सौरपुराणं - अध्यायः ५४
सौरपुराणं व्यासकृतम् ।
सूत उवाच -
दग्धे रतिपतौ शंभुरुवाचाचलकन्यकाम् ।
किमहं तव दैवेशि करोमि मनसि स्थितम् ॥१॥
वरं ब्रूहि महादेवि दास्याम्यद्य सुरेश्वरि ।
मयि प्रसन्ने देवेशि किं दुर्लभमिहास्ति ते ॥२॥
श्रीपार्वत्युवाच -
हते तु कामे वद नीलकण्ठ वरेण किं देव करोमि तेऽद्य ।
विनैव कामेन न चास्ति भावः स्त्रीपुंसयोर्भास्करकोटिकल्पः ॥३॥
भावस्य हानेः सुखसंनिकर्षः कथं भवेद्ब्रूहि सुरेशवन्द्य ।
उवाच भूयो मदनान्तकारी देहे न चाहं मदनं सुनेत्रे ॥
नेत्रस्य चैव ज्वलनात्मकस्य स्वरूपमेतद्वद किं करोमि ॥४॥
देव्युवाच -
बालेति मत्वा भव भूतनाथ व्यामोह [ मुह्य ] से किं त्वमनिन्द्यवय ।
स्वतन्त्रवृत्तिर्यदि वा तवैषा तदा दहेर्मामपि चाग्रसंस्थाम् ॥५॥
यदि विश्वेश्वरो देवो ब्रह्मादीनां हरः शिवः ।
प्रतारणे प्रवृत्तश्चेत्को निवारयितुं क्षमः ॥६॥
नाहं प्रतार्या भगवंस्त्वामहं शरणं गता ।
गतिर्नान्याऽस्ति मे देव तस्मान्मां त्रातुमर्हसि ॥७॥
त्वमेव चक्षुर्जगतस्त्वमेव वचसां पतिः ।
त्वमेव धाता जगतो विधाता विश्वतोमुख ॥८॥
नमाम्यहं देववरं पुराणमुपेन्द्रवेधोमरराजजुष्टम् ।
शशाङ्कसूर्याग्निमयं त्रिनेत्रं ध्यानाधिगम्यं जगतः प्रकाशम् ॥९॥
त्वां वाड्मयाधारमनन्तवीर्यं ज्ञानार्णवं चैव गुणार्णवं च ।
परापरं धामनिधिं सुसूक्ष्ममनादिमध्यान्तविहीनरूपम् ॥१०॥
हिरण्यगर्भं जगतः प्रसूतिं नमामि देवं हरिणाङ्कचिह्नम् ।
पिनाकपाशाङ्कुशशूलहतं कपर्दिनं मेघसहस्रघोषम् ॥११॥
तमालकण्ठं स्फटिकावदातं नमामि शंभुं भुवनैकसिंहम् ।
* दशार्धवक्त्रं सुरसिन्धुशीर्षं शशाङ्कचिह्नं नरसिंहदारुणम् ॥१२॥
त्वां नमाभि शरभरूपधरोरगेन्द्रराजहारं चलद्वलयभूषणं हरम् ।
वरविबुधमुकुटार्चिताङ्घ्रिं नमामि हि हरिचर्मवसनं त्वाम् ॥१३॥
यदक्षरं निर्गुणमप्रमेयं यज्ज्योतिरेकं प्रवदन्ति सन्तः ।
दूरंगमं देवमनन्तमूर्तिं नमामि सूक्ष्मं परमं पवित्रम् ॥१४॥
नमामि रुद्रं प्रमथाधिनाथं धर्मासनस्थं प्रकृतिद्वयस्थम् ।
तेजोनिधिं बालशशाङ्कमौलिं कालेन्धनं वह्निरवीन्दुनेत्रम् ॥१५॥
सूत उवाच -
प्रसन्नोऽथाब्रवीद्देवीं कालीं त्रिपुरहा हरः ।
वरयस्व वरं देवि ददामि तव सुव्रते ॥१६॥
देव्युवाच -
जीवत्वयं महादेव कामो लोकप्रतापनः ।
विना कामेन भगवन्नाहं याचे कथंचन ॥१७॥
ईश्वर उवाच - भवत्वनङ्गो मदनस्त्वत्प्रिवार्थं सुलोचने ।
तेन रूपेण लोकस्य क्षोभणाय भवत्वलम् ॥१८॥
तदोत्थितो वायुरिवाप्रमेयस्त्वनङ्गरूपो मकरध्वजश्च ।
हरस्य वाक्यादुमयेरितश्च सचापबाणः सरतिर्बभूव ॥१९॥
इति प्रीत्या महेशानो बरं दत्त्वा हरः स्वयम् ।
स्मरस्य पञ्चवाणस्य तत्रैवान्तरधीयत ॥२०॥
यः पठेदिममध्यायं भक्त्या देवस्य संनिधौ ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥२१॥३०१८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे महादेववरप्रदानं नाम चतुष्पञ्चाशोऽध्यायः ॥५४॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP