संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २७

सौरपुराणं - अध्यायः २७

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
उत्तानपादस्य सुतो ध्रुवो नाम महामनाः ।
आराध्य परमं देवं नारायणमनामयम् ॥१॥
निर्ममो निरहंकारस्तन्निष्ठस्तत्परायणः ।
प्रसादात्तस्य देवस्य प्राप्तवान्स्थानमुत्तमम् ॥२॥
ध्रुवस्य पुत्राश्चत्वारः सृष्टिर्धन्यस्तथा परः ।
हर्यः शंभुर्महात्मानो वैष्णवाः प्रथितौजसः ॥३॥
छाया पञ्च सुतान्सूते सृष्टेर्धर्मपरायणान् ।
रिपुं रिपुंजय विप्रं वृषलं वृकतेजसम् ॥४॥
रिपोर्भार्या तु बृअह्ती प्रसूते चक्षुषं सुतम् ।
सुते पुष्करिणी पुत्र चक्षुषश्चाक्षुषं मनुम् ॥५॥
तद्वंशजा असंख्याता अङ्गक्रतुशिवादयः ।
अङ्गाद्वेनस्ततो वैन्यस्तस्मात्पृथुरिति स्मृतः ॥६॥
ख्यातः स पृथिवीपालो येन दुग्धा वसुंधरा ।
न तत्समो नृपः कश्चिद्विद्यते पृथिवीतले ॥७॥
वासुदेवार्चनरतो वासुदेवपरायणः ।
तपसाऽऽराध्य गोविन्दं गोवर्धनगिरौ शुभे ॥८॥
प्रीतस्तमब्रवीद्विष्णुः पृथुं मुनिवरोत्तमाः ।
मत्प्रसादेन राजर्षे पुत्रौ तव भविष्यतः ॥९॥
सार्वभौमौ महात्मानौ मद्भक्तौ पितृतत्परौ ।
एवं लब्धवरो राजा देवेशे पुरुषोत्तमे ॥१०॥
आस्थाय परमां भक्तिं भगवद्वाचमाश्रितः ।
पृथोर्भार्या महाभागा कालेन सुषुवे सुतौ ॥११॥
शिखण्डिनं हविर्धानं सुशीलश्च शिखण्डिनः ।
श्वेताश्वतरनामानं शिवध्यानैकतत्परम् ॥१२॥
उपास्य लव्धवांस्तस्मात्सुशीलो योगमैश्वरम् ।
ऋषय ऊचु -
सुशीलेन कथं राज्ञा प्राप्तं ज्ञानमनुत्तमम् ॥१३॥
वयं तच्छ्रोतुमिच्छामो ब्रूहि सूत महामते ॥१४॥
सूत उवाच -
योऽसौ शिखण्डिनः पुत्रो ब्रह्मचर्याश्रमे रतः ।
अधीत्य विधिवद्वेदान्परं वैराग्यमास्थितः ॥१५॥
विचारः श्रेयसे तस्य कदाचित्समभूद्द्विजाः ।
प्रवृत्तं च निवृत्तं च कर्म यद्द्विविधं मतम् ॥१६॥
तयोरात्यन्तिकी मुक्तिर्मम केन भविष्यति ।
इति संचिन्त्य मनसा जगाम हिमवद्गिरिम् ॥१७॥
तत्र धर्मवनं नाम मुनिसिद्धैर्निषोवेतम् ।
अपश्यद्योगिभिर्जुष्टं महादेवकृतालयम् ॥१८॥
यत्र सिद्धां महात्मानो मरीच्याद्या महर्षयः ।
नारायणश्च भगवांस्तथा चान्ये सुरासुराः ॥१९॥
समाराध्य महादेवं सिद्धिं प्राप्ता हृनेकशः ।
यत्र मन्दाकिनी गङ्गा राजते हृघहारिणी ॥२०॥
अपश्यदाश्रमं तस्यास्तीरे योगीन्द्रसेवितम् ।
मदाकिनीजले तत्र स्नात्वाऽभ्यर्च्य महेश्वरम् ॥२१॥
महादेवकथायुक्तैः स्तुत्वा स विविधैः स्तवैः ।
ध्यायमानः क्षणं तत्र स्थितो विश्वेश्वरं शिवम् ॥२२॥
श्वेताश्वतरनामानमथापश्यन्महामुनिम् ।
महापाशुपतं शान्तं जीर्णकौपीनवाससम् ॥२३॥
भस्मोद्धूलितसर्वाङ्गं त्रिपुण्ड्रातिलकान्वितम् ।
अभिवन्द्य मुनेः पादौं शिरसा प्राञ्जलिर्नृपः ॥२४॥
अब्रवीत्तं मुनिश्रेष्ठं सर्वभूतानुकम्पिनम् ।
अद्य धन्यः कृतार्थोऽस्मि सफलं जीवितं मम ॥२५॥
तपांसि सफलान्येव जातानि तव दर्शनात् ।
भवामि तव शिष्योऽहं रक्ष संसारजाद्भयात् ॥२६॥
योग्यता मम चेदस्ति शिष्योऽहं भवितुं तव ।
सोऽनुगृह्याथ पुत्रत्वे राजानं मुनिमुंगवाः ॥२७॥
कारयित्वा स संन्यासं ददौ योगमनुत्तमम ।
यत्तत्पाशुपतं योगमन्त्याश्रममिति श्रुतम् ॥२८॥
गुह्यं तत्सर्ववेदेषु वेदविद्भिरनुष्ठितम् ।
अनुग्रहान्मुनेस्तस्य सोऽपि पाशुपतिऽभवत् ॥२९॥
वेदाभ्यासरतः शान्तो भस्मनिष्ठो जितेन्द्रियः ।
संन्यासविधिमाश्रित्य सुशीलो मुक्तिमान्भवेत् ॥३०॥११९१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे उत्तानपादसंतत्यादिकथनं नाम सप्तविंशोऽध्यायः ॥२७॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP