संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६५

सौरपुराणं - अध्यायः ६५

सौरपुराणं व्यासकृतम् ।


ब्रह्मोवाच -
पञ्चाक्षरेण मन्त्रेण पत्रं पुष्पमथापि वा ।
यः प्रयच्छति शर्वाय तदनन्तफलं सकृत् ॥१॥
सप्तकोटिमहामन्त्राः शिववक्त्राद्विनिर्गताः ।
पञ्चाक्षरस्य मन्त्रस्य कलां नार्हन्ति षोडशीम् ॥२॥
दीक्षितोऽदीक्षितो वाऽपि विधानादन्यथाऽपि वा ।
पञ्चाक्षरं जपेद्यस्तु शिवस्यानुचरो भवेत् ॥३॥
अपि कृत्वा भ्रूणहत्या पापानि सुबहून्यपि ।
पञ्चाक्षरजपात्सद्यो मुच्यते नात्र संशयः ॥४॥
न हि पञ्चाक्षरजपाच्छ्रेयोऽस्ति भुवनत्रये ।
एवं ज्ञात्वा जपेद्विद्वान्विद्यां पञ्चाक्षरीं शुभाम् ॥५॥
पञ्चाक्षरेण मन्त्रेण बिल्वपत्रैः शिवार्चनम् ।
करोति श्रद्धया यस्तु स गच्छेदैश्वरं पदम् ॥६॥
दर्शनाद्बिल्ववृक्षस्य स्पर्शनाद्वन्दनादपि ।
अहोरात्रकृतं पापं नश्यते ऋषिसत्तम् ॥७॥
अन्तकाले नरो यस्तु बिल्वमूलस्य मृत्तिकाम् ।
आलिम्पेत्सर्वगात्राणि मृतो याति परां गतिम् ॥८॥
बिल्ववृक्षं समाश्रित्य द्वादशाहमभोजनम् ।
यः कर्याद्भ्रूणहा पापान्मृक्तो भवति नारद ॥९॥
बिल्ववृक्षं समाश्रित्य त्रिरात्रोपोषितः शुचिः ।
हरनाम जपल्लॅंक्षं भ्रूणहत्यां व्यपोहति ॥१०॥
मातृहा पितृहा वाऽषि युक्तो वा सर्वपातकैः ।
माघे कृष्नचतुर्दश्यां पूजयेदिन्दुशेखरम् ॥११॥
भक्त्या बिल्वदलैर्मौनी हरनाम जपन्निशि ।
सर्वपापविनिर्मुक्तो याति शैवं परं पदम् ॥१२॥
शुष्कैः पर्युपितैः पत्रैरपि बिल्वस्य नारद ।
पूजयेद्गिरिजानार्थं मुच्यते सर्वपातकैः ॥१३॥
अर्ध्यं पुष्पफलोपेतं यः श्विआय निवेदये‍त् ।
युगानामयुतं साग्रं शिवलोके वसेन्नरः ॥१४॥
आपः क्षीरं कुशाग्राणि सघृतं दधि तण्डुलाः ।
तिलैश्च सर्पपैः सार्धमर्ध्योऽष्टाङ्ग इति स्मृतः ॥१५॥
पलकोटिं सुवर्णस्य गो दद्याद्वेदपारगे ।
शिवाय रक्तिकामात्रं प्रदत्त्वा (?) वाऽधिकं भवेत् ॥१६॥
तस्मात्पत्रैः फलैः पुष्पैस्तौयैरपि यजेच्छिवम् ।
तदनन्तफलं प्रोक्तं भक्तिरेवात्र कारणम् ॥१७॥
लिङ्गस्य लेपनं कुर्याद्दिव्यैर्गन्धैर्मनोरमैः ।
वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥१८॥
सुगन्धालेपनात्पुण्यं द्विगुणं चन्दनस्य तु ।
चन्दनाच्चागरोर्ज्ञेयं पुण्यमष्टगुणाधिकम् ॥१९॥
कृष्णागरोर्विशेषेण द्विगुणं फलमिष्यते ।
तत्माच्छतगुणं पुण्यं कुङ्कुमस्य विधीयते ॥२०॥
चन्दनागरुकर्पूरैर्नाभिरोचनकुङ्कुमैः ।
लिङ्गमेतैः समालिप्य गाणपत्यमवाप्नुयात् ॥२१॥
संवीज्य तालवृन्तेन लिङ्गं गन्धैः सुलेपितम् ।
दशवर्षसहस्नाणि शिवलोके महीयते ॥२२॥
मयुरब्यजनं दद्याच्छिवायातीव शोभनम् ।
वर्षकोटिशतं दिव्यं शिवलोके महीयते ॥२३॥
चामरः यः शिवे दद्यान्मणिरत्नविभूषितम् ।
हेमरूप्यादिदण्डं वा तस्य पुण्यफलं शृणु ॥२४॥
चामरासक्तहस्ताभिर्दिव्यस्त्रीपरिवारितः ।
विमानं वरगारुह्य गणैर्याति शिवं पदम् ॥२५॥
अरण्यसंभवैः पुष्पैः पत्रैर्वा गिरिसंभवैः ।
अपर्युषितनिश्छिद्रैररक्तैर्जन्तुवर्जितैः ॥२६॥
आत्मारामोद्भवैर्वाऽपि पुष्पैः संपूजयेच्छिवम् ।
पुष्पजातिविशेषेण भवेत्पुण्यमथोत्तरम् ॥२७॥
तपःशीलगुणाढ्याय वेदवेदाङ्गगामिने ।
दश दत्त्वा सुवर्णस्य फलं हि तदवाप्नुयात् ॥२८॥
अर्कपुष्पैः कृता पूजा यदि देवाय शंभवे ।
अर्कपुष्पसहस्रेभ्यः करवीरं प्रशस्यते ॥२९॥
करवीरसहस्रेभ्यो बिल्वपत्रं विशिष्यते ।
बिल्वपत्रसहस्रेभ्यः शमीपत्रं विशिष्यते ॥३०॥
अर्कपुष्पसहस्त्रेभ्यः शमीपुष्पं विशिष्यते ।
शमीपुष्पसहस्त्रेभ्यः कुशपुष्पं विशिष्यते ॥३१॥
कुशपुष्पसंहस्त्रेभ्यः पद्मपुष्पं विशिष्यते ।
पद्मपुष्पासहस्त्रेभ्यो बकपुष्पं विशिष्यते ॥३२॥
बकपुशःपसहस्रेभ्य एकं धत्तूरकं तथा ।
धूत्तरकसहस्त्रेभ्यो बृहत्पुष्पं विशिष्यते ॥३३॥
बृहत्पुष्पसहस्त्रेभ्यो द्रोणपुष्पं विशिष्यते ।
द्रोणपुष्पसहस्रेभ्यः अ(भ्यो ह्य) पामार्गं विशिष्यते ॥३४॥
अपामार्गसहस्रेभ्यः श्रीमन्नीलोत्पलं वरम् ।
नीलोत्पलसहस्रेण यो मालां संप्रयच्छति ॥३५॥
शिवाय विधिवद्भक्त्या तस्य पुण्यफलं शृणु ।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥३६॥
वसेच्छिवपुरे श्रीगाञ्शिवतुल्यपराक्रमः ।
करवीरसमा ज्ञेया जाती विजयपाटला ॥३७॥
श्वेतमन्दारकुसुमं सितपद्मं च तत्समम् ।
नागचम्पकपुंनागा धत्तोरकसमाः स्मृताः ॥३८॥
बन्धूकं केतकीपुष्पं कुन्दयूथीमदन्तिकाः ।
शिरीषं चार्जुनं पुष्पं प्रयत्नेन विवर्जयेत् ॥३९॥
कनकानि कदम्वानि रात्रौ देयानि शंकरे ।
दिवा शेषाणि पुष्पाणि दिवा रात्रौ च मल्लिकाः ॥४०॥
प्रहरं तिष्ठते जाते करवीरमहर्निशम् ।
केशकीटापविद्धानि शीर्णपर्युषितानि च ॥४१॥
स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ।
मुकुलैर्नार्चयेद्देशं यस्य कस्यापि नारद ॥४२॥
कलिकैर्नार्चयेद्देवं चम्पकैर्जलजैर्विना ।
न पर्युषितदोषोऽस्ति जलजोत्पलचम्पकैः ॥४३॥
पुष्पाणामप्यलाभे तु पत्राण्यपि निवेदयेत् ।
फलानामप्यलाभे तु तृणगुल्मौषधैरपि ॥४४॥
औषधानामभावे तु भक्त्या भवति पूजितः ।
बिल्वपत्रैरखण्डेस्तु सकृत्पूजयते शिवम् ॥४५॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।
धत्तोरकैस्तु यो लिङ्गं सकृत्पूजयते नरः ॥४६॥
गोलक्षस्य फलं प्राप्य शिवलोके महीयते ।
बृहतीकुसुमैर्भक्त्या यो लिङ्गं सकृदर्चयेत् ॥४७॥
गवामयुतदानस्य फलं प्रपय शिवं ब्रजेत् ।
मल्लिकोत्पलपुष्पाणि नागपुंनागचम्पकैः ॥४८॥
अशोकश्वेतमन्दारकर्णिकारवकानि च ।
करवीरार्कमन्दारशमीतगरकेसरम् ॥४९॥
कुशापामार्गकुमुदकदम्बकुरवैरपि ।
पुष्पैरेतैर्यथालाभं यो नरः पूजयेच्छिवम् ॥५०॥
स यत्फलमवाप्नोति तदेकाग्रमनाः शृणु ।
सूर्यकोटिप्रतिकाशैर्विमानैः सार्वकामिकै ॥५१॥
पुष्पमालापरिक्षिप्तैर्गीतवादित्रनिःस्वनैः ।
तन्त्रीमधुरनादैश्च स्वच्छन्दगमनैस्तथा ॥५२॥
रुद्रकन्यासमाकीर्णैः समन्तादुपशोभितैः ।
दोधूयमानश्चमरैः शिवलोके महीयते ॥५३॥
अनेकाकारविन्यासैः कुमुदैश्व शिवं गृहम् ।
यः कुर्यात्पर्वकालेषु विचित्रकुसुमोज्वलम् ॥५४॥
स पुष्पकविमानेन सहस्रपरिवारितः ।
दिव्यस्त्रीसुखसौभाग्यक्रीडारतिसमन्वितः ॥५५॥
अक्षयाल्लभते लोकानतिरस्कृतशासनः ।
शिवादिसर्वलोकेषु यत्रेष्टं तत्र याति सः ॥५६॥
पूजादिभक्तिविन्यासैरर्चनादिषु सर्वतः ।
फलमेकं समं ज्ञेयं फलं वित्तानुसारतः ॥५७॥
स्वयमुत्पाद्य पुष्पाणि यः स्वयं पूजयेच्छिवम् ।
तानि साक्षात्प्रगृह्णाति देवदेवो महेश्वरः ॥५८॥
कृष्णागरोः सकर्पूरधूपं दद्याच्छीवाय वै ।
नैरन्तर्येण मासार्धं तस्य पुण्यफलं शृणु ॥५९॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
भुक्त्वा शिवपुरे भोगांस्तदन्ते पृथिवीपतिः ॥६०॥
गुग्गुलं धृतसंयुक्तं साक्षाद्गृह्णाति शंकरः ।
मासार्धं धूपदानेन शिवलोके महीयते ॥६१॥
कृष्णपक्षे चतुर्दश्यां यः साज्यं गुग्गुलं दहेत् ।
स याति परमं स्थानं यत्र देवं पिनाकघृत् ॥६२॥
श्रीफलं चाऽऽज्यसंमिश्रं दत्त्वाऽऽप्नोति परां गतिम् ।
एभिः सुगन्धितो धूपः षट्सहस्रगुणोत्तरः ॥६३॥
यस्त्वर्कसंपुटे कृत्वा गधु चार्घस्य मन्त्रतः ।
निवेदयाति शर्वाय सोऽश्वमेधफलं लभेत् ॥६४॥
शालितण्डुलप्रस्थेन कुर्यादन्नं सुसंस्कृतम् ।
शिवाय तच्चरुं दत्त्वा चतुर्दश्यां विशेषतः ॥६५॥
यावन्तस्तण्डुलास्तस्मिनैवेद्ये परिसंख्यया ।
तावद्वर्षसहस्राणि शिवलोके महीयते ॥६६॥
गुडखण्डघृतानां च भक्ष्याणां च निवेदनात् ।
घृतेन षाचितानां तु दत्त्वा शतगुणं भवेत् ॥६७॥
घृतदीपप्रदानेन शिवाय शतयोजनम् ।
विमानं लभते दिव्यं सूर्यकोटिसमप्रभम् ॥६८॥
यः कुर्यात्कार्तिके मासि शोभनां दीपमालिकाम् ।
घृतेन च चतुर्दश्याममावास्यां ( यां वा ) विशेषतः ॥६९॥
सूर्यायुतप्रतीकाशस्तेजसा भासयन्दिशः ।
तेजोराशिर्विमानस्थः सूर्यबद्द्योतते सदा ॥७०॥
* ( अत्र शर्वरात्र्यागित्यपेक्षितमिति प्रतिभाति । )
शिरसा धारयेद्दीपं सर्वरात्र्यां * विशेषतः ।
ललाटे वाऽथ हस्तभ्यां शिरसा वाऽथ नारद ॥७१॥
सूर्यायुतप्रतीकाशैर्विमानैः सार्वकामिकैः ।
कल्पायुतशतं दिव्यं शिवलोके महीयते ॥७२॥
शिवस्य पुरतो दत्त्वा दर्पणं च सुनिर्मलम् ।
चन्द्रांशुनिर्मलः श्रीमान्सुभगः कामरूपधृत् ॥७३॥
कल्पायुतसहस्रं तु शिवलोके महीयते ।
कृत्वा प्रदक्षिणं भक्त्या शिवस्याऽऽयतनं नरः ॥७४॥
अश्वमेघसहस्रस्य फलमाप्नोति नारद ।
कूपारामप्रपाद्यैस्तु शिवायतनकर्मणि ॥७५॥
उपयुक्तानि भूतानि खननोत्पातनादिषु ।
कामतोऽकामतो वाऽपि स्थावराणि चराणि च ॥७६॥
शिवं यान्ति न संदेहः प्रसादात्परमेष्ठिनः ।
क्रोशमात्रं शिवक्षेत्रं समन्तात्परमेष्ठिनः ॥७७॥
देहिनां तत्र पञ्चत्वं शिवसायुज्यकारणम् ।
मनुष्यस्थापिते लिङ्गे क्षेत्रमानमिदं स्मृतम् ॥७८॥
स्वायंभुवे योजनं स्यादार्षे चैव तदर्घकम् ।
पापाचारोऽषि यस्तत्र पञ्चत्वं याति नारद ॥७९॥
सोऽपि याति शिवस्थानं यद्देवैरपि दुर्लभम् ।
* ( इदं श्लोकार्धं कखगघजझसंज्ञितपुस्तकेषु नास्ति । )
* तस्मात्सर्वप्रयत्नेन तत्र स्नानादिकं चरेत् ॥८०॥
= ( ङछसंज्ञितयोः पुस्तकयोस्तस्मादित्यादिर्व्रजेदित्यन्तः सार्धः श्लोको नास्ति । )
= तस्मादावसथं कुर्याच्छिवक्षेत्रसमीपतः ।
शिवलिङ्गसमीपस्थं यत्तोयं पुरतः स्थितम् ॥८१॥
शिवगङ्गेति संज्ञेयं तत्र स्नानादिना व्रजेत् ।
यः कुर्याद्दीर्षिकां वाऽपि कूपं वाऽपि शिवाश्रमे ॥
त्रिःसप्तकुलसंयुक्तः शिवलोके महीयते ॥८२॥३७२२॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे पञ्चाक्षरमन्त्रप्रभावादिकथनं नाम पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP