संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।| अध्यायः ४४ सौरपुराणं व्यासकृतम् । अथ सौरपुराणस्थविषयानुक्रमः । अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ सौरपुराणं - अध्यायः ४४ सौरपुराणं व्यासकृतम् । Tags : puransanskritsaur puransunपुराणसंस्कृतसूर्यसौर पुराण अध्यायः ४४ Translation - भाषांतर ऋषय ऊचु - मृदादिरत्नपर्यन्तैर्द्रव्यैः कृत्वा शिवालयम् ।यत्फलं लभते मर्त्यस्तन्नो वक्तुमिहार्हसि ॥१॥सूत उवाच - शृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः ।शिवालयस्य करणादनन्तफलमुच्यते ॥२॥अपि लोष्टमयं वाऽपि यः करोति शिवालयम् ।सर्वयत्नेन विप्रेन्द्रा धर्मकामार्थमुक्तये ॥३॥कैलासाख्यं च यः कुर्यात्प्रासादं परमेष्ठिनः ।मेर्वाख्यं मन्दराख्यं वा तुहिनान्द्रिमथापि वा ॥४॥निषधाद्रिं च नीलाद्रिं महेन्द्राख्यं द्विजोत्तमाः ।स तत्पर्वतसंकाशैर्विमानेः सार्वकामिकैः ॥५॥गत्वा शिवपदं द्विव्यं शिववन्मोदते चिरम् ।महाप्रलयपर्यन्तं भुक्त्वा भोगान्यथेप्सितान् ॥६॥तदन्ते विषयांस्त्यक्त्वा शिवसायुज्यमाप्नुयात् ।पतितं खण्डितं वाऽपि जीणं वा स्फुटितं तथा ॥७॥कारयेत्पूर्ववद्यस्तु सुधाद्यैः सुमनोहरैः ।प्राकारं मण्डपं वाऽपि प्रासादं गोपुरं तथा ॥८॥कर्तुरभ्यधिकं पुण्यं लभते नात्र संशयः ।वृत्त्यर्थं वा प्रकुर्वीत नरः कर्म शिवालये ॥९॥यः प्रयाति न संदेहः स्वर्गलोके सबान्धवः ।यश्चाऽऽत्मभोगसिद्धयर्थमपि रुद्रालये सकृत् ॥१०॥कर्म कुर्याद्यदि सुखं लब्ध्वा सोऽपि प्रमोदते ।यदाऽशक्तो भवेन्मर्त्यः प्रासादं कर्तुमीश्वरे ॥११॥संमार्जनादिभिर्वाऽपि सर्वान्कामानवाप्नुयात् ।संमार्जनं तु यः कुर्यान्मार्जन्या मृदुसूक्ष्मया ॥१२॥चान्द्रायणसहस्रस्य फलं मासेन लभ्यते ।शिवस्य पुरतो वह्निं संस्थाप्याभ्यर्च्य शंकरम् ॥१३॥जुहुयादात्मनो देहं यः स याति शिवं पदम् ।शिवक्षेत्रे निराहारो भूत्वा प्राणान्परित्यजत् ॥१४॥शिवसायुज्यमाप्नोति प्रासादात्परमेष्ठिनः ।अथाऽऽत्मचरणौ छित्त्वा शिवक्षेत्रे वसेन्नरः ॥१५॥देहान्ते शिवसायुज्यं लभते नात्र संशयः ।फलं यदश्वमेघस्य तदेव क्षेत्रदर्शनात् ॥१६॥शताधिकं प्रवेशाच्च द्विगुणं लिङ्गदर्शनात् ।तस्माच्छतगुणा पूजा जलस्नानं ततोऽधिकम् ॥१७॥* ( घङसंज्ञितपुस्तकयोरयं श्लोको नास्ति । ) * जलस्नानाच्च विप्रेन्द्राः क्षीरस्नानं शताधिकम् ।दध्ना सहस्रमाख्यातं मधुना तच्छाताधिकम् ॥१८॥अनन्तं सर्पिषा स्नानं वाससा तच्छाताधिकम् ।तस्मात्कोटिगुणं पुण्यं पञ्चत्वं शंकरालये ॥१९॥तस्माच्छतगुणं पुण्यं नियमैर्यस्त्यजेत्तनुम् ।प्रदक्षिणात्रयं कुर्याद्यः प्रासादं समन्ततः ॥२०॥सव्यापसव्याजेन मृदु गत्वा शुचिर्नरः ।पदे पदेऽश्वमेधस्य यज्ञस्य फलमाप्नुयात् ॥२१॥दुर्लभा खलु या मुक्तिरनायासेन देहिनाम् ।जायते कर्मणा येन शृणुध्वं तद्द्विजोत्तमाः ॥२२॥गोचर्ममात्रं संलिप्य मण्डलं गोमयेन च ।चतुरस्रं विधानेन चाद्भिरभ्युक्ष्य मन्त्रवित् ॥२३॥अलंकृत्य वितानाद्यैश्छत्रैर्वाऽपि मनोहरैः ।बुद्बुदैरर्धचन्द्रैश्च स्वर्णैरश्वत्थपत्रकैः ॥२४॥X ( घङचछजसंज्ञितपुस्तकेषु सितैरित्याद्यंशुकैरित्यन्तं शब्दजातं नास्ति । ) X सितैर्विकसितैः पद्मै रक्तैर्नीलोत्पलैस्तथा ।विमानेन विचित्रेण मुक्तादाम्ना द्विजोत्तमाः ॥२५॥सितमृत्पात्रकैश्चैव सुश्लाक्ष्णैः पूर्णकुम्भकैः ।फलपल्लवमालाभिवैजयन्तीभिरशुकैः ॥२६॥पञ्चशद्दीपमालाभिर्धूपैश्च विविधैस्तथा ।पञ्चाशद्दलसंयुक्तं लिखित्वा पद्ममुत्तमम् ॥२७॥तद्वद्वर्णैस्तथा चूर्णैः श्वेतचूर्णैरथापि वा ।एकहस्तप्रमाणेन कृत्वा पद्मं विधानतः ॥२८॥कर्णिकायां न्यसेद्देवं देव्या देवेश्वरं भवम् ।षर्णानि विन्यसेद्वर्णै रुद्रैः प्रागाद्यनुक्रमात् ॥२९॥प्रणवादिनमोन्तानि सर्ववर्णानि सुव्रताः ।संपूज्यैवं सुरश्रेष्ठं गन्धपुष्पादिभिः क्रमात् ॥३०॥ब्राह्मणान्भोजयेत्तत्र पञ्चाशद्विधिपूर्वकम् ।अक्षमालोपवीतं च कुण्डले च कनण्डलुम् ॥३१॥आसनं च तथा दण्डमुष्णीषं वस्त्रमेव च ।दत्त्वा तेषां द्विजेन्द्राणां देवदेवाय शंभवे ॥३२॥महाचरुं निवेद्यैवं कृष्णं गोमिथुनं तथा ।अन्ते च देवदेवाय दत्त्वा तद्वर्णमण्डलम् ॥३३॥योगापयोगिन्द्रव्याणि शिवाय विनिवेदयेत् ।ओंकाराद्यं जपेद्धीमान्प्रतिवर्णमनुक्रमात् ॥३४॥एवमालिख्य यो भक्त्त्या वर्णमण्डलमुत्तपम् ।यत्फलं लभते मर्त्यस्तद्वदामि समासतः ॥३५॥साङ्गान्वेदान्यथान्यायमधीत्य विधिपूर्वकान् ।इष्ट्वा यज्ञैर्यथान्यायं ज्योतिष्टोमादिभिः क्रमात् ॥३६॥ततो विश्वजिता चेष्ट्वा पुत्रानुत्पाद्य मादृशान् ।वानप्रस्थाश्रमं गत्वा सदारः साग्निरेव च ॥३७॥चाम्द्रायणादिकान्कृत्वा सर्वान्संन्यस्य वै द्विजाः ।ब्रह्मविद्यामधीत्यैव ज्ञानमापाद्य यत्नतः ॥३८॥ज्ञानेन ज्ञेयमालोक्य योगवित्फलमाप्नुयात् ।तत्फलं लभते सर्वं वर्णमण्डलदर्शनात् ॥३९॥येन केनापि वाऽऽलिख्य प्रलिप्याऽऽयतनाश्रमम् ।उत्तरे दक्षिणे वाऽपि पृष्ठतो वा द्विजोत्तगाः ॥४०॥चतुष्कोणेऽपि वा चूर्णैरलंकृत्य समन्ततः ।विकीर्य गन्धकुसुमैर्धूपैर्दीपंश्चतुर्विधैः ॥४१॥प्रार्थयेद्देवमीशानं शिवलोकं स गच्छति ॥४२॥तत्र भुक्त्वा महान्भोगान्कल्पकोटिशतं नरः ।स्वदेहगन्धैश्च शुभैः पूरयञ्शिवमन्दिरम् ॥४३॥क्रमाद्गान्धर्वमासाद्य गन्धर्वैश्च सुपूजितः ।क्रमादागत्य लोकेऽस्मिन्राजा भवति वीर्यवान् ॥४४॥आपः पूता भवन्त्येता वस्त्रपूताः समुद्भवाः ।अफेना मुनिशार्दूला नादेयाश्च विशेषतः ॥४५॥तस्माद्वै सर्वकार्याणि वैदिकानि द्विजोत्तमाः ।अद्भिः कार्याणि सततं पूताभिः सर्वसिद्धये ॥४६॥अहिंसा तु परो धर्मः सर्वेषां प्राणिनां यतः ।तस्मात्सर्वप्रयत्नेन वस्त्रपूतेन कारबेत् ॥४७॥यद्दानमभयं पुण्यं सर्वदानोत्तमोत्तमम् ।तस्मात्सा परिहर्तव्या हिंसा सर्वत्र सर्वदा ॥४८॥मनसा कर्मणा वाचा सर्वभूतहिते रताः ।यदा दर्शितपन्थानः शिवलोकं व्रजन्ति ते ॥४९॥त्रैलोक्यमखिलं हत्वा यत्पापं जायते नृपाम् ।शिवालये निहत्यैकमपि तत्पापमाप्नुयात् ॥५०॥शिवार्थं शिवार्थं सर्वदा कार्या पुष्पहिंसा द्विजोत्तमैः ।यज्ञार्थं पशुहिंसा च राज्ञा दुष्टस्य शासनम् ॥५१॥न हन्तव्याः स्त्रियः सर्वा अत्रेश्च कुलसंभवाः ।ब्रह्महत्यासमं पापमात्रेय्या बधतो भवेत् ॥५२॥स्त्रियः सर्वा न हन्तव्या सर्वैश्चैव द्विजातिभिः ।सर्वधर्मेपु विप्रेन्द्राः पापकर्मरता अपि ॥५३॥तस्मादहिंसादियुतः शान्तः शिवजनप्रियः ।भक्तिं शिवे समास्थाय तस्मिञ्जन्मवि मुच्यते ॥५४॥विश्वेश्वरे विरूपाक्षे विश्वव्यापिनि विश्वगे ।सर्वमन्यत्परित्यज्य भक्तिः कायां मनीषिभिः ॥५५॥पुत्रवित्तादिषु यथा सक्तं चित्तं सदा नृणाम् ।तथा सकृद्विरूपाक्षे दूरं किं शांकरं पदम् ॥५६॥भजन्ते य यथा शंभुं फलं तेषां तथाविधम् ।प्रयच्छति महादेवो भक्तिर्नैवास्ति निष्फला ॥५७॥उच्छिष्टः पूजयेदीशं मोहान्धों यद्द्विजाधमः ।पिशाचलोके विपुलान्भोगान्भुङ्क्ते स मानवः ॥५८॥संक्रुद्धो राक्षसस्थानमभक्षी याक्षमाप्नुयात् ।गानशीलो हि गान्धर्वं नृत्यशीलम्तथैव च ॥५९॥ख्यातिशीलस्तथैवैन्द्रमब्भक्षश्चान्द्रामाप्नुयात् ।गायत्र्या पूजयेदीशमब्दमेकं निरन्तरम् ॥६०॥प्राजापत्यमथाऽऽसाद्य सृष्टिकर्ता स्वयं भवेत् ।ब्राह्मं च प्रणवेनैव तेनैवाऽऽप्नोति वैष्णवम् ॥६१॥श्रद्धया सकृदेवापि समभ्यर्च्य महेश्वरम् ।रुद्रलोकमनुप्राप्य रुद्रैः सार्ध प्रमोदते ॥६२॥य इमं पढतेऽध्यायं श्रद्धया शिवसंनिधौ ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥६३॥२३०१॥इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवालयकरणादिफलकथनं नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : December 05, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP