सौरपुराणं - अध्यायः ६१
सौरपुराणं व्यासकृतम् ।
देवा ऊचु -
जलभीरो जलोत्पन्न जलाजल जलेचर ।
जलजामलपत्राक्ष यज्ञदेव हुताशन ॥१॥
कृष्णकेतो कृष्णवर्त्भन्स्वर्गमार्गप्रदर्शक ।
यज्ञाहुतिहुताहार यज्ञाहार हराकृते ॥२॥
पूर्णगर्भ गवां गर्भ जय देव महाशन ।
तमोहर महाहार स्वाहाभर्तर्नमोऽस्तु ते ॥३॥
हव्यवाहन सप्तार्चे चित्रभानो महाद्युते ।
अनलाग्ने यज्ञमुख जय पावक सर्वग ॥४॥
विभावसो महाभाग वेदभाषार्थभाषण ।
कृशानो ॠतुसंभारप्रिय विश्वप्रभावन ॥५॥
सागराम्बुघृतं देव त्वमश्वमुखसंश्रितः ।
पिवंश्चैतोद्गिरंश्चैव न तृप्तिमधिगच्छसि ॥६॥
त्वं वाक्येष्वनुवाक्भेषु निषत्सूपनिषत्सु च ।
ब्राह्मणा ब्रह्मयोनिं त्वां स्तुवन्ति त्वत्परायणाः ॥७॥
तुभ्यं कृत्वा नमो विप्राः स्वकर्मविहितां गतिम् ।
ब्रह्मेन्द्रविष्णुरुद्राणाम लोकान्संप्राप्नुवन्ति च ॥८॥
+ ( ङचसंज्ञितपुस्तकयोरसं श्लोको ज्ञास्ति । )
+ त्वमन्तः सर्वभूताना भुक्तं भोक्ता जगत्पते ।
पचसे पचतां श्रेष्ठ त्रील्लोंकान्संक्षयिष्यसि ॥९॥
साक्षी लोकत्रयस्यास्य त्वया तुल्यो न विद्यते ।
शरणं भव देवानां विश्वत्रयमहेश्वर ॥१०॥
इत्येवं स्तूयमानोऽसावुत्थाय ज्वलनस्तदा ।
देवान्प्रदक्षिणीकृत्य ययौ शंभुगृहं द्विजाः ॥११॥
* ( ङसंज्ञितपुस्तकेऽयं श्लोको नास्ति । )
* तत्रापश्यत्प्रतीहारं महादेवसमं बले ।
पूजितं सेन्द्रकैर्देवैमहादेवदिट्टक्षुभिः ॥१२॥
कपीन्द्रवदनं देवं कुलिशोद्यतपाणितम् ।
शूलहस्तं महावीर्यं सूर्यायुतमिवोदितम् ॥१३॥
नन्दिनं तु तत्दा दृष्ट्वा पावकस्य द्विजोत्तमाः ।
वेगस्तस्यातुलस्तीक्ष्णः सहसैव व्यहन्यत ॥१४॥
तत्रस्थश्चिन्तयामास पश्यामीति कथं हरम् ।
नन्दिना द्वारसंस्थेन पुमान्न प्रविशेद्गृहम् ॥१५॥
पश्यमानस्य शैलादेः प्रविशे यद्यहं गृहम् ।
फलसिद्धिं न गच्छेयः नन्दिना कुपितेन च ॥१६॥
एवं चिन्तार्णवे मग्नो यावत्तिष्ठत्यसौ कविः ।
द्विजान्ननाविधांस्तावद्भ्रममाणांश्च दृष्टवान् ॥१७॥
तान्दृष्ट्वा चिन्तयामास हंसस्य हरसंनिधौ ।
रूपं कृत्वा प्रवेक्ष्यामि इत्युपायमचिन्तयत् ॥१८॥
आदाय हंसरूपं तु प्रविष्टः पावकस्तदा ।
प्रविश्य शङ्कारहितः सूक्ष्मरूपो व्यवस्थितः ॥१९॥
पार्वत्या वाहनं सिंहमपश्यच्च विभावसुः ।
गोक्षीरधवलाभासं महालाङ्गूलशोभितम् ॥२०॥
जाज्वल्यमाननयनं चन्द्रकोटिसमप्रभम् ।
प्रसारितच्छटाटोपं हुंकारकृतभूषणम् ॥२१॥
दानवानां क्षयकरं देवानामभयप्रदम् ।
हुंकारेण ततस्तस्य ज्वलनो बधिरीकृतः ॥२२॥
अहो दुःखमिदं प्राप्तमिति संचिन्त्य चेतसा ।
यदि जीवन्गमिष्यमि सिंहादस्मादहं तदा ॥२३॥
तेन पर्याप्तकामोऽहमिति संचिन्त्य निर्गतः ।
यत्र देवा महेन्द्राद्याः संस्थिता मेरुमूर्धनि ॥
देवाः सर्वे सुसंहृष्टा ऊचुस्तं जातवेदसम् ॥२४॥
देवा ऊचु -
अस्मात्कार्यं त्वया वह्ने गत्वा तत्र यथा कृतम् ।
तत्सर्वं ब्रूहि नः क्षिमं शर्मास्माकं यथा भवेत् ॥२५॥
अग्निरुवाच -
गतोऽहं तस्य भवनं देवदेवभ्य शूलिनः ।
मया नन्दीश्वरो दृष्टो द्वारदेश उपस्थितः ॥२६॥
हंसरूपं ततः कृत्वा प्रविश्यान्तःपुरं सुराः ।
तत्र सूक्ष्मवपुर्भूत्वा यावत्क्षणमहं स्थितः ॥२७॥
तावत्पञ्चाननो दृष्टो गिरिजायास्तु वाहनम् ।
अतिरौद्रो महाकायः प्रलयान्तकसंनिभः ॥२८॥
भीतोऽहं निर्गतस्तस्मादट्टष्ट्वैव पिनाकिनम् ।
युष्मत्कार्यमकृत्वैव संप्राप्त इह भो सुराः ॥२९॥
पुनर्विचिन्त्यतां कार्यं सर्वेषां वो यथा सुखम् ।
एवं वह्नेर्वचः श्रुत्वा देवा विष्णुपुरोगमाः ॥३०॥
ययुर्मुनिगणैः सार्धं मन्दरं चारुकन्दरम् ।
तमासाद्य गिरिश्रेष्ठं प्रियं देवस्य शूलिनः ॥३१॥
कृताञ्जलिपुटाः सर्वे ह्यस्तुवन्वृषभध्वजम् ॥३२॥
देवा ऊचु -
ॐ नमः परमेशाय त्रिनेत्राय त्रिशूलिने ।
विरूपाय सुरूपाय पञ्चास्याय त्रिमूर्तये ॥३३॥
वरदाय वरार्याय कूर्माय च मृगाय च ।
नीलालकशिखण्डाय मण्डलेशाय ते नमः ॥३४॥
विश्वमानाय विश्वाय विश्वेशायाऽऽत्मरूपिणे ।
कालाघ्नाय मखघ्नाय अन्धकघ्नाय वै नमः ॥३५॥
नमो मन्त्राय जप्याय कोटिजाप्याय ते नमः ।
ध्यानाय ध्येयरूपाय ध्येयध्यानात्मने नमः ॥३६॥
ईशोइऽनीशस्त्वमेवेश अन्तोऽनन्तस्त्वमेव च ।
अव्ययस्त्वं व्ययश्चैव जन्माजन्म त्वमेव च ॥३७॥
* ( कझसंज्ञितपुस्तकयोग्यं श्लोको नास्ति । )
* नित्यानित्यस्त्वमेवेश धर्माधर्मस्त्वमेव च ।
गुरुस्त्वमगुरुर्देव बीजं वाऽबीजमेव च ॥३८॥
कालस्त्वमसि लोकानामकालः परिगीयसे ।
बलस्त्वमबलश्चैव प्राणश्चाप्राण एव च ॥३९॥
साक्षी त्वं कर्मणां देव तथाऽसाक्षी महेश्वर ।
शास्ताऽशास्ता विरूपाक्ष ध्रुवश्चाध्रुव एव च ॥४०॥
संसारी त्वं हि जन्तूनामसंसारी त्वमेव च ।
गोप्ता त्वं सर्वभूतानां नास्ति गोप्ता तवेश्वरः ॥४१॥
जीवस्त्वं जीवलोकस्य जीवस्तेऽन्यो न विद्यते ।
* ( न्यूनातिरिक्तेत्यादि न विद्यात इत्यन्ते श्लोकद्वयं गयसंज्ञितपुस्तकयोरेवास्ति । )
* न्यूनातिरिक्तभावेन त्वमायुश्च शरीरिणाम् ॥४२॥
देहिनां शंकरस्त्वं हि न चान्यस्तव शंकर ।
अरुद्रस्त्वं महादेव रुद्रस्त्वं घोरकर्मणाम् ॥४३॥
देवानां च महादेवो महांस्त्वत्तो न विद्यते ।
कामस्त्वं भविनां सर्वकामदस्त्वं जगत्पते ॥४४॥
अजेयो जयिनां श्रेष्ठो जयरूपस्त्वमेव हि ।
पुराणपुरुस्त्वं हि पुराणोऽन्यो न विद्यते ॥४५॥
व्यालयज्ञोपवीताय सरोजाङ्काय ते नमः ।
नमोऽस्तु नीलग्रीवाय शितिकण्ठाय मीढुषे ॥४६॥
नमः कपालहस्ताय पाशहस्ताय दण्डिने ।
नमो देवाधिदेवाय नमो नारायणाय च ॥४७॥
ऊर्ध्वमार्गप्रणेत्रे च नमस्ते ह्यूर्ध्वरेतसे ।
+ ( क्रोचिन इत्यादि रुक्तरेतस इत्यन्तं शब्दजातं घसंज्ञितपुस्तके नास्ति । )
+ क्रोधिने वीतरागाय गजचर्मावगुण्ठिने ॥४८॥
नमो ब्रह्मशिरोघ्नाय नमस्ते रुक्मरेतसे ।
नमश्चन्डाय धीराय कमण्डलुनिषङ्गिणे ॥४९॥
नमः प्रचण्डवेगाय क्रोधचण्डाय ते नमः ।
वरेण्याय शरण्याय ब्रह्मण्यायाम्बिकापते ॥५०॥
सर्वानुग्रहकर्ता त्वं धनदाय नमो नमः ।
नमः संसारपोताय अणिमादिप्रदायिने ॥५१॥
ज्येष्ठसामादिसंस्थाय रथतदाय ते नमः ।
त्रिगाथाय त्रिमात्राय त्रिमूर्ते त्रिगुणात्मने ॥५२॥
त्रिवेदिने त्रिसंध्याय त्रिशून्याय त्रिवर्मणे ।
त्रिदेहाय त्रिकालाय त्रिशक्तिव्यापिते नमः ॥५३॥
शक्तित्रयविहीनाय शक्तित्रययुताय च ।
शक्तित्रयात्मरूपाय शक्तित्रयधराय च ॥५४॥
योगीशाय विषघ्नाय विजयाय नमो नमः ।
नमस्ते हरिकेशाय लोकपालाय दण्डिने ॥५५॥
हलीशाय प्रमेयाय कुलीशाय तु चक्रिणे ।
नमो बिन्दुविसर्गाय नादायानदधारिणे ॥५६॥
नाडिस्थाय च नाडयाय नाडीवाहाय वै नमः ।
* ( नमो गायत्रीनाथायेत्यादिनमो नम इत्यन्तं शन्दजातं कज्ञसंज्ञितपुस्तकयोर्नास्ति । )
* नमो गायत्रीनाथाय गायत्रीहृदयाय ते ॥५७॥
नमो गायत्रीगोप्त्रे च गायत्र्याय नमो नमः ।
य इदं पठते स्तोत्रं गीर्वाणैः समुदीरितम् ॥५८॥
यावज्जीवकृतैः षापैर्मुक्तो याति परां गतिम् ।
एवं स्तुतः सुरैः शंभुः प्रसन्नो वरदोऽभवत् ॥५९॥
वरं वृणीध्वं हे देवा इत्युवाच महेश्वरः ।
अथ तं वरदं ज्ञात्वा शंभुमग्निमुखाः सुराः ॥६०॥
ऊचुः प्राञलयः सर्वे भयं त्यक्त्वा द्विजोत्तमाः ।
देवा ऊचु -
यदि तुष्टोऽसि विश्वेश देहीमं वरमुत्तमम् ॥६१॥
गिरिजाकुक्षिसंभूतः पुत्रो मा भूत्तवानघ ।
एवमस्त्वित्यसौ शंभुः पुनरुक्त्वा ततो वचः ॥६२॥
नाहृं रेतो वृथा स्कन्दे त्रैलोक्यक्षयकारकम् ।
वृथा शुक्रे मदीये तु त्रैलोक्य भस्मसाद्भवेत् ॥६३॥
हिताय तस्माल्लोकानां मम रेतो दिवौकसः ।
शान्त्यर्थं चैव युष्माभिः शीघ्रमेव प्रयुज्यताम् ॥६४॥
एवं शंभोर्वचः श्रुत्वा देवास्ते भयविह्वलाः ।
सलोकेशाः सगोविन्दा न किंचिदब्रुवन्द्विजाः ॥६५॥
अथ देवेषु सीदस्तु वह्निर्गौरिव कर्दमे ।
प्रसार्य स्वाञ्जलिं शंभुं रेतो मुञ्चेति चाब्रतीत् ॥६६॥
देवदेवामृतं दिव्यं हस्ताभ्यां मम शंकर ।
शीष्रमेव प्रयच्छस्व पिबन्तु सुरपुंगवाः ॥६७॥
ततो लिङ्गादिनिष्क्रान्तं चन्द्रविम्बात्सुनिर्मलम् ।
जातीनीलोत्पलामोदं पाणौ वह्नेर्ददौ शिवः ॥६८॥
कराभ्यां पतितं रेतस्तदाऽभूत्षावकस्य वै ।
पषौ वह्निस्ततः शुक्रं ज्वलत्तद्भास्करप्रभम् ॥६९॥
सुधेति मनसा मत्वा हृष्टात्मा मुदयाऽन्वितः ।
अथ पीते तदा शुक्रे वह्निना मुनिपुंगवाः ॥७०॥
रेतःपातेन संतर्प्य स देवासुरपूजितः ।
विसृज्य तांस्तु भगवांस्तत्रैवान्तरधीयत ॥७१॥
तदा हविर्भुजं देवं सेन्द्रा ब्रह्मपुरोगमाः ।
यथाऽऽगता ययुस्तत्र पूजीयत्वा दिवौकसः ॥७२॥
रेतसा दह्यमानोऽग्निः पातालात्सुतलं गतः ।
ततो विवेश गिरिशो यत्राऽऽस्ते पार्वती शिवा ॥७३॥
उवाच पार्वतीं शंभुः प्रहसन्कमलेक्षणाम् ।
ईश्वर उवाच -
शृणु हेवि महाभागे यद्वृत्तं तद्ब्रवीन्यहम् ॥७४॥
रवतन्त्रकामाऽसि शिवे यथाऽहं वरवर्णिनि ।
देवा मच्छरणं प्रपता न चाहं शरणं त्यजे ॥७५॥
गोप्या मया सदा कान्ते महादेवो यतः स्मृतः ।
भविष्यति महाभागे पुत्रस्तव षडाननः ॥७६॥
किं त्वौरसरतु सुश्रोणि देवैर्नेष्टसावांशतः ।
तस्माच्छुद्धं ( त्क्षिप्तं ) मया रेतो मुखे वै जातवेदसः ॥७७॥
वह्निकुक्षिगतं रेतो गतं देवान्विभागशः ।
यच्छेषमुदरे वह्निस्तद्गङ्गायां प्रदास्यति ॥७८॥
ततः साऽपि विदह्यन्ती मम तेजः प्रतापवत् ।
कृत्तिकाः षट् समाख्याता गङ्गायां स्नातुमागताः ॥७९॥
तासु गङ्गाविनिक्षिप्तं मम रेतस्तदद्भुतम् ।
ततस्ताः कृतिकाः स्तब्धा देवि मां शरणं गताः ॥८०॥
अनुग्रहान्मया तासामिदमुक्तं तदा शिवे ।
ममाऽऽदेशाद्गताः सर्वाः शरधानवनं शुभम् ॥८१॥
मोचयिष्यन्ति ता गर्भं देवाश्च कमलेक्षणे ।
वचनान्मम सुश्नोणि गर्भशल्यं वरानने ॥८२॥
ततस्ते भविता पुत्र एकीभूत्वा स्वतेजसः ।
बालसूर्यायुतप्रख्यो बालेन्दुभ्रूलताङ्कितः ॥८३॥
आग्नेयो वह्निजो देवो गाङ्गेयः कृत्तिकासुतः ।
स्कन्दो गुहस्तथा पुत्रो नामभिस्ते भविष्यति ॥८४॥
एवं शंभोर्वचः श्रुत्वा प्राह देवी गिरीन्द्रजा ।
मम कुक्षिसमुत्पन्नं यतो नेच्छन्ति पुत्रकम् ॥८५॥
अतः पुत्रविहीनास्ते भविष्यन्ति सुरादयः ।
यो हि नन्दी महावीर्यः सुरासुरमहोरगैः ॥८६॥
दुर्जयः सर्वभूतानां योगी योगबलान्वितः ।
प्रविश्यान्तःपुंरे वह्निर्दृष्ट्वा मां वस्त्रवर्जिताम् ॥८७॥
यस्मातुषेक्षितस्तस्मान्मनुष्यत्वं प्रयातु सः ।
शापं श्रुत्वाऽथ शैलादिवज्रेणेव हतो गिरिः ॥८८॥
न्यपतद्योगिनामग्र्यो ज्ञानमूर्तिधरो द्विजाः ।
पुनश्च शंभोर्वचनाच्छैलादिमनुगृह्य च ॥
समालिङ्ग्य महादेवं स्थिता देवीति नः श्रुतम् ॥८९॥३४३४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे पावकस्तुत्यादिकथनंनामैकपष्टितमोऽध्यायः ॥६१॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP