सौरपुराणं - अध्यायः ५१
सौरपुराणं व्यासकृतम् ।
ऋषय ऊचु -
तिथीनां निर्णयं सूत प्रायश्चित्तविधिं तथा ।
वक्तुमर्हसि चास्माकं ब्यासशिष्य महामते ॥१॥
सूत उवाच -
शृणुध्वमृषयः सर्वे तिथीनां निर्णयं परम् ।
अनिर्णीतासु तिथिषु न किंचित्कर्म सिध्यति ॥२॥
श्रौतं स्मार्तं व्रतं दानं यच्चान्यत्कर्म वैद्कम् ।
निर्णीतासु तिथिष्वेव कर्म कुर्वीत नान्यथा ॥३॥
प्रायः प्रान्तमुपोष्यं स्यात्तिथेदैवफलेप्सुभिः ।
मूलं हि पितृतुष्ट्यर्थं पित्र्यं चोक्तं महर्षिभिः ॥४॥
यां प्रपयास्त्मुपैत्यर्कः सा चेत्स्यात्त्रिमुहूर्तिका ।
धर्मकृतेषु सर्वेषु संपूर्णां तां विदुस्तिथिम् ॥५॥
क्षये पूर्वां प्रकर्तव्या ब्रुद्धौ कार्या तथोत्तरा ।
तिथेस्तस्यास्त्रिक्षणायाः क्षयवृद्धित्वकारणम् ॥६॥
अष्टभ्येकादशी षष्ठी तृतीया च चतुर्दशी ।
कर्तव्याः परसंयुक्ता अपराः पूर्वमिश्रिताः ॥७॥
* ( घसंज्ञितपुस्तके एष श्लोको नास्ति । )
* बृहत्तपा तथा रम्भा सावित्री वटपैतृकी ।
कृष्णाष्टमी च मूता च कर्तव्या संमुखी तिथिः ॥८॥
शुक्ले द्वे द्वे तथा कृष्णे युगादी कवयो विदुः ।
शुक्ले पूर्वाहिणके कार्ये कृष्णे चैवापराह्णिके ॥९॥
नागविद्धा तु या षष्ठी शिवविद्धा तु सप्तमी ।
दशम्यैकादशी विद्धा नोपोष्यैव कथंचन ॥१०॥
ज्ञात्वैवं सूर्यचन्द्राभ्यां तिथिं स्फुटतरं व्रती ।
एकादशी तृतीयां च षष्ठीं चोपवसेत्सदा ॥११॥
फलमेकादशी हन्ति विहितं दशमीयुता ।
पारणं तु त्रयोदश्यामुल्लङ्घ्य द्वादशीव्रतम् ॥१२॥
पारणाहे न लभ्येत द्वादशी सकलाऽपि चेत् ।
तदानीं दशमीविद्धा ह्युपोष्यैकादशी तिथिः ॥१३॥
शुक्ले वा यदि वा कृष्णे भवेदेकादशीद्वयम् ।
उत्तरां तु यतिः कुर्यात्पूर्वामेव सदा गृही ॥१४॥
दर्शं च पौर्णमासं च सप्तमीं पितृवासरम् ।
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥१५॥
सिनीवाली द्विजैर्ग्राह्या साग्निकैः श्राद्धकर्मणि ।
कुहूः स्त्रीभिस्तथा शूद्रैरपि चान्यैरनग्निकैः ॥१६॥
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।
निशाव्रतेषु च ग्राह्या प्रदोषव्यापिनी सदा ॥१७॥
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।
यच्च वा युज्यते विप्राः प्रदोषे हिमरश्मिना ॥१८॥
अर्वाक्षोडश नाड्यस्तु परतश्चैव षोडश ।
पुण्यकालोऽर्कसंक्रान्तौ स्नानदानजपादिषु ॥१९॥
आसन्नसंक्रमं पुण्यं दिनार्धं स्नानदानयोः ।
रात्रौ संक्रमणे भानोर्विषुवत्ययने दिने ॥२०॥
सूर्येन्द्रुग्रहणं यावत्तावत्कुर्याज्जपादिकम् ।
न स्वप्यान्न च भुञ्जीत स्त्रात्वा भुञ्जीत मुक्तयोः ॥२१॥
आदित्यशीतकिरणौ ग्रस्तावस्तं गतौ यदा ।
दृष्ट्वा तदाऽन्यदिवसे स्नात्वा भुञ्जीत वाग्यतः ॥२२॥
सूतके मृतके वाऽपि नोपवासं त्यजेद्व्रती ।
यस्माद्भग्नव्रतोऽतीव गर्हितो वेदवादिभिः ॥२३॥
तस्मात्प्रमाददुःखे वा सूतके व्यसनेऽपि च ।
स्नात्वा कार्यं व्रतं विप्रा अन्यथा व्रतलोपभाक् ॥२४॥
देवार्चनादिकं कर्म कार्यं दीक्षान्वितैः सदा ।
नास्ति शावं यतस्तेषां सूतकं च यदात्मनाम् ॥२५॥
शिवे देवार्चनं यस्य यस्य वाऽग्निपरिग्रहः ।
ब्रह्मचारियतीनां च शरीरे नास्ति सूतकम् ॥२६॥
महच्छब्दप्रयुक्ता या या च सोपपदा तिथिः ।
साऽमावास्यासमा ज्ञेया दानाध्ययनकर्मसु ॥२७॥
मार्गा ह्यपरपक्षे तु पूर्वमध्या तु शब्दिता ।
स्युश्चतुरष्टकास्तिस्रः सप्तमादिष्वनुक्रमात् ॥२८॥
माघे पञ्चदशी कृष्णा नभस्ये च त्रयोदशी ।
तृतीया माधवे शुक्ला नवमी कार्तिके सिता ॥२९॥
एता युगादयः प्रोक्ताः सर्वाश्चाक्षयपुण्यदाः ।
सिंहवृश्चिकयोः कुम्भसंक्रान्तिषु (!) भवन्त्युत ॥३०॥
क्रमात्कृतयुगादीनां युगान्ताश्च महर्षयः ।
श्राद्धपक्षे त्रयोदश्यां मघास्विन्दुः करे रविः ॥३१॥
यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ।
धनुक्वीमीनयुग्माङ्काः षडशीतिमुखाः स्मृताः ॥३२॥
अश्वयुक्शुक्लनवमी द्वादशी कार्तिके सिता ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥३३॥
फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा ।
आषाढस्यापि दशमी माधमासस्य सप्तमी ॥३४॥
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ।
कार्तिकी फाल्गुनी चैव ज्येष्ठे पञ्चदशी सिता ॥३५॥
मन्वन्तरादयश्चैता दत्तस्याक्षयकारिकाः ।
संक्रान्तयस्तथा पुण्या भास्वतो द्वादशैव हि ॥३६॥
पर्वस्वेतेषु दानानि धेनुशैलादिकानि च ।
प्रयच्छन्ति द्विजेन्द्रेभ्यो लभन्ते चाक्षयां गतिम् ॥३७॥
पानीयमप्येषु तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदन्ति ॥३८॥२८५२॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे तिथिनिर्णयादिकथनं नामैकषञ्चाशोऽध्यायः ॥५१॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP