सौरपुराणं - अध्यायः ५७
सौरपुराणं व्यासकृतम् ।
सूत उवाच -
मण्डपं निर्मितं श्रुत्वा शंकरो विश्वकर्मणा ।
शैलादिमब्रवीद्देवो विश्वेशो विश्वपूजितः ॥१॥
श्रीभगवानुवाच -
हितार्थं सर्वदेवानामस्माकं च विशेषतः ।
विवाहयज्ञ आरब्धो नगराजेन धीमता ॥२॥
दानार्थमद्रिकन्यायाः प्रस्थितो हिमवान्स्वयम् ।
अहं तत्र गमिष्यामि सुरैर्ब्रह्मादिभिः सह ॥३॥
त्वमिहाऽऽयाहय सुरान्कालान्ग्यादीन्द्विजांस्तथा ।
द्वीपांश्च सागरांश्चैव पर्वतांश्च नन्दीस्तथा ॥४॥
मन्डपं सुन्दरं यत्र निर्मितं विश्वकर्मणा ।
तत्र तिष्ठत्युमा देवी मम ध्यानपरायणा ॥५॥
विद्युल्लतेव भासन्ती चन्द्रकोटिनिभानना ।
एवमुक्तो महेशेन नन्दी सूर्यायुतप्रभः ॥६॥
नत्वा विश्वेश्वर देवं ध्यानारूढस्तदाऽभवत् ।
ध्यातः क्षणात्समायातः कालाग्निर्विश्वदाहकः ॥७॥
रुद्रैः परिवृतो देवः कोटीकोटीगणेश्वरैः ।
ततोऽब्रवीत्स कालाग्निः सर्वज्ञं नन्दिकेश्वरम् ॥८॥
किमर्थमहमाहूतो देवदेवेन शंभुना ।
उपस्थितो वा प्रलयः संहरिष्यामि तत्क्षणात् ॥९॥
एवमुक्तस्तदा तेन शैलादिस्तमथाब्रवीत् ।
प्रलयार्थं न चाऽऽहूतस्त्वं विश्वेशेन शंभुना ॥१०॥
ग्रहीष्यति गिरेः पुत्री पत्नीत्वेन महेश्वरः ।
तदर्थं त्वमिहाऽऽहूतो ब्रह्माद्याय्श्च दिवौकसः ॥११॥
नन्दिनो वचनं श्रुत्वा कालाग्निरिदमब्रवीत् ।
द्रष्टुकामा वयं सर्वे ब्रह्माद्याः शूलपाणीनम् ॥१२॥
शीघ्रं दर्शय शैलादे निर्वृताः स्मो यथा वयम् ।
विज्ञापय महादेवं ब्रह्माद्याश्चाऽऽगता इति ॥१३॥
सर्वे त्वद्द्याननिरताः सर्वे त्वदर्शनोत्सुकः ।
कालाग्निप्रमुखाणां च वचः श्रुत्वा गणाग्रणीः ॥१४॥
नन्दिकेश्वर उवाच -
ब्रह्माद्याश्चाऽऽगताः सर्वे शूलपाणे तवाऽऽज्ञया ।
द्रष्टुमिच्छन्ति ते सर्वे नमस्कर्तुं तथा मुदा ॥१५॥
दिशाऽऽदेशं पुरारे मां किं वक्ष्यामि सुरासुरान् ।
वारिता द्वारमूलेषु द्रष्टुकामाश्चा संस्थिताः ॥१६॥
यत्ते निरुपयं रूपं तेजोमयमनिन्दितम् ।
यदधोभागमाश्रित्य रुद्रः कालाग्निसंज्ञितः ॥१७॥
पश्यन्तु चैते भूतेशं शूलं चैव सदोजऽवलम् ।
ततो विवेश कालाग्रिर्विष्णुर्ब्रह्मा शतक्रतुः ॥१८॥
अन्ये च देवगन्धर्वा ऋषयो मनवस्तथा ।
सर्वे कोलाहलं कृत्वा देवासुरमहोरगाः ॥१९॥
विविशुर्हरसंस्थानं नद्याद्या इव सागरम् ।
प्रविश्य भवने रम्ये नानाधातुविचित्रिते ॥२०॥
गणकोटिसमाकीर्णे रुद्रकोटिसुसेविते ।
अग्रजन्मगुरुः पूर्वं रुद्रैर्देवैवृर्तस्तदा ॥२१॥
भवारिमन्धकारिं तमपश्यदन्तकानलः ।
मुक्ताचलप्रतीकाशं जगदानन्दकारिणम् ॥२२॥
नीलकण्ठं त्रिनेत्रं च शूलिनं सर्वतोमुखम् ।
कोटिसूर्यप्रतीकाशं जगदानन्दकारिणम् ॥२३॥
कपालमालिनं देवं कपर्दकृतभूषणम् ।
दशबाहुं दशार्धास्यमनन्तं तेजसां निधिम् ॥२४॥
जगदुत्पत्तिसंहारस्थित्यनुग्रहकारिणम् ।
अप्रमेयमनाकारमप्रपञ्चमनाकुलम् ॥२५॥
सिंहासनस्थमचलं चराचरविभूतिदम् ।
क्षीरोदमिव निष्कम्यं त्रैलोक्यप्रभवं शिवम् ॥२६॥
सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वमावृत्य संस्थितम् ॥२७॥
सुरासुरैर्वन्द्यमानं ध्यायमानं मुमुक्षुभिः ।
इदं रूपं समालोक्य देवदेवस्य शूलिनः ॥२८॥
अग्रे स्थितः स कालाग्निर्मेरौ मेरुरिवाषरः ।
अथोवाच स शैलादिः प्रणिपत्य सनातनम् ॥२९॥
नरकाणामधोभागे पुरत्रयं प्रतिष्ठितम् ।
योजनायुतविस्तीर्णं कामदं शुभलक्षणम् ॥३०॥
यस्मैवोर्ध्वं निरालम्बं शतयोजनमानतः ।
ज्वालामालाकुलं दिव्यं सर्वलोकभयंकरम् ॥३१॥
प्राकाराट्टालकैर्यृक्तं गोपुरैस्तोरणान्वितम् ।
रक्तनीलसमानाभैर्भीमघोषैर्दुरासदैः ॥३२॥
वृतो रुद्रसहस्त्रैस्तु सिंहरूपैर्महाबलैः ।
नियम्य च स्वकं तेजः प्रीत्यर्थं तेऽधुनाऽऽगतः ॥३३॥
ध्वान्तचामीकराभासश्चन्दनागरुगन्धयुक् ।
नीलकण्ठस्त्रिनेत्रश्च बृषकेतुर्महाबलः ॥३४॥
द्वीपिचर्मपरीधानः पञ्चवक्त्रेन्दुभूषणः ।
अनन्तमेखलाधारी कुण्डलीकृतवक्षकः ॥३५॥
दशबाहुर्महातेजाः पीनवक्षा महाभुजः ।
प्रलयोदनिधेर्घोषो रक्तनीलमहातनुः ॥३६॥
आगतः सौम्यरूपेण तव देव समीपतः ।
पश्यतां मृदुभावेन देवदेव जगत्पते ॥३७॥
एते चैव महावीर्याः कालाग्नेस्तु समीपतः ।
तिष्ठन्ति ज्वलनाभासा रुद्राश्च शतकोटयः ॥३८॥
त्वन्नियोगान्महादेव कालाग्न्यादेशकारिणः ।
तिष्ठन्ति स्वपुरे रम्ये क्रीडमाना मनोस्मे ॥३९॥
तवानुज्ञागता ह्येते शशाङ्कमौलिनोऽमलाः ।
शुद्धस्फटिकसंकाशाः पद्मरागसमप्रभाः ॥४०॥
तडिद्भ्रमरसंकाशाः वज्रशूलधनुर्धराः ।
नीलकठास्त्रिनेत्राश्च सुखदुःखअविवर्जिताः ॥४१॥
सर्वाभरणसंपन्ना अनन्तबलविक्रमाः ।
जरामरणनिर्मुक्ताः शार्दुलचर्मवाससः ॥४२॥
इमानपि महादेवं पश्यन्प्रीतिकरो भव ।
हरिचन्दनलिप्ताङ्गानशोककमलार्चितान् ॥४३॥
दैत्याधिपतयश्चैव प्रह्लादाद्या महाबलाः ।
समागता महादेव नागाः शेषादयः शिव ॥४४॥
सर्वाः पातालवासिन्यो रूपयौवननार्विताः ।
आगता देवदेवेश द्वीषैश्च सह सागराः ॥४५॥
गन्धर्वाः किंनरा यक्षाः सिद्धविद्याधराः शिव ।
उर्वश्याद्याश्चाप्सरसो नद्यः पापहराः शुभाः ॥४६॥
एते च मुनयो देव भृग्वाद्याः प्रथितौजसः ।
संप्राप्तानि पुराणीह शक्रादीनां महात्मनाम् ॥४७॥
एते लोकाः समायातां सत्यन्ताः सप्त शंकर ।
मूर्तयस्तव द्रेवेश भवाद्याश्च समागताः ॥४८॥
आदित्या वसवो रुद्राः साध्याश्चैव मरुद्वणाः ।
सनकाद्या महात्मानः सत्यलोकनिवसिनः ॥४९॥
पद्मरागनिभो देवो बन्धूककुसुमद्युतिः ।
जटाभिस्तु शिरोनद्धो रत्नमालाविभूषितः ॥५०॥
कमण्डलुधरः श्रीमान्दण्डहस्तः सुलोचनः ।
कृषाण्जिनोत्तरीयेण रक्तमाल्याम्बरेण च ॥५१॥
सुवर्णमेखलाधारी रौक्मकुण्डलमण्डली ।
हंसध्वजश्चतुर्बाहुः सुरासुरनमस्कृतः ॥५२॥
सावित्र्या सहितो देवः पद्मयोनिरिहाऽऽगतः ।
अतसीपुष्पसंकाशस्तमालदलवर्चसः ॥५३॥
पीताम्बरधरः श्यामः पीतगन्धानुलेपनः ।
शङ्धक्रगदाधारी शार्ङ्गी गरुडवाहनः ॥५४॥
किरीटी कुण्डली हारी कौस्तुभाभरणान्वितः ।
केयूरबलयापीडः पीनवक्षा मदान्वितः ॥५५॥
चामीकरसुमालाभिर्दीप्यमानो विराजते ।
सूर्यायुतप्रतीकाशो नीलोत्पलदलेक्षणः ॥५६॥
क्षीरोदार्णवशायी च नीलजीमूतनिःस्वन ।
रमामर्दितसर्वाङ्गः शेषपर्यङ्कलालसः ॥५७॥
गुरुणां च गुरुर्देव ईश्वराणामपीश्वर ।
वरदो भव वात्सल्यो दैत्यकोटिक्षयंकरः ॥५८॥
आगतोऽयं महादेव विष्णुः प्रियतरस्तव ।
तष्तचामीकरप्रख्यो वज्रहस्तो महाबलः ॥
पट्टांशुकपरीधानो हेममालाविभूषितः ॥५९॥
प्रख्यातवीर्यो बलवृत्रहन्ता बालार्कभासो हरिचन्दनाङ्कः ।
पुंत्रागनौर्गवकुलैश्च जुष्टो मुक्ताफलालंकृतकण्ठदेशः ॥६०॥
अयं समागतः शक्रो वह्निर्वैवस्वतस्तथा ।
नितिर्वरुणो वायुः कुवेरश्च समागतः ॥६१॥
ईशानश्च महाभागस्त्रिंशत्कोटिगणैर्वृतः ।
आगतास्त्रिणगद्योने पिनाकी च गणेश्वरः ॥६२॥
* ( खगझसंज्ञितपुस्तकेषु कालकण्ठ इत्यादि दशकोटिगणैर्युक्त इत्यन्तं शब्दजातं नास्ति । )
दशकोटिगणैर्युक्तः * कालकण्ठस्तथैव च ।
सप्तकोटिगणैर्युक्तो घण्टाकर्णो महाबल ॥६३॥
दशकोटिगणैर्युक्ते वसुघोषो महाबलः ।
चतुष्कोटिगणैर्दण्डी शिखण्डी दशकोटिभिः ॥६४॥
षड्भिर्मयूरवदनः सिंहास्यो दशकोटिभिः ।
सप्तकोटिगणैर्युक्तः किरीटी च समागतः ॥६५॥
कालान्तकस्तु दशांभिर्नकुली दशकोटिभिः ।
षड्भिस्तु मुण्डमाली च त्रिशुली पञ्चकोटिभिः ॥६६॥
अष्टाभिर्विश्वमाली च त्रिमूर्तिर्नवकोटिभि ।
एते गणेश्वराः सर्वे तथा चान्ये गणेश्वराः ॥६७॥
येषां संख्या न जानन्ति ब्रह्माद्या देवतागणाः ।
आगतानां महादेव शृणु कोलाहलं विभो ॥६८॥
अमरेशः प्रभासश्च पुष्करो नैमिषस्तथा ।
आषाढी दण्डी मुण्डी च भारभूतिस्तथा कुली ॥६९॥
तीर्थाधिपतयो देवा आगता दिव्यमूर्तयः ।
एते गुह्याष्टका देव कामरूपा महाबलाः ॥७०॥
तवाऽऽज्ञयाऽऽगता देव ब्रह्माण्डान्तरवासिनः ।
कोटिकोटिगणैर्युक्ता देवदेव महेश्वर ॥७१॥
विश्वेश्वरजटॊद्भूता सिन्धुश्चैव सरस्वती ।
यमुना गण्डकी नागा विपाशा नर्मदा शिवा ॥७२॥
रुक्मा घण्टा च निर्विन्ध्या देविका च दृषद्वती ।
शतद्रुश्च पयोष्णी च चन्द्रभागा च गोमती ॥७३॥
चर्मण्वती च कावेरी सरयूश्च परावती ।
धूतपापा च सारथ्या माणा माला सुगन्धिका ॥७४॥
जम्बू तापी वनी शूरा कौशिकी कुमुदा करा ।
मन्दाकिनी चन्द्रलेखा चम्पकाऽऽमोदवाहिनी ॥७५॥
ऐरावती कामवेगा प्रेङ्खला कामचारिणी ।
पूर्णभद्रा महामोदा गम्भीरावर्तिनी स्मृता ॥७६॥
मेघमाला मेघवराण सदानीरा च नन्दिनी ।
वेदा वेदवती वीणा सीता चित्रोत्पला तथा ॥७७॥
वेत्रवसी च वृत्रघ्नी पिप्पला जञ्जली तथा ।
खरजा कुमुदा शिक्षा कौशिकी निषधा सिता ॥७८॥
वैतारणी सिनीवाली वेगवती पुनःपुना ।
गौरी कृष्णा तथा दुर्गा तुङ्गभद्रोत्पलावती ॥७९॥
स्वर्णा भीमरथी शुद्धा कृतमाला तरङ्गिणी ।
एता देवा महानद्यः पावनाः कल्मषापहाः ॥८०॥
मूर्तिमत्यस्तवेशान उत्सवे त्विह आगताः ।
सर्वा एता महादेव पश्य कारुण्यवारिधे ॥८१॥
भवन्ति कृतिनः सर्वे त्वयि दृष्टे महेश्वर ।
एवमुक्त्वा तदा नन्दी देवदेवस्य चाग्रतः ॥८२॥
पपात दण्डवद्भूमौ भक्त्या परमया युतः ।
नन्दिनं तं महात्मानं दृष्ट्वा विश्वेश्वरः प्रभुः ॥८३॥
प्रीतो भूत्वाऽऽह कालारिर्मन्दरे चारुकन्दरे ॥८४॥
इदं यः पठते नित्यं शृणुयाद्वाऽपि भक्तितः ।
प्रीताः स्युर्देवताः सर्वास्तस्याभीष्टफलप्रदाः ॥८५॥३१६६॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे कालाग्न्याद्यागमनवर्णनं नाम् सप्तपञ्चाशोऽध्यायः ॥५७॥
N/A
References : N/A
Last Updated : December 05, 2016
TOP