सौरपुराणं - अध्यायः ३७
सौरपुराणं व्यासकृतम् ।
* ( कखझसंज्ञितपुस्तकेष्वयं श्लोको न दृश्यते । )
* ऋषय ऊचु -
कथं जालंधरो दैत्यो निहतः शूलपाणिना ।
सुदर्शनेन चक्रेण वक्तुमर्हसि सांप्रतम् ॥१॥
सूत उवाच -
आसीत्कृतान्तसंकाशो जालंधर इति स्मृतः ।
जलमण्डलसंभूतस्तेन देवा विनिर्जिताः ॥२॥
+ ( घसंज्ञितादर्शपुस्तके नास्त्ययं श्लोको । )
+ लोकपालाश्च साध्याश्च वसवश्च मरुद्गणाः ।
विश्वेदेवास्तथाऽऽदित्या रुद्राश्चैव विनिर्जिताः ॥३॥
ब्रह्माणं च सुरश्रेष्ठं समरे मुनिपुंगवाः ।
जगाम जेतुं देवेशं विष्णुं दैत्यनिबर्हणम् ॥४॥
तेन सार्धमभूद्युद्धं जालंधरसुरेशयोः ।
विनिर्जित्य ततो विष्णुं दैत्यान्प्रतीदमब्रवीत् ॥५॥
देवा विनिर्जिताः सर्वे वर्जयित्वा त्रिलोचनम् ।
तमद्य जेतुमिच्छामि भगवन्तं महेश्वरम् ॥६॥
नन्दीश्वरेण सहितं साम्बं चैव रणाङ्गणे ।
जालंधरवचः श्रुत्वा दैतेयास्ते द्विजोत्तमाः ॥७॥
ययुर्देवं तमीशानं योद्धुमुद्युक्तमानसाः ।
ततो जालंधरो दैत्यो दैत्यैश्च सहितो बली ॥८॥
रथैर्नागैश्च संनद्धः प्रययौ शंकरान्तिकम् ।
दृष्ट्वा जालंधरं शंभुरञ्जनाद्रिचयोपमम् ॥९॥
प्रहसन्नब्रवीद्दैत्यं ब्रह्मणो वरदर्पितम् ।
युद्धेनालं दितेः पुत्र मब्दाणैर्नीशेतैरिह ॥१०॥
क्षणाद्विच्छिन्नसर्वाङ्गो मृत्योर्ग्रासं गमिष्यसि ।
श्रुत्वा जालंधरो वाक्यं देवदेवस्य शूलिनः ॥११॥
कुपितः प्राह देवेशं भगवन्तं त्रिलोचनम् ।
अनेन वाक्प्रलापेन किं महेश वृथा तव ॥१२॥
गदया ताडयामि त्वामनया तीक्ष्णधारया ।
भां यो जेष्यति लोकेषु न तं पश्यमि शंकर ॥१३॥
तस्माद्त्थाय युध्यस्व यदि तेऽस्ति बलं शिव ।
श्रुत्वाऽथ दैत्यवचनं पादाङ्गुष्ठेन शंकरः ॥१४॥
चकार लीलया चक्रमम्बुधौ दिव्यमायुधम् ।
यदिदं निर्मलं चक्रं जालंधर मयाऽम्बुधौ ॥१५॥
बलं ते यदि चोद्धर्तुं तिष्ठ योद्भुं च नान्यथा ।
आकर्ण्य तस्य वचनं क्रोधसंरक्तलोचनः ॥१६॥
शूलिनं प्राह विप्रेन्द्रास्रैलोक्यं प्रदहन्निव ।
जालंधर उवाच -
रेखामात्रं किमुद्धर्तुं किमिदं भाषसे शिव ॥१७॥
मेर्वादयोऽपि तिष्ठन्ति किं मया न विचालिताः ।
या त्वया लिखिता रेखा चक्ररूपा महेश्वर ॥१८॥
तामुद्धृत्य ततो हन्मि त्वां नन्दिप्रमुखेः सह ।
बालत्वे निर्जितो ब्रह्मा तरसैव पुरा मया ॥१९॥
निक्षिप्तो भगवान्विष्णुर्लीलया शतयोजनम् ।
इन्द्राद्या लोकपालाश्च वद्धाः कारागृहे स्थिताः ॥२०॥
दासीभूताः स्त्रियस्तेषां वर्तन्ते मद्गृहे शिव ।
दोर्भ्यां वियन्नदी रुद्धा क्रीडार्थं हिमवग्दिरौ ॥२१॥
दिग्गजाश्च विनिक्षिप्ताः सिन्धौ वै रावणादयः ।
वडवाग्नेर्मुस्रे रुद्धे चैकार्णव इवाभवत् ॥२२॥
तस्मान्न जानासि क्रथं शंभो मम पराक्रमम् ।
त्वामपि प्रापयान्यद्य जित्वा कारागृहं प्रति ॥२३॥
तस्य तद्वचनं श्रुत्वा दानवस्य महेश्वरः ।
नेत्राग्निलवभागेन चमूं तस्यादहत्क्षणात् ॥२४॥
अक्षौहिणीनां साहस्रं लीलयैव महेश्वरः ।
कृत्वा तद्भस्मासाद्विप्रा जालंधरमथाब्रवीत् ॥२५॥
ईश्वर उवाच -
समयो यः कृतः पूर्वं लेखामुद्धरणं प्रति ।
कुरु दैत्य तथा शीध्रं ततो मां जेतुमर्हसि ॥२६॥
अथ शंभोर्वचः श्रुत्वा मदान्धो दैत्यपुंगवः ।
दोर्भ्यामास्फोट्य वेगेन लेखामुद्धर्तुमुद्यतः ॥२७॥
सुदर्शनाख्यं यच्चक्रं कृच्छ्रेज महता द्विजाः ।
स्कन्धे वै स्थापयामास द्विधाभूते ततः क्षणात् ॥२८॥
निपपात् ततो दैत्यो मेघाचल इवापरः ।
तस्य देहस्य रक्तेन संपूरितमभूज्जगत् ॥२९॥
नियोगाद्देवदेवस्य तन्मांसं तस्य शोणितम् ।
रक्तकुण्डमभूत्तत्र निरये पापकर्मणाम् ॥३०॥
दृष्ट्वा जालंदरं देवा निहतं शूलपाणिना ।
मुमुचुः पुष्पवर्षाणि जय देवेति चाब्रुवन् ॥३१॥
देवाः स्वस्थानमापन्नाः समुद्राश्च वसुंधरा ।
दिग्गजाः पर्वताः सर्वे हते तस्मिन्महासुरे ॥३२॥
जालंधरवधं यस्तु पठेद्वा शृणुयादपि ।
श्रावयेद्वा द्विजान्भक्त्या ब्रह्मलोकं स गच्छति ॥३३॥१७२४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे जालंधरवधकथनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP