।
सानन्दा विननादोश्चैः संवर्तकघनोपमा ॥१११॥
जघान दानवानीकमेकाऽनेकस्वरूपिणी ।
विद्युत्संपातनिह्वादा विद्युत्संपातचञ्चला ॥११२॥
पातयन्ती चचाराऽऽजौ साऽसुरेन्द्रमहाचमुम् ।
तत्रातुलश्च तुमुलो नादो बाध्येषु शत्रुषु ॥११३॥
बभूव येन ब्रह्माण्डमकाण्डाकुलतां ययौ ।
जघानैवं चतुःसप्त त्रिदशौस्त्रिदशद्विषाम् ॥११४॥
अक्षौहिणीसहस्राणि त्रयस्त्रिंशत्सुरेश्वरी ।
एकत्रिंशत्सहर्शाणि शतान्यष्टौ च सप्ततिः ॥११५॥
सानुगानां सयोधानां रथानां वातरंह xम् ।
संख्यैवैषा गजेन्द्राणामक्षौहिण्यां महौजसाम् ॥११६॥
त्रिगुणं चतुरङ्गाणां पञ्च चैव पदातिनाम् ।
क्कचिद्रथस्थिता सैव विविधायुधधारिणी ॥११७॥
जघानासुरसैन्यानि हयहस्तिगता क्कचित् ।
क्कचिच्च महिषारूढा वृषभे च स्थिता क्कचित् ॥११८॥
वेतालैः प्रेतभूतैश्च स्वेच्छासृष्टैर्वृताऽद्भुतैः ॥११९॥
कबन्धनृत्यसंकुले ह्यसृग्वसास्थिकर्दमे
रणाजिरे निशाचरास्ततो विरेजुरूर्जिताः ।
शृगालगुध्रवायसाः परं प्रपानमादधुः
क्वचित्परेतशावकाः प्रतीतशोणिता बभुः ॥१२०॥
क्कचित्पिनाकपाणयः पिशाचयक्षराक्षसाः
प्रतर्प्य चासृजा पितृन्समर्चयन्नथाऽऽमिषैः ।
गजान्नरांस्तुरङ्गमान्प्रभक्षयन्ति निर्घृणा -
स्तदोडुपैस्तथाऽपरे तरन्ति शोणितापगाम् ॥१२१॥
इति प्रगाडसंगरे सुरारिसंघसंकुले
विराजतेऽम्बिका धनुःशरासिशूलधारिणी ।
गजेन्द्रवृन्दमर्दिनी तुरङ्गयूथपोथिनी
महारथौघघातिनी सुरारिसैन्यनाशिनी ॥१२२॥
ततश्चीण्डकाचण्डकोदण्डमुक्तैर्दिबाहारिणां कोटयोऽष्टौ तथाऽष्टौ ।
हताः पट्टिशै राक्षसानां च लक्षास्त्रयस्त्रिंशदष्टादशैषात्र कोट्यः ॥१२३॥
ततो दानवेन्द्रं रणे तर्जयन्ती विलासोल्लसद्बाहुविन्यस्तशस्त्रा ।
ननर्ताप्रगेयप्रभावा भवानी महेन्द्रादिदेवान्मुदा हर्षयन्ती ॥१२४॥
हयग्रीयमुख्याः पुनर्दैत्यसंघा दर्शवावशिष्टा महारौद्ररूपाः ।
नमस्कृत्य रक्तासुरं तेऽऽभ्यधावन्रणे पार्वतीं ताडयन्तोऽस्त्रपूगैः ॥१२५॥
समुद्धृत्य नेत्राणि किंचिद्धसन्तो द्विषत्सैन्यसंघानि सा संहरन्ती ।
न्यमुञ्चत्ततोऽस्त्राणि दिव्यानि देवी नदत्स्वार्यतूर्येषू खेऽनन्तसत्त्वा ॥१२६॥
ततो गिरीन्द्रजाऽरीणां चक्रे सैन्यानि भस्मसात् ।
रक्तासुरमथाभ्येत्य शस्त्रास्त्रधृतपाणिनम् (?) ॥१२७॥
पादाक्रान्त्यानतभुवं संक्षोभितजगत्त्रयम् ।
मण्डलीकृतकोदण्डं गर्जन्तं कालमेघवत् ॥१२८॥
शरवर्षाणि मुञ्चन्तं पार्वती तमुवाच ह ।
कृत्वोपतापं देवानां जीवन्क्काद्य गमिष्यसि ॥१२९॥
दुष्टेत्युक्त्वाऽथ सा देवी शूलेनाभिहनद्धृदि ।
संभिन्नहृदयो दैत्यो मूर्तिं चक्रे सुदारुणाम् ॥१३०॥
रक्तबिन्दुसमो दैत्यो दैवीं व्यामोहयन्निव ।
जगामानेकरूपोऽसौ निहतोऽम्बिकया रणे ॥१३१॥
रक्तासुरोऽपि निधनं गत्वा त्रिदशकण्टकः ।
पपात मुनिशार्दूलाः प्रज्वलज्ज्वलनोपमः ॥१३२॥
हाहाकारं प्रकुर्वाणा दैत्यास्तेऽथ प्रदुदुबुः ।
केचिच्छिष्टा भयत्रस्ता विसृष्टायुधजीविताः ॥१३३॥
केचित्समुद्रं विविशुरन्द्रीन्केचिच्च दानवाः ।
केचिल्लुञ्चितमूर्धानो नग्ना भूत्वा वनेऽवसन् ॥१३४॥
दयाधर्मं ब्रुवाणाश्च निर्गन्थव्रतमाश्रिताः ।
केचित्प्राणपरा भीताः पाखड्णव्रत्माश्रिताः ॥१३५॥
हेतुवादपरा मूढा निःशौचा निरपेक्षकाः ।
असुरस्य जनस्यैते क्षषणा इव लक्षिताः ॥१३६॥
ते चाद्यापीह दृश्यन्ते लोके क्षषणकाः किल ।
अर्हन्तश्च तथैवान्ये शिवशास्त्रबहिष्कृताः ॥१३७॥
मन्त्रौषधप्रयोगेश्च जनवञ्चनकारकाः ।
समुत्पत्स्यन्ति दैत्याश्च घोरेऽस्मिन्वै कलौ युगे ॥१३८॥
शिवोक्तं कर्मयोगं च द्विषन्तश्च कुयुक्तिभिः ।
देव्याः क्रोधाग्निना दग्धा वेदमार्गविनिन्दकाः ॥१३९॥
शास्यन्ते नरकाग्नौ ते निःशेषाः पापकर्भिणः ।
न दृष्टा निष्कृतिस्तेषां शास्त्रेषु परगर्पिभिः ॥१४०॥
रराजाचिन्त्यमाहात्म्या चिद्रूपा परमेश्वरी ।
हत्वाऽरिं जगदैश्वर्यं दत्त्वा नमुचिशत्रवे ॥१४१॥
जगामादर्शनं देवी व्यक्ताव्यक्तस्वरूपिणी ।
* ( कधसंज्ञितपुस्तकथोरिदं श्लोकार्यं न दृश्यते । )
* शक्रोऽपि तां प्रणम्याथ सर्वज्ञां विश्वरूपिणीम् ॥१४२॥
प्रययौ विबुधैः सार्धं स्वां पूरीममरावतीम् ॥१४३॥२७८७॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे रक्तासरवधकथनं नामैकोनपञ्चाशोऽध्यायः ॥४९॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP