संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३२

सौरपुराणं - अध्यायः ३२

सौरपुराणं व्यासकृतम् ।


मन्वन्तराणि वक्ष्यामि शृणुध्वं मुनिपुंगवाः
मनवः षडतीतास्ते सप्तमो वर्तते किल ॥१॥
तेषां स्वायंभुवस्त्वाद्यस्तथ स्वारोचिषः स्मृतः ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥२॥
स्वायंभुवं तु कल्पादावन्तरं कथितं मया ।
स्वारोचिषेऽन्तरे देवास्तुषिता नाम ते स्मृताः ॥३॥
विपश्चिन्नाम देवेन्द्र ऋषीन्वक्ष्यामि सांप्रतम् ।
ऊर्जस्तम्भस्तथा प्राणो दान्तोऽथ ऋषभस्तथा ॥४॥
तिमिरः शार्वरीवांश्च सप्तैत ऋषयः स्मृताः ।
* ( उत्तरे त्वन्तर इत्यादि सवनश्चानवस्तथेत्यन्तं सार्धश्लोकद्वयं घङछजसंज्ञितपुस्तकेषु नास्ति । )
* उत्तरे त्वन्तरे देवाः सुधामानो द्विजोत्तमाः ॥५॥
प्रतर्दनाः शिवाः सत्यास्ततश्च वशवर्तिनः
एतेषां च गणाः प्रोक्ता भवद्वादशभिर्गणैः ॥६॥
सुदान्तिर्नाम देवेन्द्रो महाबलापराक्रमः ।
रजो गोत्रोऽर्धबाहुश्च सवनश्चानघस्तथा ॥७॥
सुतपाः शुक्रनामाऽथ सप्तैत ऋषयः स्मृताः ।
मर्त्याश्च सुधियश्चैव त आमसस्यान्तरे सुराः ॥
ज्योतिर्धर्मः पृथुः कल्पश्चैत्राग्निः सवनस्ताथा ॥८॥
पीवरश्च समाख्याताः सप्तैत ऋषयो मताः ।
स्याच्छिबिर्नाम देवेन्द्रः सिद्धवारणसेवितः ॥९॥
देवराज्यं परित्यज्य परं वैराग्यमाश्रितः ।
ज्ञाप्वैवाशाश्वतं सर्वं बृहस्पतिथाब्रवीत् ॥१०॥
भगवन्किं करोमीदं राज्यं तुच्छसुखं यतः ।
कैवल्यं लभते केन तन्मे ब्रूहि गुरो स्फुटम् ॥११॥
बृहस्पतिरुवाच -
अस्त्यनन्तगुणावासः परानन्दैकविग्रहः ।
ध्यातः कैवल्यदः पुंसां महादेवो न चापरः ॥१२॥
मोहपाशनिबद्धानां महामोहात्मतां हरेत् ।
स्मरणान्मोचकस्तेषामुमापतिरिति श्रुतिः ॥१३॥
यद्ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमव्ययम् ।
सर्वानुग्राहिणं शंभुं तमाशु शरणं व्रज ॥१४॥
स ज्योतिषां परं ज्योतिरानन्दं तमसः परम् ।
न यस्मादधिकं किंचित्तत्तत्त्वं विद्धि शांकरम् ॥१५॥
तं जानीहि परं ब्रह्म विश्वात्मानं महेश्वरम् ।
तदात्मकतया सर्वं जानीह्यसुरसूदन ॥१६॥
आत्मानं ये हि मन्यन्ते विभिन्नं त्रिपुरद्विषः ।
ते पश्यन्त्येव तं देवं नाऽऽवर्तन्ते पुनः पुनः ॥१७॥
सर्वस्मादधिकः शंभुः परमात्मा महेश्वरः ।
इति ये निश्चितधियः कृतार्थास्ते सुराधिप ॥१८॥
दर्शनं तस्य काङ्क्षन्ते हरिब्रह्मादयः सुराः ।
योगिनो नियतात्मानस्तमीशं शरणं व्रज ॥१९॥
महदादिविशेषान्तं जगद्यस्मिल्लयं व्रजेत् ।
पुनरुत्पद्यते यस्मात्तं जानीहि पिनाकिनम् ॥२०॥
लीलाविलसितं यस्य विश्वमेतच्चराचरम् ।
तदभावाच्च विलयस्तं जानीहि महेश्वरम् ॥२१॥
यस्याऽऽज्ञया स्थितो ब्रह्मा जगज्जननकर्मणि ।
हरिश्च पालने रुद्रः संहारे च स शूलभूत् ॥२२॥
यस्य प्रसादलेशेन मर्त्या मरणधर्भिणः ।
भवन्त्येव हि तेऽमर्त्या भजन्ते वृषभध्वजम् ॥२३॥
क्षणं मुहूर्तथमवा ध्यातः संपूजितः स्मृतः ।
प्रददात्याशु कैवल्यं यस्तं भज महेश्वरम् ॥२४॥
तस्यैव मूर्तयस्तिस्रो ब्रह्मविष्णुहरा इति ।
सर्गरक्षागुणलयैस्तमीशं शरणं व्रज ॥२५॥
यस्यान्तःस्थानि भूतानि येनेदं भ्राम्यते जगत् ।
ब्रह्मेति च जगुर्वेदास्तं रुद्रं शरजं व्रज ॥२६॥
बज्ञैर्य इज्यते देवो मुक्तये वेदवादिभिः ।
कर्मणां फलदस्तेषां शरणं ब्रज तं हरम् ॥२७॥
ये विनिद्रा जितश्वासा ध्यायन्ति क्षीणकर्मिणः ।
तेषां प्रजायते यत्तत्तत्त्वं विद्धि च शांकरम् ॥२८॥
अज्ञानरज्ज्वा बद्धानां मनुष्यादिशरीरिणाम् ।
महादेवादृते नान्यं शक्र पश्यामि मोचकग् ॥२९॥
तस्मात्त्वं तपसा शक्र समाराधय शंकरम् ।
प्रसन्नो दास्यति पदं तव कैवल्यमुत्तमम् ॥३०॥
एवं गुरोर्निगदितं श्रुत्वा सुरपतिस्तदा ।
समाराधयितुं देवं ययौ बदरिकाश्रमम् ॥३१॥
तत्र गत्वा जटी भूत्वा भस्मनिष्ठो जितेन्द्रियः ।
मन्दाकिनीजले स्नात्वा भस्म चैवाभिमन्त्र्य च ॥३२॥
अग्निरित्यादिमन्त्रैश्च समुद्धूल्य च विग्रहम् ।
पूजयामास देवेशं पुष्पैः पत्रैर्मनोहरैः ॥३३॥
शैवीं विद्यां जपन्नास्ते शिवध्यानैकतत्परः ।
एवं गतानि वर्षाणि सहस्राणि चतुर्दश ॥३४॥
तपसा देवराजस्य प्रसन्नोऽभूत्ततः शिवः ।
प्राह त्रिपुरहा शक्रं वरं ब्रूहि शतक्रतो ॥३५॥
तपसाऽनेन तीव्रेण प्रसन्नोऽहं तवानघ ।
* ( घङसंज्ञितपुस्तकयोरीप्सितमित्यादि न किंचिददि दुर्लभमित्यन्तं शब्दजातं नास्ति । )
* ईप्सितं ते प्रदास्यामि तव यद्यपि दुर्लभम् ॥३६॥
मयि प्रसन्ने तु हरे न किंचिदपि दुर्लभम् ॥३७॥
एवं शंभोर्वचः श्रुत्वा स्तुत्वा तं विविधैः स्तवैः ।
कृताञलिपुटो भूत्वा प्रणम्याऽऽह महेश्वरम् ॥३८॥
इन्द्र उवाच -
भगवन्कृतकृत्योऽस्मि भवतो दर्शनाच्छिव ।
अलमन्यैर्वरैः शंभो भक्तिर्भवतु मे त्वयि ॥३९॥
तव भक्त्यमृतास्वादपरानन्दस्य देहिनः ।
भवेत्कष्टं कुतः शंभो पूर्णकामो यतो हि सः ॥४०॥
तावदेवास्थिरं चेतः परिभ्रमति वस्तुषु ।
न यावत्त्वयि देवेश भक्तिर्हवति देहिनः ॥४१॥
तावदेव भवाम्भोधिर्दुस्तर देहिनां हर ।
तव पादाम्बुजे भक्तिः परा यावन्न लम्यते ॥४२॥
तावत्पतति संसारगर्ते जन्तुः पुनः पुनः ।
यावन्न तव कारुण्यलेशो भवति शंकर ॥४३॥
संसारविषवृक्षो यः सर्वतोऽतिहयंकरः ।
तव भक्तिकुठारेण च्छिद्यते नान्यथा शिव ॥४४॥
इति शक्रवचः श्रुत्वा कारुण्यादवलोक्य तम् ।
समुत्स्पपृश्य तु पाणिभ्यां गाणपत्यं ददौ शिव ॥४५॥
विरञ्चिप्रमुखा देवा जायन्ते कर्मगौरवात् ।
प्रलये च विनश्यन्ति भवन्ति च पुनः पुनः ॥४६॥
स्वर्गं गत्वा गताः श्वभ्रं तिर्यक्त्वं च मनुष्यताम् ।
पुनर्विरञ्च्यादिपदमेवं चक्ररम्परा ॥४७॥
शंभोर्गणेश्वरा ये च नाऽऽवर्तन्ते भवे पुनः ।
भोगान्यथेप्सितान्भुक्त्वा शंभोः सायुज्यमाप्नुयुः ॥४८॥
स्वेच्छाविग्रहिणः सर्वे स्वेच्छाचारा गणेश्वराः ।
शिवेन सह प्ते भोगान्भुक्त्वा यान्ति शिवं पदम् ॥४९॥
एवं दत्त्वा वरं शंभुर्गाणपत्यं सुदुर्लभम् ।
सुरराजाय शिवये तत्रैवान्तर्हितोऽभवत् ॥५०॥
गाणपत्यं वरं लब्ध्वा सिबिर्भगवतो द्विजाः ।
आज्ञया तस्य देवस्य जगाम स्वपुरीं ततः ॥५१॥
महादेवार्चनरतो महादेवकथारतः ।
स्थित्वा मन्वन्तरं तत्र चण्डो नाम गणोऽभवत् ॥५२॥
वृषध्वजस्त्रिनेत्रश्च जटाजूटेन्दुमण्डितः ।
शुद्धस्फटिकसंकाशश्चतुर्बाहुस्त्रिशूलभृत् ॥५३॥
अक्षमालाधरः खङ्गी सर्वेषामभयप्रदः ।
द्वीपिचर्माम्बरधरः सर्वाभरणभूषितः ॥
रराज शांकरपदे नन्दीश्वर इवापरः ॥५४॥
एतद्वः कथितं सर्वं शिबेस्तु चरितं द्विजाः ।
सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम् ॥५५॥
श्रद्धया ये पठन्तीदं शिबेस्तु चरितं द्विजाः ।
प्राप्नुवन्त्यश्वमेधस्य फलमित्यब्रवीद्रविः ॥५६॥१४७५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिबिनामधेयदेवेन्द्रचरितकथनं नाम द्वाविंशोऽध्यायः ॥३२॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP