संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ६० सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ६० सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ६० Translation - भाषांतर सूत उवाच - विवाह्याद्रिसुतां शंभुर्ययौ कैलासपर्वतम् ।क्रीडां वै वर्षसाहस्रीमकरोत्तत्र शंकरः ॥१॥गणैर्नानाविधैश्चैव सिंहास्यैः शरभाननैः ।कैश्चिद्वयाघ्रमुखैर्भीमैः कैश्चिद्गृध्रमुखैरपि ॥२॥कैश्चिद्गजमुखरैन्यैः कैश्चिन्मृगमुखैरपि ।कैश्चिच्चित्रमुखैन्यः कैश्चिवृकयमुखैरपि ॥३॥कैश्चिदुष्टमुखैर्दीर्घैः कैश्चिद्वृकमुखैरपि ।मूपकास्यैस्तथा = चान्यैर्मार्जारवदनेपि ॥४॥सर्पास्यैर्नकुलास्यैश्च जम्बुकास्यैस्तथाऽपरैः ।शिशुमारमुखैश्चान्यैरृक्षवक्त्रैस्तथाऽपरैः ॥५॥X ( इदं श्लोकार्धं चसंज्ञितपुस्तके नास्ति । )X मयूरवदनैरन्यैर्बकवक्त्रैस्तथापरैः ।शाखामृगमुखैश्चान्यैः खरारयैश्च तथाऽपरैः ॥६॥अन्यरैसंख्यैः प्रमथैर्जरामरणवर्जितैः ।नित्यतृप्तैर्निरातङ्कैः कालसंहरणक्षमैः ॥७॥सहस्रकोटिसंख्याकैः स्वच्छन्दगतिचारिभिः ।क्रीडां विधाय भगवान्कैलासे पर्वतोत्तमे ॥८॥तपसा महता शंभुरनुगृह्य च मन्दरम् ।कैलासं संपतित्यज्य मन्दरे चारुकन्दरे ॥९॥तत्रापि रममाणस्य गते वर्षसहस्रके ।देवतानां हितार्थाय प्रकृत्या सह शूलमृत् ॥१०॥प्रक्रीहतीह विश्वात्मा कामासक्तश्च सर्वथा ।प्रार्थितोऽहं सुरैः पूर्वं तारकस्य वधेप्सया ॥११॥मद्गेतसः समुत्षन्नस्तारकं स हनिष्याति ।इति मत्वा महादेवे रममाणे सहोमया ॥१२॥उत्पाताश्च महाघोराः संप्रवृत्ताः सुदारुणाः ।रुधिरास्थीनि वर्षन्तिः नदन्तो मेघसंकुलाः ॥१३॥वायवश्च महावेगाः पर्वतांश्चालयन्ति ते ।विमानानि सुराणां च निपेतुर्वसुधातले ॥१४॥उल्काभिर्गगनं व्याप्तं पतन्तीभिर्द्विजोत्तमाः ।केतवश्चोदिप्ताः सर्वे जृम्भन्त इव पावकाः ॥१५॥दिग्दाहाश्च महाघोरा दावाग्निरिव संक्षये ।मृत्युकाले यथा जन्तुर्नैव सोक्यमवाप्नुयात् ॥१६॥जगत्त्रयमिदं कृत्स्नं न लभेत तथा सुखम् ।न वेदाः पठितास्तस्मिन्न विप्रा जजपुर्जपम् ॥१७॥पार्वत्यां कम्पमानायां कपमाने च शंकरें ।त्रैलोक्यमभवन्नूनं कम्पमानं भयातुरम् ॥१८॥कालाग्निकल्पितो देवो विरञ्चिर्मुनिभिः सह ।चक्त्रायुधोऽपि चात्यर्थमिन्द्राद्यैः परिवारितः ॥१९॥ये केचिद्देवगन्धर्वाः सिद्धा गगनचारिणः ।विद्याधराश्च यक्षाश्च संप्राप्ताश्च वसुंधराम् ॥२०॥एतस्मिन्नन्तरे प्राप्तः शक्रं देवर्षिसत्तमः ।यथावन्मधुपर्काद्यैः शक्रस्तमभ्यपूजयम् ॥२१॥अब्रवीद्देवराजस्तमुपविष्टं महामुनिम् ।त्रिकालदर्शिनं शान्तमात्मनिष्ठं तपोनिधिम् ॥२२॥शक्र उवाच - उत्पाताश्च महाघोराः संप्रवृत्ताः सुदारुणाः ।कारणं वद मे सर्वं शान्तिश्चैव यथा भवेत् ॥२३॥नारद उवाच - उमया सह विश्वेशः परं ज्योतिर्महेश्वरः ।अहर्निशमविश्रान्तं युक्त एव प्रवर्तते ॥२४॥तस्माद्धेतोः प्रवर्तन्त उत्पाता वृत्रहन्किल ।विघ्नं तस्य प्रकर्तव्यं यदीच्छसि परं सुखम् ॥२५॥उमागर्भसमुत्पन्नः सर्वस्मादधिको हि सः ।कथं धारयितुं शक्ता ब्रह्माद्याः ससुरासुराः ॥२६॥जगत्त्रयमिदं कृत्स्नं धरणी धारयिष्यति ।नापत्यधारणे शक्ता संजातं शिवयोः खलु ॥२७॥नारदस्य वचः श्रुत्वा शक्रो विस्मयतां गतः ।तदा चिन्तार्णवे मग्नो देवैः सह पुरंदरः ॥२८॥पङ्के गौरिव सीदत्सु देवेष्वथ जनार्दनः ।उवाच श्लक्ष्णया वाचा देवानां हितकाम्यया ॥२९॥श्रीविष्णुरुवाच - शृणुध्वं देवताः सर्वाः कामासक्तो न शंकरः ।युष्माकं हितकामाय भोगयुक्तोऽभवच्छिवः ॥३०॥स्वतन्त्रशक्तिर्विश्वात्मा जितकामः स्वभावतः ।संपूर्णकामः स विभुः कथं कामेन वाघ्यते ॥३१॥तद्रेतसा समुत्पन्नस्तारकं स वधिष्यति ।एतस्मात्कारणाद्देवो देव्या युक्तोऽभवत्सुराः ॥३२॥किंतु तत्केवलोत्पन्नं सेन्द्रैरपि सुरासुरैः ।तेजो धारयितुं तस्य न शक्यमिति निश्चितम् ॥३३॥इदं यत्कार्यमुत्पन्नं व्याधिरूपं दिवौकसाम् ।उपेक्षितं न संदेहो हन्यान्नूनं जगत्त्रयम् ॥३४॥यदि तत्केवलो जातो भविष्यति सुरास्तदा ।असह्यो दुर्धरो घोर इति तथ्यं न संशयः ॥३५॥स एव विष्णुर्बलवानिन्द्रश्चैव प्रजापतिः ।स चाऽऽदित्यः कुबेरश्च ईशानो वरुणस्तथा ॥३६॥स यमः स च सोमश्च स वायुः स्वर्गवासिनः ।स एव सर्वं भविता भवद्भिश्चेदुपेक्षितः ॥३७॥दृश्यतेऽत्राप्युपायश्च कार्यस्यास्य सुरोत्तमाः ।यस्मादग्निमुखा यूयं तस्मादग्निर्हि नान्यथा ॥३८॥यदुग्रं गहनं घोरमप्रधृष्यमगोचरम् ।हृदि यद्भवतां कार्यमग्निस्तत्साधयिष्यति ॥३९॥एवमुक्त्वाऽथ विश्वादिः शङ्खचक्रगदाधरः ।अब्रवीत्कृष्णवर्त्मानं देवानां सदसि स्थितम् ॥४०॥श्रीविष्णुरुवाच - शृणु मद्वचनं वह्ने देवानां यदुपस्थितम् ।त्वया तत्साधनीयं हि हितार्थं त्रिदिवौकसाम् ॥४१॥योऽसौ देवः परं ज्योतिर्नीलग्रीवो विलोहितः ।रमते चोमया सार्धं चराचरपतिः शिवः ॥४२॥भयं तस्मात्समुत्पन्नं कारणाद्धि दिवौकसाम् ।तस्माद्धिताय गच्छ त्वं महादेवस्य संनिधौ ॥४३॥मुखं त्वमेव सर्वेषां कार्याणां चैव साधकः । इत्येवं वचनं श्रुत्वा पावकः केशवात्तदा ॥उवाचेदं मुनिश्रेष्ठाः श्रीवत्साङ्कितवक्षसम् ॥४४॥अग्निरुवाच - यदुक्तं भवता देव किं त्वयुक्तं सनातन ।महेशस्य रहःस्थस्य प्रवेष्टुं नैव सांप्रतम् ॥४५॥ध्यानयुक्तो जनः कश्चिन्मन्त्रभोजनतत्परः ।रहः स्थोऽथ च दानस्थस्तदयुक्तं प्रवेशनम् ॥४६॥* ( कखपुस्तकेयोस्यं श्लोको नास्ति । ) * जाप्योपहारयुक्तो वा होमयुक्तोऽथवा भवेत् ।अर्चनाभिरतः कश्चित्तदयुक्तं प्रवेशनम् ॥४७॥प्राकृतस्यापि देवेश रहःस्थस्य रमापते ।तस्मिन्काले सुरेशान गर्हितं तु प्रवेशनमू ॥४८॥किं पुनर्भगवान्भमिस्तिग्मरश्मिर्महेश्वरः ।देवानां च हितार्थाय प्रकृत्या सह संगतः ॥४९॥नाहं तत्र विशे ननूं बिभेमि मधुसूदन ।आगतं मां समालोक्य क्षणाच्छंभुर्हनिष्यति ॥५०॥जुगुप्सितमिदं कार्यमिति कष्टं भयावहम् ।विवस्त्रां जननीं देवीं कथं द्रक्ष्यामि केशव ॥५१॥किं वक्ष्यति प्रविष्टस्य वक्ष्यामि किमहं विभो ।जल्पयिष्यति मां देवो धिड्मूर्खोऽयमिति ध्रुवम् ॥५२॥यद्भाव्यं तद्भवत्स्वद्य न करोमि च निद्नितम् ।अग्निना चैवमुक्तस्तु विष्णुर्दानवसूदनः ॥५३॥भयदं मोहदं श्रुत्वा वाक्यं हृदयकम्पनम् ।उवाच भगवान्विष्णुः पुनर्वह्निमिति स्तुवन् ॥५४॥त्रैलोक्यरक्षणार्थांय शक्रादीनां च संनिधौ ॥५५॥विष्णुरुवाच - यदुक्तं भवता वह्ने सत्यमेतन्न संशयः ।आत्महेतोर्विरुद्धं स्यात्परार्थं नैव दुष्यसि ॥५६॥प्रदिष्टो देवदेवेन संहारार्थं कपर्दिना ।प्रविश त्वमणो रूपमादाय न हि दुष्यसि ॥५७॥प्रस्तुताप्रस्तुतं नास्ति तेजोमूर्तेस्तवानध ।सर्वदा सर्वगस्त्वं हि न क्कचित्प्रतिहन्यसे ॥५८॥भूतग्रामं समस्तं वै त्यमेको व्याप्य तिष्ठसि ।उदरस्थः पचस्यन्नं प्राणिनां मेषवाहन ॥५९॥त्वयैकेन जगत्कृत्रनं गोप्यते यदि पावक ।किं न प्रपतं त्वया ब्रूहि दोषः कः स्याद्धुताशन ॥६०॥जुगुप्साऽस्मिन्न कर्तव्या त्वया वै हव्यवाहन ।उत्पन्नस्यास्य कार्यस्य काल एष तवानघ ॥६१॥त्रिदशाः शरणं प्रपतां हुतभुक्त्वां विभावसो ।अहो धन्यतरश्चासि श्लाध्यो यदि करिष्यति ॥६२॥कुरु कार्यं सुराणां त्वं मग्नानां करुणां कुरु ।सर्वकाले यथा मर्त्या वीक्षमाणास्तु भास्करम् ॥६३॥तथा तवाऽऽननं वह्ने पश्यन्ति सुरसत्तमाः ।चारुचन्द्रप्रतीकाशं कुण्डलाभ्यामलंकृतम् ॥६४॥अनेन किं न पर्याप्तं वद नूनं विभावसो ।एवं संबोध्यमानोऽग्निर्विष्णुना द्विजसत्तमाः ॥६५॥हृदये चिन्तितं तेन यास्मामि हरसंनिधौ ।ततो मनोगतं ज्ञात्वा अग्नेर्देवास्तदाऽनघाः ॥६६॥सेन्द्राः सवरुणादित्याः सयक्षोरगराक्षसाः ।तुष्टुवुस्ते शुभैर्वाक्यैः पावकं द्विजसत्तमाः ॥६७॥३३४५॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बक्रीडदिवर्णनं नाम षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP