संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६३

सौरपुराणं - अध्यायः ६३

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
एवं गत्वा सहस्राक्षो यत्राऽऽस्ते पार्वतीसुतः ।
बालं सूर्यायुतप्रख्यं तमपश्यच्छचीपतिः ।
प्रलयाग्निचयाकारं दृष्ट्वा नारदमब्रावीत् ॥१॥
इन्द्र उवाच -
इदं किं भाति देवर्षे मेरोः शतगुणोच्छ्रयम् ।
तेजसा व्याप्तभुवनं सर्वभूतभयंकरम् ॥२॥
एवं शक्रवचः श्रुत्वा भगवान्पद्मभूसुतः ।
ऐरावतगजारूढं शचीपतिमथाब्रवीत् ॥३॥
नारद उवाच -
योऽसौ देव त्वया न्यस्तो गर्भश्चैव सहामरैः ।
तस्यैवैष प्रभावोऽवं नूनं देव शतक्रतो ॥४॥
भास्कराणां न पुञ्जोऽयं नैव पर्वतसंचयः ।
बालेनोत्पाद्यमानेन सह देवैश्च रञ्जितः ॥५॥
अधो योजनसंख्याभिः सहस्राण्येव षोडश ।
चतुरशीतिरुत्सेधो द्वात्रिंशद्विस्तरः स्मृतः ॥६॥
यद्गिरिः सकलोऽयं तु मेरुः काञ्चननां गतः ।
तत्तेजः स्कन्दतां यातं सहस्राब्दैर्गतैस्तथा ॥७॥
चतुर्थ्यां साकृतिर्देव पञ्चम्यामङ्गवांस्ततः ।
षष्ठ्यां पद्भ्यां यथा वैष त्रैलोक्यं विजयिष्यति ॥८॥
त्वया सहायं सप्तम्यां पालयिष्यति वा पुनः ।
त्वं तु नूनं न शक्तोऽसि जेतुं वर्पशतैरपि ॥९॥
कुमारं वरदं देवं पार्वत्यानन्दवर्धनम् ।
नानाप्ग्रहरणोपेतं नानाभरणभूषितम् ॥१०॥
मातृभिर्गणवृन्दैश्च सेव्यमानमुमासुतम् ।
एवं संजल्पमानोऽसौ जम्भारिर्बालकं प्रति ॥११॥
वज्रं मुमोच वृत्रारिः स्फुलिङ्गोद्गारिभीषणम् ।
तृणवन्यन्यमानोऽसौ वज्रं तत्पार्वतीसुतः ॥१२॥
शरेणैकेन विव्याध पपात च स मूर्छितः ।
पुनरन्यं समादाय शरं ज्यलनसंनिभम् ॥१३॥
छत्रं ध्वजं पताकाश्च हरेश्चिच्छेद षण्मुखः ।
* ( घङच्छजसंज्ञितपुस्तयेषु हस्तं व इत्यादि तीक्ष्णेयेत्यम्तं शब्दजातं नास्ति ॥ )
बिभेदान्येन तीक्ष्णेन * हस्तं वै वज्रिणो गुहः ॥१४॥
शरेणाऽऽदित्यतुल्येन रुरुं शंभुर्यथाऽऽहवे ।
पुनर्वाणं समादाय तं जघान शतक्रतुम् ॥१५॥
अपरेण तु तीक्ष्नेन मुकुटं तु तथा हरेः ।
शरेण वह्नितुल्येन चिच्छेद च स लीलया ॥१६॥
यमं च पञ्चभिर्वाणैर्निरृतिं दशभिर्गुहः ।
दशपञ्चशरैराशु वरुणं च विभेद सः ॥१७।
विंशत्या वायुदेवं च रविं च दशपञ्चभिः ।
त्रिंशद्भिः सोमराजानं ताडयित्या रणे पुनः ॥१८॥
शक्रं पञ्चशतैराशु शरैश्च प्राणहारिभिः ।
अन्यानपि सुरान्स्कन्दस्त्रिभिर्द्विपञ्चभिः शरैः ॥१९॥
शूरो नादं प्रमुञ्चन्वै शक्रं दुद्राव शंभुजः ।
वसुभिश्च तथाऽऽदित्यैर्मरुद्भिश्च महाबलैः ॥२०॥
वृतः शस्त्रकरैर्बालः सिंहैः शरभराडिव ।
ततस्तानागतान्दृष्ट्वा देवाञ्शंकरवल्लभः ॥२१॥
केसरीव मृगान्क्षुद्रान्दुद्राव च दिवौकसः ।
पुनः स्कन्दं सहस्राक्षो वज्रेण तमताडयत ॥२२॥
ताडिते तु ततस्तस्मादुत्पन्नाश्चारुमूर्तयः ।
त्रयो देवाश्च वेदाश्च लोकाश्चाग्निदिवाकराः ॥२३॥
ततश्चेदं सहस्राक्षं बृहद्गुरुबृहस्पतिः (?) ।
देवमन्त्री महाप्राज्ञो बृहस्पतिरथाब्रवीत् ॥२४॥
अलं युद्धेन देवेश महादेवस्य सुनुना ।
हितं तवोपदेक्ष्येऽहं सद्वस्त्राक्ष शृणुष्व तत् ॥२५॥
यदीप्ससि सुखं भोक्तुं कुरुष्व वचनं मम ।
अनेन सह संप्रीतिं कृत्वा राज्बमकण्टकम् ॥२६॥
भुङ्क्ष्व त्वं निश्चलं कृत्वा दानवांश्च निषूदय ।
यस्य वज्राभिघातेन नार्तिः स्वल्पाऽपि जायते ॥२७॥
हृन्तव्यः स कथं शक्र शतसंख्यैर्भवादृशैः ॥२८॥
सूत उवाच -
* ( वसंज्ञितपुस्तकेऽयं श्लोको नास्ति । )
* श्रुत्वा तस्य वचः शक्रस्तदा सुरगुरोर्द्विजाः ।
तमेव शरणं प्रायात्कुमारं पार्वतीसुतम् ॥२९॥
इन्द्र उवाच -
प्रसीद गे त्वं शरणागतस्य पादौ तवाहं शिरसा वहामि ।
सुराधिपस्त्वं भव शर्वसूनो गृहाण राज्यं मम शंभुकल्प ॥३०॥
एषोऽञ्जलिः पङ्क्जचारुनेत्र कृतोत्तमाङ्गे(?)जहि मन्युमुग्रम् ।
सतां हि कोपः प्रणतेषु नित्यं विनाशमेत्यार्यगनः सुसिद्धम् ॥३१॥
अथेन्द्रषचनं श्रुत्वा भनवान्षण्मुखस्तदा ।
अबवीत्करुणाविष्टः शक्रं प्रति मुनीश्वराः ॥३२॥
स्कन्द उवाच -
करोमि किमहं राज्यं भोगैश्च प्राकृतैरलम् ।
अपर्याप्तं न मे किंचिदरित पित्रोः प्रसादतः ॥३३॥
निष्कण्टकं त्वमेवेह राज्यं कुरु शचीपते ।
मम सख्येन सकलाञ्शत्रूञ्जहि पुरंदर ॥३४॥
एवं स्कन्दवचः श्रुत्वा पुनराह शचीपतिः ।
भगवन्नापरः कश्चिद्देप्रानां विदितो बली ॥३५॥
तस्मात्कुरु त्वमेवेह राज्यमीश्वरनन्दन ।
क्क बालः क्क च संग्रामः क्क नीतिः क्क पराक्रमः ॥३६॥
क्क ज्ञानमतुलं देव क्क मतिः क्क च सौम्यता ।
क्क माया क्क च दाक्षिण्यं क्क शान्तिः क्क प्रसादता ॥३७॥
अलं त्वमेव राज्यस्य गुणैरेभिरुदीरितः ।
* ( खसंज्ञितपुस्तके स्वरूपेरित्थादिगणकोटिभिरित्यन्तं शब्दजातं नास्ति । )
* स्वरूपैः स्वगुणैस्त्वं हि वन्दिभिश्चारणैस्तथा ॥३८॥
विद्याधरैश्च यक्षैश्च विविधैर्गुणकोटिभिः ।
स्तूयमानोऽमरैः सिद्धैर्गन्धर्वाप्सरसां गणैः ॥३९॥
अहं सेनापतिर्देव भवामि भवनन्दन ।
तिष्ठ्स्वोपरि कृत्स्नस्य त्रैलोक्यं भुङ्क्षुव षण्मुख ॥४०॥
सर्वगः सर्वभूतस्त्वं यथा देवो महेश्वरः ।
एवं शक्रवचः श्रुत्वा पुनः प्राहाम्बिकासुतः ॥४१॥
स्कन्द उवाच -
अभयं शक्र मा भैषीः कुरु राज्यमकण्टकम् ।
इन्द्रस्त्वं देवराजस्त्वं त्वमेव जगतः प्रभुः ॥४२॥
दर्पगर्वबलोदीर्णा दानवा ये च तांस्तदा ।
यैः पराजीयसेऽत्यर्थं सूदयेऽहं त्वया स्मृतः ॥४३॥
बह्वालापैरलं शक्र गदितेन पुनः पुनः ।
निश्चयेन सखाऽहं ते भवाम्यसुरसूदन ॥४४॥
अथोवाच महादेवपुत्रं संवीक्ष्य निःस्पृहम् ।
नेष्टं त्वयाऽपि हीन्द्रत्वं भव सेनापतिर्गुह ॥४५॥
एवमस्त्विति तं प्राह कार्तिकेयः शचीपतिम् ।
ततः सर्वैः सुरैर्विप्रा आदेशात्परमेष्ठिनः ॥४६॥
अभिषिक्तोऽथ विधिना सेनापत्ये तदा गुहः ।
यावद्दत्तं कुमाराय सेनापत्यं हराज्ञया ॥४७॥
हन्तुमम्यागतस्तूर्णं कुमारं तारकास्तदा ।
आगतं तं तदा वीक्ष्य लीलया पार्वतीसुतः ।
तदाहाऽऽशु महादैत्यं तूलं वह्निरिवाऽऽहवे ॥४८॥
दग्ध्वा तु तारकं घोरं पतङ्गमिव पावकः ।
ततः प्रीतमनाः स्कन्दो मातुरङ्कमुपाविशत् ॥४९॥
महादेवोऽपि भावान्वेधादीन्विष्णुना सह ।
विसृज्य गणपैः सार्धं क्षणादन्तर्हितोऽभवत् ॥५०॥३५६३॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे नारदेन्द्रसंवादादिकथनं नाम त्रिपष्टितष्टितमोऽध्यायः ॥६३॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP