संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ११

सौरपुराणं - अध्यायः ११

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
अन्यद्व्रतमिदं वक्ष्ये शृणुध्वं मुनिपुङ्गवाः ।
शिवेन कथितं साक्षात्स्वयं स्कन्दाय पृच्कृते ॥१॥
स्कन्द उवाच -
देवदेव महादेव शशाङ्ककृतशेखर ।
भर्ग विश्वेश्वरेशान कारुण्यामृतवारिधे ॥२॥
कस्य प्रसीदति क्षिप्रं केन वा ज्ञायते भवान् ।
योगस्त्वद्विषय को वा ज्ञानं त्वद्विषयं च किम् ॥३॥
सर्वमेतन्महादेव पुत्रस्नेहाद्ब्रवीहि मे ॥४॥
ईश्वर उवाच -
मद्भक्तः सर्वदा स्कन्द मत्प्रियो न गुणाधिकः ।
सर्वाशी सर्वभक्षी वा सर्वाचारविलोपकः ॥५॥
मत्परो वाड्मनःकायैर्मुक्त एव न संशयः ।
नाहं प्रसन्नस्तपसा न दानेन न चेज्यया ॥६॥
तुष्टोऽहं भक्तिलेशेन क्षिप्रं यच्छेपरं पदम् ।
त्रिपुण्ड्रधारी सततं शान्तो रुद्राक्षकङ्कणः ॥७॥
निर्दम्भः सत्यसंकल्पो भक्तः स्यादुत्तमो मम ।
सूर्यवह्नीन्दुभक्तानामुत्तमो वैष्णवः परः ॥८॥
वैष्णवानां सहस्रेभ्यः शिवभक्तो विशिष्यत ।
यदि पापरतः क्रूरः स्वाश्रमाचारवर्जितः ॥९॥
मम भक्तो यदि भवेत्पूज्यो मान्यः स एव हि ।
येऽपि दम्भं समाश्रित्य भक्तानामुपजीविका ॥१०॥
संसारात्तेऽपि मुच्यन्ते किं पुनर्मत्परा जनाः ।
भद्धक्तांना च माहात्म्यं को वा जानाति तत्त्वतः ॥११॥
जानेऽहं त्वं च जानासि नन्दी जानाति वा गुह ।
मार्गस्थो वाऽप्यमार्गस्थो मूर्खो वा पण्डितोऽपि वा ॥१२॥
मम भक्तो यदि भवेत्सर्वस्मादधिको हि सः ।
भक्तः प्रियो मे सततं यथा त्वं क्रौञ्चसूदन ॥१३॥
तस्मात्तत्पूजनाद्वत्स पूजितोऽहं न संशयः ।
मद्भक्तं द्वेष्टि यो मोहात्स मां द्वेष्टि सनातनम् ॥१४॥
तं षूजयति यो भक्त्या स मां पूजितवान्गुह ।
भक्तिरष्टविधा स्कन्द सर्वशास्त्रेषु पठ्यते ॥१५॥
तामहं कथयिष्यामि भक्तिं भवविनाशिनीम् ।
भद्भक्तजनावात्सल्यं पूजायाश्चानुमोदनम् ॥१६॥
स्वयमभ्यर्चनं भक्त्या ममार्थे चाङ्गवेष्टितम् ।
मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया ॥१७॥
ममानुस्मरणं नित्यं यश्च मां नोपजीवति ।
भक्तिरष्टविधा ह्येषा यस्गिल्लेंशोंऽपि वर्तते ॥१८॥
स विप्रेन्द्रो मुनिः श्रीमान्स यतिः स च पण्डितः ।
तस्मै दानं सदा देयं तस्माद्ग्राह्यं षडानन ॥१९॥
सकृदभ्यर्चयेन्मां यो भक्तिलेशसमन्वितः ।
स महापातकैर्मुक्तो मम लोके महीयते ॥२०॥
स्वहस्तहृतपुष्पाणि मामुद्दिश्य प्रयच्छति ।
तद्दानं सर्वदानानामुत्तमं परिपठ्यते ॥२१॥
मयि भक्तिः सदा कार्या भवपाशविमोचनी ।
भक्तिगम्यस्त्वहं वत्स मम योगो हि दुलंभः ॥२२॥
योगात्संजायते ज्ञानं योगो मय्येकचित्तता ।
ज्ञानं स्वरूपमेव स्याच्चिद्रूपमजमव्ययम् ॥२३॥
आनन्दमजरं शुद्धमज्ञानेन तिरोहितम् ।
वेदान्तवाक्यबोधेन तच्चाज्ञानं निवर्तते ॥२४॥
ज्ञानं नैवाऽऽत्मनो धर्मो न गुणो वा कथंचन ।
ज्ञानस्वरूपमेवाऽऽत्मा नित्यः सर्वगतः शिवः ॥२५॥
अहमात्मा समस्तानां भूतानां परमेश्वरः ।
एक एव पदार्थश्च कल्पितो मयि षण्मुख ॥२६॥
अद्वैतमेकं परममात्मानं ज्ञानविग्रहम् ।
नानात्मानं प्रपश्यन्ति मायया मोहिता जनाः ॥२७॥
नासद्रूपा न सद्रूपा माया नैवोभयात्मिका ।
सदसद्भ्षामन्यरूपा मिथ्याभूता सनातना ॥२८॥
विज्ञानमेवमखिलं विश्वाकारमबुद्धयः ।
पश्यन्ति ज्ञानिनस्त्वेकमात्मरूपमिदं जगत् ॥२९॥
अहमात्मा विभुः शुद्धः स्फटिकोपलसंनिभः ।
उपाधिरहितः शान्तः स्वयंज्योतिः प्रकाशकः ॥३०॥
आत्मन्येवाखिलं भाति शुक्तिकारजतं यथा ।
शुक्तितत्त्वपरिज्ञानात्तन्नाशस्तद्वदात्मनि ॥३१॥
कर्तृत्वं नैव भोत्कृत्वमात्मनोऽस्ति कदाचन ।
अहंकाराविवेकेन कर्तृत्वमिति निश्चितम् ॥३२॥
आत्मनो नित्यमुक्तस्य निर्विभागस्य षण्मुख ।
नैवास्ति किंचित्कर्तव्यमित्याहुर्वेदवादिनः ॥३३॥
कर्तृत्वं करणस्यैव नाऽऽत्मनोऽस्ति हि तत्त्वतः ।
न तेन लिप्यते ह्यात्मा पुण्यापुण्याख्यकर्मणा ॥३४॥
बुद्ध्यादयो गुणाः सर्वे ह्यभूद्बुद्धेरहंकृतिः ।
अहंकाराच्च सूक्ष्माणि तन्मात्राणीन्द्रियानि च ॥३५॥
सूक्ष्मेभ्यः पञ्च भूतानि तेभ्यः स्थूलमिदं जगत् ।
चतुर्विशकमव्यक्तं पुरुषः पञ्चविंशकः ॥३६॥
न तस्य कार्यं करणं क्रियारूपं च विद्यते ।
स्वाज्ञानात्कथितं सर्वमात्मन्येवेति च श्रुतिः ॥३७॥
इति मद्विषयं ज्ञानं कथितं तव पुब्रक ॥३८॥४७५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवभक्तमहिमादिकथनं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP