सौरपुराणं - अध्यायः २८
सौरपुराणं व्यासकृतम् ।
सूत उवाच -
स्वयंभुवा समादिष्टः पूर्वं दक्षः प्रजापतिः ।
प्रजा सृजेति सर्गादौ ससर्ज च सुरासुरान् ॥१॥
प्रजापतेर्वीरणस्य कन्याऽसिक्रीति विश्रुता ।
षष्टिं दक्षोऽसृजत्कन्या असिक्न्यां वै प्रजापतिः ॥२॥
ददौ च दश धर्माय कश्यपाय त्रयोदश ।
सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥३॥
द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते ।
द्वे चैवाङ्गिरसे तद्वद्ददौ दशः प्रजापतिः ॥४॥
साध्या विश्वा च संकल्पा मुहूर्ता च ह्यरुन्धती ।
मरुत्वती वसुर्भानुर्लम्बा जामीति ता दश ॥५॥
धर्मस्य पत्नयस्त्वेतास्तासां संततिरुच्यते ।
साध्या बभूबः साध्यायां विश्वायां विश्वदेवताः ॥६॥
संकल्पायास्तु संकल्पो मुहूर्तस्तु मुहूर्तजाः ।
अरुन्धत्यास्त्वरुन्धत्यां मरुत्वत्यां मरुत्वतः ॥७॥
वसोस्तु वसवः प्रोक्ता भानोस्ते भानवः स्मृताः ।
लम्बायां घोषनामानो नागवीथीस्तु जामिजाः ॥८॥
ज्योतिष्मन्तस्त्रयो देवा व्यापकाः सर्वतोदिशम् ।
वसवस्ते समाख्याताः सर्वभूतहितैषिणः ॥९॥
आपो नलश्च सोमश्च ध्रुवश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥१०॥
ध्रुवस्य पुत्रः कालः स्यात्सर्वलोकभयंकरः ।
विश्वकर्मा प्रभासस्य धर्मस्यैषा तु संततिः ॥११॥
आदितिश्च दितिश्चैव दनुरित्यपरा मता ।
अरिष्टा सुरसा प्रोक्ता स्वस्धा सुरभिरेव च ॥१२॥
विनता च तथा ताम्ना कद्रूः क्रोधवशा त्विरा ।
मुनेश्च पत्नयस्त्वेताः कश्यपस्य द्विजोत्तमाः ॥१३॥
अशुर्धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा ।
त्रिवस्वान्सविता पूषा अंशुमान्विष्णुरेव च ॥१४॥
तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः ।
आदित्या अदितेः पुत्राः प्रोक्ता वैवस्वतेऽन्तरे ॥१५॥
पुत्रद्वयं दितिः सूते कश्यपान्मुनिपुंगवात् ।
हिरण्यकशिपुं त्वेकं हिरण्याक्षमनन्तरम् ॥१६॥
हिरण्यकशिपुर्योऽसौ ब्रह्मणो वरदर्पितः ।
शक्राद्या देवताः सर्वास्तेन दैत्येन बाधिताः ॥१७॥
ब्रह्माणं शरणं गत्वा प्रोचुः प्राञ्जलयः सुराः ।
देवा उचु -
देवदेव जगन्नाथ चतुर्मुख सुरोत्तम ॥१८॥
हिरण्यकेन दैत्येन शस्त्रास्त्रैः सूदिता वयम् ।
दाराश्चापहृतास्तेन वज्रादीन्यायुधानि च ॥१९॥
त्रायस्वास्मान्भयत्रस्ताञ्शरणं नान्यदस्ति नः ।
एवं सुरैर्निगदितं श्रुत्वा चैव पितामहः ॥२०॥
देवैः सह ययौ तूर्णं यत्राऽऽस्ते विष्णुरव्ययः ।
संस्तूय विविधैः स्तोत्रैरब्रवीत्कमलासनः ॥२१॥
ब्रह्मोबाच -
हिरण्यकशिपुर्देव मद्वरेणातिगर्वितः ।
बाधते सकलान्देवान्मुनीन्निर्धूतकल्मषान् ॥२२॥
यस्तं हनिष्यति क्षिप्रं न तं पश्यामि माधव ।
त्वमेव हन्ता तस्येति मत्वा वयमुपागताः ॥२३॥
हनुत्मर्हसि तं शीघ्रं देवानां कार्यसिद्धये ।
श्रुत्वा नारायणो वाक्यमीरितं त्रिदिवौकसाम् ॥२४॥
नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ।
नृसिंहरूपी भगवान्हिरण्यकशिपोः पुरे ॥२५॥
आविर्वभूव भगवान्देवो नारायणः प्रभुः ।
मुञ्चन्नादं महाघोरमसुराणां भयंकरम् ॥२६॥
हिरण्यकशिपुर्दृष्ट्वा बृसिंहमतिभीषणम् ।
वधाय प्रेषयामास प्रहादादीन्महासुरान् ॥२७॥
मह्लादश्चानुह्लादश्च संह्लादो ह्लाद एव च ।
हिरण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥२८॥
नरसिंहेन ते सार्धं युयुधुर्दानवास्तदा ।
प्रह्लादः प्राहिणोद्ब्राह्ममस्रं तं नरकेसरिम् ॥२९॥
वैष्णवास्त्रमनुह्लादः कौमारं च तथाऽपरः ।
प्राहिणोद्ध्राद आग्नेयं तथा चान्ये महासुराः ॥३०॥
चत्वार्यस्त्राणि संप्राप्य भगवन्तं नृकेसरिम् ।
बभूवुस्तानि भग्नानि यथा वज्राहता दुमाः ॥३१॥
गृहीत्वा चतुरः पुत्रान्हस्ताभ्यां नरकेसरिः ।
चिक्षेप गगनाद्भूमौ गृहीत्वैवं पुनः पुनः ॥३२॥
एवं तान्व्यथितान्दृष्ट्वा हिरण्यैकशिपुः स्वयम् ।
जाज्वल्यमानः कोपेन यथौ यत्र नृकेसरिः ॥३३॥
विनिवृत्तोऽथ सङ्ग्रामात्प्रह्लादो दैत्यराट् ततः ।
ज्ञात्वा तु भगवद्भावं नृसिंहस्यामितौजसः ॥
ध्यात्वा नारायणं देवं वारयामास दानवान् ॥३४॥
एष नारायणो योगी परमात्मा सनातनः ।
ध्यातव्यो न तु योद्धव्यो भवद्भिरिति निश्चितम् ॥३५॥
पुत्रोदितमनादृत्य हिरण्यकशिषुः पुनः ।
युयुधे हरिणा सार्धं यावद्गर्षशतत्रयम् ॥३६॥
अथ विश्वात्मको विष्णुः क्रोधसंरक्तलोचनः ।
नखैर्विदारयामास हिरण्यकशिषुं तदा ॥३७॥१२२८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे सरासुरसृष्ट्यादिकथनं नामाष्टाशोऽध्यायः ॥२८॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP