संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २९

सौरपुराणं - अध्यायः २९

सौरपुराणं व्यासकृतम् ।


* ( कखगसंज्ञितपुस्तकेषु सुत उवाचेदि पदद्वयं नास्ति ।
* सूत उवाच -
हते हिरण्यकशिपौ प्रह्लादो दैत्यसत्तमः ।
हिरण्याक्षं महाबाहुं राज्ये समभियोजयत् ? ) ॥१॥
सोऽपि देवान्रणे जित्वा स्वर्गात्ते वै पलायिताः ।
हिरण्याक्षो महादेवं तपसाऽऽराध्य चान्तकम् ॥२॥
लभे पुत्रं महाबाहुं सर्वामरनिषूदनम् ।
हिरण्याक्षभयाद्देवाः शार्ङ्गिंणं शरणं गताः ॥३॥
दृष्ट्वान्थ भगवान्देवान्हिरण्याक्षवधाय वै ।
वाराहं रूपमास्थाय हिरण्याक्षो निषूदितः ॥४॥
हते तस्मिन्हिरण्याक्षे प्रह्लादो वैषणवाग्रणीः ।
त्यक्त्वा तु तामसीं वृत्तिं स्वकीयं राज्यमास्थितः ॥५॥
ततः कदाचिद्देवानां मायया मोहितोऽभवत् ।
कंचन ब्राह्मणं दृष्ट्वा कृशाङ्गं गृहमागतम् ॥६॥
अवज्ञामकरोद्दैत्यः शप्तस्तेनाग्रजन्मना ।
बलं यस्य समाश्रित्य दैत्य मामवमन्यसे ॥७॥
भक्तिर्विनश्यतु क्षिप्रं तव देवे जनार्दने ।
इति शप्तवा यथौ विप्रः स्वाश्रमं मुनिपुंगवाः ॥८॥
अथ दैत्यपतिर्युद्धमकरोद्विष्णुना सह ।
पितुर्वधमनुमृत्य देवाश्चान्मे विनिर्जिताः ॥९॥
अनुग्रहाद्भगवतः पूर्वस्मादैत्यराट् पुनः ।
त्यक्त्वा मायामयं सर्वं शार्ङ्गिणं शरणं ययौ ॥१०॥
अभिषिच्यान्धकं राज्ये योगयुक्तोऽभवत्स्वयम् ।
अथ देवो महादेवः शरण्यः सर्वदेहिनाम् ॥११॥
केनापि हेतुना भिक्षामकरोद्ब्राह्मणैः सह ।
संस्थाप्य मन्दरे देवी गिरिजां गिरिजापतिः ॥१२॥
सनारायणकान्देवानकरोत्पार्श्वगाञ्शिवः ।
स्त्रीरूपधारिणो देवाः सेवन्ते पार्वती तदा ॥१३॥
संस्थाप्य नन्दिप्रमुखानसंख्यातान्गणेश्वरान् ।
भैरवं च समादिश्य नन्दिनं द्वारकेशतः ॥१४॥
एतस्मिन्नन्तरे प्रपतो मन्दरं चान्धकासुरः ।
आहर्तुकामः शर्वाणीं तं दृष्ट्वा कालभैरवः ॥१५॥
ताडयामास शूलेन पपात भुवि मूर्च्छितः ।
पुनरुत्थाय वेगेन गदामादाय दैत्यराट् ॥१६॥
भैरवं ताडयामास तथा चान्यान्गणेश्वरान् ।
दृष्ट्वा तदद्भुतं युद्धं विष्णुर्दानवमर्दनः ॥१७॥
* ( अत्र सर्वेष्वप्यादर्शपुस्तकेषु शक्तय इति प्रथमविभक्त्यन्तं पदं वर्तते । प्रथमा बोधम् । आर्षत्वात् । )
असृजच्छक्तयो * दिव्यास्ताभिर्दैत्यः पराजितः ।
ततो वधाय भगवन्रुद्रो मन्दरपर्वतम् ॥१८॥
प्राप्तो यत्र स्थिता देवी देवैः सह गणेश्वरैः ।
दृष्टा विश्वेश्वरं देवी शीघ्रं परमया मुदा ॥१९॥
ननाम शिरसा भक्त्या भर्तश्चरणपङ्कजम् ।
प्रणभ्य दण्डवद्विष्णुं यद्वृत्तं तन्न्यदेद्यत् ॥२०॥
श्रुत्वा तद्विस्मितो भूत्वा देव्या सह वरासने ।
उपविष्ठस्तदा सर्वे देवाः प्राञ्जलयः स्थिताः ॥२१॥
अथास्मिन्नन्तरे प्राप्तो हिरण्यनयनात्मभूः ।
युयुधे स सुरैः सार्थं मातॄभिश्चः गणैः सह ॥२२॥
तेन ते निर्जिता देवाः शक्राद्याः सह मातृभिः ।
युद्धं तदुद्भुतं दृष्ट्वा शार्ङ्गी शंकरमब्रवीत् ॥२३॥
बथाऽसौ हन्यते दैत्यस्तथोपायं कुरु प्रभो ।
एवं हरेर्वचः श्रुत्वा शंकरः कालभैरवम् ॥२४॥
वधाय प्रेषयामास दैत्येन्द्रस्य वलीयसः ।
ततः स भैरवः शंभोः शिवस्याऽऽज्ञां विधाय च ॥२५॥
आदाय सहसा शूलं ययौ दैत्यस्य संगरम् ।
शूलाग्रेण विनिर्भिद्य ननर्त स्वात्मलीलया ॥२६॥
शूलाग्रे स्थापिते दैत्ये ब्रह्माद्या मुxयस्तदा ।
अस्तुवन्विविधै स्तोत्रैर्हृष्टोः लोकस्तदाऽभवत् ॥२७॥
अन्धक उवाच -
नमामि मूर्ध्ना भ्गवन्तमेकं समाहिता यं विदुरीशतत्त्वम् ।
पुरातनं पुण्यमनन्तरूपं कालं कविं योगवियोगहेतुम् ॥२८॥
दष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्क्ररूपम् ।
सहस्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि रुद्रम् ॥२९॥
जयादिदेवामरपूजिताङ्घ्रे विभागहीनामलतत्त्वरूपम् ।
त्वमग्निरेको बहुधा विभज्यसे वाद्यादिभेदैरखिलात्मरूपः ॥३०॥
त्वामेकमाहुः पुरुषं पुराणमादित्यवर्णं तमसः परस्तात् ।
त्वं पश्यसीदं परिपास्यजस्रं त्वमन्तको योगिगणाभिजुष्ट ॥३१॥
एकान्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः ।
त्वमात्मतत्त्वं परमार्थशब्दं भवन्तमाहुः शिवमेव केचित् ॥३२॥
त्वमक्षरं ब्रह्म परं पवित्रमानन्दरूपं प्रणवाभिधानम् ।
त्वमीश्वरो वेदविदेषु सिद्धः स्वायंभुवोऽशेषविशेषहीनः ॥३३॥
त्वमिन्द्ररूपो वरुणोऽग्रिरूपो हंसः प्राणो मृत्युरन्नाधियज्ञः ।
प्रजापतिर्भगवानेकरूपो नीलग्रीव स्तूयसे वेदविद्भिः ॥३४॥
नारायणस्त्वं जगतामनादिः पितामहस्त्वं प्रपितामहश्च ।
वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरोऽसि ॥३५॥
नमः परस्तात्तमसः परस्मै परात्मने पञ्चपरान्तराय ।
त्रिमूर्त्यतीताय निरञ्जनाय सहस्रशक्त्यासनसंस्थिताय ॥३६॥
त्रिमूर्तयेऽनन्तपरात्ममूर्तये जगन्निवासाय जगन्मयाय ।
नमो ललटापिंतलोचनाय नमो जनानां हृदि संस्थिताय ॥३७॥
फणीण्द्रहाराय नमोऽस्तु तुब्यं मुनीन्द्रसिद्धाचिंतपादपद्म ।
ऐश्वर्यघर्मासनसंस्थिताय नमः परान्ताय भवोद्भवाय ॥३८॥
सहस्रचन्द्रार्कसमूहमूर्तये नमोऽग्निचन्द्रार्कत्रिलोकनाय ।
नमोऽस्तु सोमायनमघ्यमाय नमोऽस्तु देवाय हिरण्यवाहवे ॥३९॥
नमोऽतिगुह्याय गुहान्तराय वेदान्तविज्ञानविनिश्चिताय ।
त्रिकालहीनामलधामधाम्ने नमो महेशाय नमः शिवाय ॥४०॥
स्तवेनानेन भगवान्प्रीतो भूत्वाऽथ भैरवः ।
अवरोह्य च शूलाग्रातुवाच परमेश्वरः ॥४१॥
त्वयाऽहं स्तोत्रवर्येण तोषितो दैत्यपुंगव ।
प्रीतोऽस्मि तव दास्यामि गाणपत्यं हि दुर्लभम् ॥४२॥
नन्दीश्वरसमो वत्स भृङ्गी नाम गणो भव ।
एवं लब्धवरो दैत्यः कोटिसूर्यसमप्रभः ॥४३॥
नीलकण्ठस्त्रिनेत्रश्च वृषकेतुर्जटाधरः ।
तं दृष्ट्वा देवताः सर्वा हर्षनिर्भरमानसाः ॥४४॥
तुष्टुवुर्गणराजं तं भैरवस्य समीपगम् ।
अथ शंभोः समीपस्थां देवीं विश्वेश्वरीं शिवाम् ॥४५॥
संस्तूय सर्वभावेन शरणागतवत्सलाम् ।
पुत्रत्वे जगृहे दैत्यं xतेन मनसा शिवा ॥४६॥
ततोऽनुज्ञां महेशस्य लब्ध्वाऽसौ कालभैरवः ।
मातृभिः सह विश्वात्मा पाताले स्वपुरं ययौ ॥४७॥
* ( घङछसंज्ञितपुस्तकेषु श्लोको न विद्यते । )
* विष्णोर्भगवती मूर्तिर्यत्राऽऽस्ते तामसी परा ।
अथ तां भैरवो दृष्ट्वा मुदा तां परिषस्वजे ॥४८॥
एकैव मूर्तिरभवत्तयोर्भैरवशार्ङ्गिणोः ।
कालाग्निभरवो योऽसौ स एव नृहरिः स्वयम् ॥४९॥
भगवान्नृहरिर्योऽसौ स एव किल भैरवः ।
नृहरेः पूजनान्नूनं प्रीतो भवति भैरवः ॥५०॥
पूजनाद्भैरवस्यवै नृहरिः पूजितो भवेत् ।
ये पश्यन्ति तयोर्भेदं मायया मोहिता जनाः ॥५१॥
निरये ते विपच्यन्ते यावदाभूतसप्लवम् ॥५२॥
तस्मात्पूज्या सदा मूर्ती रुद्रनारायणात्मिका ।
प्रीता भूत्वा भगवती भवत्यज्ञानहारिणी ॥५३॥
एवं संक्षेपतः प्रोक्तो मयाऽन्धकवधो द्विजाः ।
प्रादुर्भावो भैरवस्य तस्य चैव पराक्रमः ॥५४॥
इमं यः पठतेऽध्यायं महादेवस्य संनिधौ ।
सर्वपापविनिर्मुक्तः शिवस्यानुचरो भवेत् ॥५५॥१२८३॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे हिरण्याक्षवधादिकथनं नामोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP