सौरपुराणं - अध्यायः ५०
सौरपुराणं व्यासकृतम् ।
सूत उवाच -
अथोपविश्य सुरराट् पूज्यमानो वरासने ।
अप्सरोगणगन्धर्वसिद्धविद्याधरोरगैः ॥१॥
सहस्रानुचराणां च देवतानां महौजसाम् ।
निर्जराणां त्रयस्त्रिंशत्कोटिभिः परिवारितः ॥२॥
सोऽभिषिक्तस्तदा द्रष्टुं प्राप्तराज्यं सुराधिपम् ।
त्रैलोक्येऽस्मिन्पुनः शक्रश्चक्रे राण्यमकण्टकम् ॥३॥
समाजग्मुस्तदा द्रष्टुं प्रपतराज्यं सुराधिपम् ।
मुनयश्चाङ्गिरा दक्षवसिष्ठक्रतुगौतमाः ॥४॥
पुलस्त्यपुलहागस्त्यविश्वामित्रात्रिशौनकाः ।
जमदप्निभरद्वाजभृगुभागुरिगालवाः ॥५॥
ऋभुः शाण्डिल्यदुर्वासोमर्ग्जैमिनिनारदाः ।
दात्यूहोद्दालबाम्नव्यशरभङ्गनिशाकराः ॥६॥
मरीचिच्यवनोत्तङ्ककात्यायनपराशराः ।
संवर्तशङ्खलिखितदेवभागसुषेणकाः ॥७॥
त्रितरैभ्ययवक्रीतश्वेतकेतूपमन्यवः ।
शाकटायनकौण्डिन्यकचगृत्समदासिताः ॥८॥
देवरातश्च जावालिर्हारीतश्चैव कश्यपः ।
बृहदश्वाम्बिकौतथ्या जातृकर्ण्यः पराशरः ॥९॥
* ( घङचजसंज्ञितादर्शपुस्तकेष्वयं श्लोको न विद्यते । )
* पैठीनसिर्व्याघ्रपादो वीतिहोत्राश्वलायनौ ।
शातातपो मधुच्छन्दा ऋचीकक्रतुदेवलाः ॥१०॥
वामदेवश्च मैत्रेयमार्कण्डेयपुरोगमाः ।
कृष्णाजिनोत्तरीयास्ते जटिला भस्मभूषिताः ॥११॥
रुद्रा इव महात्मानो वेदवेदाङ्गपारगाः ।
तानागतासुसंपूज्य कृतासनपरिग्रहान् ॥१२॥
ब्रह्मकल्पानृषीन्सर्वान्पप्रच्छेदं पुरंदरः ।
कथमाराध्यते देवी वरदाऽचलकन्यका ॥१३॥
ते धन्यास्ते कृतार्थास्ते यैः सभ्यक्पूजिता शिवा ।
यस्याः प्रसादाद्भूयोऽपि राज्यं प्राप्तमिदं मया ॥१४॥
भवान्याः सर्वमेवैतद्वक्तुमर्हथ सत्तमाः ।
ते चैवमुक्ताः शक्रेण मुनयो मुनिपुंगवाः ॥१५॥
प्रत्यूचुरतां नमस्कृत्य शर्वाणीं शिवरूपिणीम् ।
ते धन्यास्ते कृतार्थश्च साधवस्ते शचीपते ॥१६॥
भक्त्या यजन्ति ये नित्यं पार्वतीं परमेश्वरीम् ।
कुर्वन्तोऽपीह कर्माणि चण्डिकार्पितमानसाः ॥१७॥
सूर्यांशव इव जालैर्न बाध्यन्तेऽत्र किल्विषैः ।
आयुरारोग्यसौख्यानि सौभाग्यं च वरस्त्रियः ॥१८॥
भवन्ति तेषां ये नित्यं स्तुवन्ति परमेश्वरीम् ।
संवत्सरास्तथा मासा विफला दिवसाश्च ते ॥१९॥
नराणां विषयान्धानां येषां गेहे न पार्वती ।
यत्र यत्रार्च्यते देवी वरदा परमेश्वरी ॥२०॥
तत्र तत्राक्षयं पुण्यं स्यादित्याह प्रजापतिः ।
नामोच्चारणमात्रेण यस्याः क्षीणोघंसचयः ॥२१॥
भवत्यवाप्तकल्याणः कस्तां नाऽराधयेच्छिवाम् ।
पशुभिस्त्विह तुल्यास्ते मूढैर्वा ते शवा इव ॥२२॥
ये मूढा नार्चयन्त्यार्यां पार्वतीं परमेश्वरीम् ।
अविन्त्यां सत्स्वरूपां तां शाश्वतीं विश्वतोमुखीम् ॥२३॥
ये यजन्तीह धन्यास्ते शिवां स्वर्गापवर्गदाम् ।
तपस्तीर्थप्रदानैश्च यज्ञैर्वा बहुदक्षिणैः ॥२४॥
न तां गतिं लभन्तेऽत्र यां स्तुत्वाऽचलकन्यकाम् ।
सर्वान्कामानवाप्नोति यान्यानिच्छति मानवः ॥२५॥
ब्रतोपवासपूजाभिः समाराध्य महेश्वरीम् ।
व्रतेन येन देवेन्द्र प्रसीदत्याशु पार्वती ॥२६॥
यच्चोत्कानवमीसंज्ञं शृणु सर्वफलप्रमदम् ।
तस्यां नवम्यां शर्वाणी महिषादीन्महासुरान् ॥२७॥
जघान समरे शक्र तेन सा नवमी प्रिया ।
अश्वयुक्शुक्लपक्षस्य नवभ्यां प्रयतात्मवान् ॥२८॥
स्नात्वाऽभ्यर्च्य पितृन्देवान्मनुष्यांश्च यथाक्रयम् ।
यजेत्पश्चान्महादेवीं महिषासुरघातिनीम् ॥२९॥
पुष्पैर्धूपैश्च नैवेद्यैः पयोदधिफलादिभिः ।
भक्त्या संषूजयित्वैवं स्तुत्वा संप्रार्थयेत्ततः ॥३०॥
मन्त्रेणानेन वृत्रारे श्रद्धावान्प्रयतो व्रती ।
महिषघ्नि महामाये चामुण्डे मुण्डघातिनि ॥३१॥
द्रव्यमारोग्यविजयं देहि देवि नमोऽस्तु ते ।
भूतप्रेतपिशाचेभ्यो रक्षोभ्यश्च महेश्वरि ॥३२॥
देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा ।
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ॥३३॥
उमे ब्रह्माणि कौमारि विश्वरूपे प्रसीद मे ।
कुमारीर्भोजयित्वा वा कुर्यादाच्छादनादिभिः ॥३४॥
यथावर्णं कुमारीश्च भोजयित्वा क्षमाषयेत् ।
नव सप्ताथ एकां वा चित्तवित्तानुसारतः ॥३५॥
श्रद्धया प्रीतिमाप्नोति देवी भगवती शिवा ।
अनेन विधिना वर्षं मासि मासि समाचरेत् ॥३६॥
ततः संवत्सरस्यान्ते भोजयित्वा कुमारिकाः ।
वस्त्रैराभरणैः पूज्याः प्रणिपत्य विसर्जयेत् ॥३७॥
* ( घङचसंज्ञितुपस्तकेष्वयं श्लोको न विद्यते । )
* सरुक्मशृङ्गां गां दद्यात्सुविप्राय सुशोभनाम् ।
नरो वा यदि वा नारी ब्रतमेतत्करोति च ॥३८॥
उल्कावत्सा सपत्नीनां तेजस भाति भूतले ।
श्रीमहानवमीत्येषा ख्याता सुरपतेऽधुना ॥३९॥
सर्वसिद्धिकरी पुण्या सर्वोषद्गवनाशिनी ।
नाऽऽध्यात्मिकं तस्य भयं दैवं स्यान्नाऽऽधिभौतिकम् ॥४०॥
रक्षत्येव सदा शक्र सर्वापत्सु च चण्डिका ।
शान्तिपुष्टिकरी पुण्या पुत्रारोग्यार्थलाभदा ॥
अनुष्ठेया सदा पुंभिश्चतुर्वर्गफलार्थिभिः ॥४१॥
यच्छद्मनाऽपि कुरुते ब्रतमेतदित्थं
चण्डीप्रियं सुरपते मुनिसिद्धजुष्टम् ।
रुद्राङ्गनाकुलवराकुलितं विमान
मारुह्य याति स सुखेन शिवस्य लोकम् ॥४२॥
शूलाग्रीभन्नमहिषासुरपादपीठा
मुत्खातखड्गरुचिराङ्गदवाहुदण्डाम् ।
येऽभ्यर्चयन्ति हि तु नक्तभुजो नवम्यां
दुर्गार्तिदुर्गगहनं न विशन्ति मर्त्याः ॥४३॥
अन्यद्यदाह कपिलो भगवान्महात्मा
मेरौ च दैत्यगुरवे भृगुनन्दनाय ।
तत्त्वं शृनुष्व सुमना मभवन्महान्त -
माराधनं कियदपि त्रिजगज्जनन्याः ॥४४॥
या कामधेनुसट्टशी किल भक्तिभाजां
या कल्पपादपसमा सुकृतार्थिनां च ।
चिन्तामणीत्यवगता धनलिप्सुभिर्वा
कस्मान्न तां भुगुसुतात्र यजन्ति गौरीम् ॥४५॥
ये तां स्मरन्ति निगडैरपि बद्धपादा
व्याध्राहिचौरनृपवह्निभयेषु दुर्गाम् ।
तेषां न किंचिदपि शत्रुभयं नृणां स्या -
द्घद्धास्तु मुक्तिमुपलभ्य सुखं लभन्ते ॥४६॥
हे भार्गवार्य गिरिजाप्रणतिप्रसादे
दैवं निरुद्धमपि न प्रभवत्यवश्यम् ।
आसन्नमेघसमयां वनराजिमुच्चै -
ग्रीष्मोऽपि पल्लवचयोपचितां करोति ॥४७॥
धात्रा स्वहस्तलिखितानि ललाटपट्टे
दैवाक्षराणि दुरितैकनिबन्धनानि ।
गौरीप्रसादजनितेन जनः समस्त -
स्तान्येकतः सपदि मार्जयतीति चित्रम् ॥४८॥
ते संमता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति बन्धुवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाऽभ्युदयदा गिरिजा प्रसन्ना ॥४९॥
यः कारयेद्वरपताकसिताभ्रगौरं
तद्गोपुरं च सुधयाऽऽयतनं भवान्याः ।
चन्द्रावदांतभवने विपुले च सौख्यं
राज्यं श्रियं च बुवि काममुपैति सत्यम् ॥५०॥
ये कारयन्ति भवनं भृगुनन्दनाऽऽर्याः
शक्त्या सुवर्णरजतायसताम्रशैलम् ।
सामन्तमौलिमणिरश्मिसमुज्ज्वले ते
सिंहासनेऽङ्गदकिरीटभृतो रमन्ते ॥५१॥
ये मेरुमूर्ध्नि सुरसंघकृताभिषेकां
ष‘ज्चामृतैर्गिरिसुतामभिषेचयन्ति ।
ते दिव्यकल्पमनुभूय सुरेन्द्रराज्यं
राज्याभिक्षेकमतुलं पुनराप्नुवन्ति ॥५२॥
ये देवदारुमलयोद्भवचन्दनेन
ये कुङ्कुमेन च शिवामुपलेपयन्ति ।
त दिव्यगन्धपटवाससुगन्धदेहा
नन्दन्ति नन्दनवनेषु सहाप्सरोभिः ॥५३॥
दिव्यैश्च पद्मकरवीरकजातिपुष्पै -
र्गौरीं शुभैरनुदिनं ननु येऽर्चयन्ति ।
ते भूतले नरपतित्वमवाप्य योगा -
द्यास्यान्ति सौख्यमचिरेण परां च सिद्धिम् ॥५४॥
आमोदिभिर्मरुकपुष्पसुगन्धधूपै -
र्येलोकनाथदयितामिह धूपयन्ति ।
कर्पूरसारसमगन्धवराः सुरामा
आलिङ्गयन्ति दयिताः सुरराजलोके ॥५५॥
दोधूयते कनकदण्डविराजितैश्च
सच्चामरैः प्रचलकुण्डलसुन्दरीभिः ।
दिव्याम्बरस्रगनुलेपनभूषिताङ्गः ।
कृत्वा मृडानिभवने वरवस्त्रपूजाम् ॥५६॥
देदीप्यते स कनकोज्ज्वलपद्मराग
रत्नप्रभाभरणहेममये विमाने ।
दिव्याङ्गनापरिवृतो मनसोऽभिरामः
प्राज्वल्य दीपममलं भवने भवान्याः ॥५७॥
यो जागरं गिरिसुताभवने ददाति
चैत्रोत्सवादिदिवसेऽभ्याधि तूर्यनादम् ।
वीणामृदङ्गमधुरस्वरभाषिणीभिः
संगीयते स हि कृशोदरिकिंनरीभिः ॥५८॥
कुर्वन्ति ये सदुपलेपनवासचित्रं
संमार्जनं गिरिसुतायतनेऽनुरक्ताः ।
मुक्ताकलापमणिकाञ्चनभित्तिचित्रै -
र्वैदूर्यकुट्टिमतले भवने वसन्ति ॥५९॥
दद्याच्च यः परमभक्तियुतो भवान्या
घण्टावितानमथ चामरमातपत्रम् ।
केयूरहारमणिकुण्डलमण्डितोऽसौ
रत्नाधिपो भवति भूतलचक्रवर्ती ॥६०॥
अभ्यर्चयन्ति विधिवद्विविधोपचारै -
र्गन्धर्वसिद्धविबुधस्तुतपादपद्माम् ।
भक्त्या प्रहृष्टमनसः प्रणमन्ति देवीं
ते भूर्भुवःस्वमहिमाप्तफला (?) भवन्ति ॥६१॥
गायन्ति ये गिरिसुतां च विलोकयन्ति
ध्यायन्ति वाऽमलधियश्च शिवां स्मरन्ति ।
गौरीमुमां भगवतीं जगदेकदेवीं
ते वै प्रयान्ति परमं पदमिन्दुमौलेः ॥६२॥
देवीं समस्तभुवनादिविचित्रदेहां
सूर्याग्निचन्द्रनयनामिह कालचक्त्राम् ।
दीर्घाष्टदिग्भुजचयाः मृदुभावहासां
येऽभ्यर्चयन्ति हृदि हन्त त एव धन्याः ॥६३॥
इक्ष्वाकुपूरुपृथुराधवधुन्धुमार -
मांधातृहैहयययात्यजमीढमुख्यैः ।
आरोग्यसंततिधराजयसौख्यालुब्धैः
संपूजिता भगवती मनुजैर्भवानी ॥६४॥
यागेश्वरीं वेदवतीं भवानीं ब्राह्मीं कुमारीं सुभगां च वाणीम् ।
नारायणीं हैमवतीमनन्तां विश्वादिभूतां भज भार्गवाऽऽर्याम् ॥६५॥
यशांसि विद्याः सुखमर्घ्यमायुर्विभूतयः पुष्टीरनर्थहानि ।
तद्भक्तिभाजां भविनां विमुक्तये भवन्ति योगानुगताः समाधयः ॥६६॥
नीचोऽपि मन्दमतिरल्पकुलोद्भवोऽपि
भीरुः शठोऽपि चपलोऽपि निरुद्यमोऽपि ।
गौरीपदाब्जयनार्थमिहोद्यतश्च
संदृश्यते ननु सुरैरपि गौरवेण ॥६७॥
तावत्कृताकृतमपि प्रतिघातमेति
कर्मार्जितेन विधिनाऽपि कृतोद्यमेन ।
आर्यापदाम्बुजरजो विरजः प्रणभ्य
यावन्न वत्स शिरसा ध्रियते जनेन ॥६८॥
विद्या तपः कुलजनिर्विविधं च शिल्पं
शौर्यं मतिश्च विनयस्तु विदग्धता च ।
एते गुणा गुणवतां परमे च भद्रा
गौरीप्रसादरहितस्य तृणी भवन्ति ॥६९॥
तावन्न सिध्यंति रसो न रसायनानि
मन्त्रा महोदयफला विलसत्प्रवादाः ।
क्लिश्यन्ति साधकजना भुवि वर्तिकाश्च
यावन्न तुष्यति कवे वरदा भवानी ॥७०॥
गौब्राह्मणार्चनपराश्च रताः स्वधर्मे
ये मद्यमांसविमुखाः शुचयश्च शैवाः ।
सत्यप्रियाः सकलभूतहिते रताश्च
तेषां च तुष्यति सदा सुमते मृडानी ॥७१॥
भूतादिभूतांण विषयेन्द्रियाणां परां तथाऽन्तःकरणात्मरुपाम् ।
सदाऽक्षयां कायमनोवचोभिः संचिन्तयाऽऽथां सकलार्थदात्रीम् ॥७२॥
अजामेकां लोहितशुक्लवर्णां बह्वीः प्रजाः सृजमानां सुरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥७३॥
प्रभावमेनं त्रिजगज्जनन्यास्तवोदितं भार्गव वेदगुह्यम् ।
श्रोतुं यदिच्छा तदुदरियस्व विप्रेषु किं वाऽकथनीयमस्ति ॥७४॥
शृण्वन्ति ये वाऽथ पठन्ति मर्त्याः स्तवान्विताख्यानमिदं भवान्याः ।
भुक्त्वाऽक्षयान्कामसुखांश्च तेऽत्र प्रयान्ति शंभोः परमं पदं च ॥७५॥
सूत उवाच -
एवं मुनीनां गदितं भवान्याश्चरितं शुभम् ।
श्रुत्वा पुरंदरः श्रीमान्भक्त्या परमया द्विजाः ॥७६॥
आराधयामास तदा पार्वतीं परमेश्वरीम् ।
वरांश्च विविधाल्लंन्ध्वा चक्रे राज्यमकण्टकग् ॥७७॥२८१४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे पार्वतीप्रभावकथनं नाम पञ्चाशोऽध्यायः ॥५०॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP