सौरपुराणं - अध्यायः ६९
सौरपुराणं व्यासकृतम् ।
नारद उवाच -
हेतुना केन भगवान्कालकालो महेश्वरः ।
श्रोतुमिच्छामि भगवन्ब्रूहि मे कमलोद्भव ॥१॥
ब्रह्मोवाच -
आसीन्मुनिवरः पूर्वं नाम्ना श्वेत इति स्मृतः ।
तीर्थोदकानि सेवेत यमांश्च नियमांस्तथा ॥२॥
माहेश्वराग्रणीः शान्तो महादेवार्चने रतः ।
तं नेसुमागतः कालो दण्डहस्तो भयंकरः ॥३॥
दृष्ट्वा कालं स विप्रेन्द्रो भयव्याकुलितेन्द्रियः ।
स्पृष्ट्वा कराभ्यां तल्लिगं ध्यायमानो महेश्वरम् ॥४॥
प्रहसन्नब्रवीत्कालः श्वेतं मुनिवरं मुने ।
प्राप्ते मयि कथं ब्रह्मन्स्वस्थास्तिष्ठान्ति जन्तवः ॥५॥
चरन्ति मद्भयात्सर्वे ब्रह्मचर्यं तपांसि च ।
तीर्थं दानं प्रशंसन्ति निरताः स्वेषु कर्मसु ॥६॥
यजन्ति मद्भयाद्देवान्यज्ञांश्च विविधांस्तथा ।
तस्मादुत्तिष्ठ नेष्यामि मम पाशवशं गतः ॥७॥
दा(त्रा)तारं नैव पश्यन्ति(श्यामि) तवाद्य मुनिपुंगवाः (व) ।
एवं निशम्य वचनं स वै कालस्य नारद ॥८॥
अथाब्रवीद्यमं भीतः पाशहस्तं करालिनम् ।
कथमीशार्चनरतं त्वं मां नेतुमिहार्हसि ॥९॥
शिवार्चनरतां च त्वत्तः कस्माद्भयं वद ।
एवमुक्तो यमः कोपादुद्बन्ध्य मु[ दभान्त्सीन्प्रु ]निपुंगवम् ॥१०॥
पाशैर्दृढतरैः शीघ्रं ध्यायमानं महेश्वरम् ।
अथ देवो महादेवः प्रादुर्भूतस्त्रिलोकभृत् ॥११॥
तं दृष्ट्वा देवदेवेशं प्रहृष्टोऽभूत्तदा मुनिः ।
शंकरोऽथाब्रवीत्कालं मम भक्तं विमाचेय ॥१२॥
स्वतन्त्र एव मद्भक्तः स कथं नीयते त्वया ।
यदुक्तं देवदेवेन तदतिक्रम्य सूर्यजः ॥१३॥
पुनर्बबन्ध नृपतिं स्वपुरीगमनोद्यतः ।
अथ देवो महादेवो विश्वेश्वर उमापतिः ॥१४॥
अकरोद्भस्मसात्कालं श्वेतः पाशैर्विमोचितः ।
दत्तं भगवता तस्मै गाणपत्यं च शाश्वतम् ॥१५॥
देव्या सह महादेवः क्षणादन्तर्हितोऽभवत् ।
अनेन हेतुना शंभुः कालकाल इति स्मृतः ॥१६॥
अहं च विष्णुना सार्धं स्तुत्वा देवं महेश्वरम् ।
प्रसाद्याथ पुनर्जातः कालः शंभोरनुग्रहात् ॥१७॥
अन्यतीर्थं पुण्यतमं ज्वालेश्वरमिति स्मृतम् ।
रेवातीरे मुनिश्रेष्ठ महापातकनाशनम् ॥१८॥
कोटिशः सन्ति तीर्थानि तस्मिञ्ज्वालेश्वरे शिवे ।
तत्र स्नात्वा देवऋषे दृष्ट्वा ज्वालेश्वरं शिवम् ॥१९॥
कुलैकविंशमुद्धृत्य (?) शिवलोके महीयते ।
अन्यं श्रीपर्वत श्रेष्ठं सिद्धानामालयं शुभम् ॥२०॥
तत्र सिद्धाश्च मुनयो दृश्यन्ते सर्वतो गिरौ ।
सदा संनिहितः शंभुर्लिङ्गे श्रीमल्लिकार्जुने ॥२१॥
दृष्टे तस्मिन्परे लिङ्गे जीवन्मुक्तो नरो भवेत् ।
मनुष्याः पशवः कोटिमृगाश्वमशकादयः ॥२२॥
श्रीपर्वते मृताः सर्वे यान्ति शंभोः परं पदम् ।
केदारे परमं तीर्थं प्रियं देवस्य शूलिनः ॥२३॥
तत्र स्नात्वोदकं पीत्वा संपूज्य च पिनाकिनम् ।
गाणपत्यमवाप्नोति देवानामपि दुर्लभम् ॥२४॥
वृषध्वजे परं तीर्थं देविकायास्तटे मुने ।
यत्र स्नात्वा शिवं दृष्ट्वा ब्रह्महत्यां व्यपोहति ॥२५॥
गोदावरी नदी यत्र निर्गता पापहारिणी ।
तत्र देवाधिदेवेशास्त्रियम्बक इति स्मृतः ॥२६॥
तत्र स्नानं जपो दानं ब्रह्मयज्ञमखः कृतः ।
सर्वं तदक्षयं प्रोक्तं नूनं ब्रह्मगिरौ मुने ॥२७॥
तत्र स्नात्वा शिवं दृष्ट्वा देवदेवं त्रियम्बकम् ।
स्कन्दनन्दिसमो भूत्वा क्रीडते शिवसंनिधौ ॥२८॥
रेवाया नातिदूरे तु गोकर्ण इति विश्रुतः ।
अनुग्रहार्थं लोकानां तत्र संनिहितः शिवः ॥२९॥
नियतोऽनियतो वाऽपि यो वा को वाऽपि मानवः ।
यस्तु पश्यति गोकर्णं रुद्रस्यानुचरो भवेत् ॥३०॥
देवस्य वायुदिग्भागे देवेशी भद्रकालिका ।
योगसिद्धिप्रदा नित्यं दर्शनात्पाणिनां मुने ॥३१॥
महाबलश्च भगवान्यत्राऽऽस्ते गिरिजापतिः ।
तस्य दर्शनमात्रणे गोसहस्रफलं लभेत् ॥३२॥
अन्यद्दक्षिनगोकर्णं सिन्धुतीर्थे महेश्वरः ।
तस्य दर्शनमात्रेण राजसूयफलं लभेत् ॥३३॥
अन्यद्दारुवनं पुण्यं शंकरस्यातिवल्लभम् ।
गिरिजापतिना यत्र मोहिता मुनिपत्नयः ॥३४॥
नारद उवाच -
कथं भगवता तात मोहिता मुनिपत्नयः ।
आचक्ष्व तत्समासेन कौतुकं हृदि वर्तते ॥३५॥
ब्रह्मोवाच -
शृणु नारद वक्ष्यामि भवस्य चरितं शुभम् ।
श्रवणादेव मनुजः शिवस्य दयितो भवेत् ॥३६॥
भुगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतः ।
जगदग्रिर्भरद्वाजो गौतमो भागुरिस्तथा ॥३७॥
वामदेवोऽङ्गिराः शङ्खो लिखितश्च बृहच्छ्रवाः ।
विश्वामित्रोऽथ जावालिरन्ये च मुनयस्तथा ॥३८॥
यज्ञैर्यजन्ति देवेशं तपन्ति च तपस्तथा ।
अज्ञात्वैव परं भावं देवदेवस्य शूलिनः ॥३९॥
तेषां मूर्धोत्थितो धूमस्तपसा क्लेशितात्मनाम् ।
तेन धूमेन महता व्याप्तौ ब्रह्माण्डमण्डपः ॥४०॥
शंभोरुत्सङ्गगा देवी धूमव्याप्तं जगन्त्रयम् ।
दृष्ट्वा पप्रच्छ विश्वेशं कौतुकादीश्वरेश्वरी ॥४१॥
देव्युवाच -
आश्चर्यमिव मे भाति धूमव्याप्तमिदं जगत् ।
धूमस्य कारणं ब्रूहि देवदेव महेश्वर ॥४२॥
ईश्वर उवाच -
यत्र दारुवनं पुण्यं मम चातीव वल्लभम् ।
तत्र तिष्ठन्ति मुनयस्तपोनिष्ठा जितेन्द्रियाः ॥४३॥
अविदित्वैव मां देवि शरीरक्नेशकारिणि ( णाम् ) ।
तेषां मूर्ध्नि स्थितो धूमो व्याप्नोति सचराचरम् ॥४४॥
कर्माणि यानि लोकेषु पुष्कलानि बहूनि च ।
सर्वाणि निष्फलान्येव मामज्ञात्वैव पार्वति ॥४५॥
एवं देवस्य मचनं श्रुत्वा शर्वमथाब्रवीत् ॥४६॥
देव्युवाच -
देवदेव महादेव मुनीनां भावितात्मनाम् ।
अज्ञानस्य यथा व्याप्तिस्तामहं द्रष्टुमुत्सहे ॥४७॥
एवं देव्यां वचः श्रुत्वा भगवान्नीललोहितः ।
विटमेषमथाऽऽस्थाय ययौ दारुवनं प्रति ॥४८॥
स्त्रीरूपधारी विष्णुश्च शंकरेण समागतः ।
विष्णुना सह विश्वेशो देवदारुवनौकसः ॥४९॥
मोहयन्मायया शंभुर्विचचार वने तदा ।
मुनिस्त्रियः शिवं दृष्ट्वा मदनानलदीपिताः ॥५०॥
त्यक्तलज्जा विवस्राश्च ययुस्ता अनु शंकरम् ।
स्त्रीरूपधारिणं विष्णुं सर्वे मुनिकुमारकाः ॥५१॥
अम्बगच्छन्त देवर्षे कामबाणप्रपीडिताः ।
तदद्भुतं तदा ज्ञात्वा कुपिता मुनयस्तदा ॥५२॥
लिङ्गहीनं हरं कृत्वा गो(चक्रुर्गो)पवेषधरं हरिम् ।
तदा प्रभृति विप्रेन्द्र शिवा मेखलसंज्ञिता ॥५३॥
उभयोश्चेव संयोगः सर्वपापहरः शिवः ।
इति श्रुत्वा तु देवर्षिर्ब्रंह्मणो वचनं तदा ॥५४॥
जगाम कर्तुं तीर्थानि शिवभक्तिपुरस्कृतः ।
एतत्सौरं पुराणं ते यथावत्समुदीरितम् ॥५५॥
यच्छुत्वा मनुजः सम्मग्गोसहस्रफलं लभेत् ।
किं तीर्थैस्तु प्रयागाद्यैः किं यज्ञैर्मूरिदक्षिणैः ॥५६॥
यदि श्रुतं श्रद्दधानैः पुराणमिदमुत्तमम् ।
यत्र देवाधिदेवस्य माहात्म्यं कथ्यते विभोः ॥५७॥
गिरीशस्य तु योगीन्द्राः किं तेन सदृशं भवेत् ।
श्रद्दधानः शिवे भक्तो नियतः शृणुयादिदम् ॥५८॥
ब्राह्मणाञ्शिवभक्तांश्च पुरस्कृत्य समाहितः ।
समाप्य सकलं वेदं पूजयीद्वाचकं नरः ॥५९॥
कनकेन सुशुद्धेन तथा चन्दनखण्ढकैः ।
विश्वेश्वरो महादेवः प्रीयतामिति भावतः ॥६०॥
दद्यात्स्वर्णं यथाशक्ति वाचकाय सचन्दनम् ।
यद्येशकी श)रमात्राऽपि दत्त भूमिः शिवार्थिना ॥६१॥
सा तारयति दातुर्हि पूर्वजान्सकलानपि ।
श्रुत्वा ग्रन्थमिमं सम्यग्दद्याद्दानानि शक्तितः ॥६२॥
तान्यक्षयफलान्याहुर्मुनयो वेदवादिनः ॥६३॥३८९९॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवातीर्थकथनं मुनिपत्नीमोहनं नामैकोनसप्ततितमोऽध्यायः ॥६९॥
-----------------------------------------------------
॥ समाप्तमिदं सौरपुराणम् ॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP