शृङ्गारप्रवाहः - सुभाषित ५०१ - ५२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६. मध्या
विरम नाथ विमुञ्च ममाञ्चलं
शमय दीपमियं समया सखी ।
इति नवोढवधूवचसा युवा
मुदमगादधिकां सुरतादपि ॥५०१॥
रुद्रटस्य । (शृ.ति. १.३५फ़्, शा.प. ३६७५, सूक्तिमुक्तावलि ७७.४)
दृष्टिः स्निह्यति निर्भरं प्रियतमे वैदग्ध्यभाजो गिरः
पाणिः कुन्तलमालिकाविरचने त्यक्तान्यकार्यग्रहः ।
वक्षः संव्रियते पुनः पुनरिदं भारालसं गम्यते
जाता सुभ्रु मनोरमा तव दशा कस्मादकस्मादियम् ॥५०२॥
कस्यचित। (शृ.ति. १.३९फ़्)
यथा रोमाञ्चोऽयं स्तनभुवि लसत्स्वेदकणिको
यथा दृष्टिस्तिर्यक्पतति सहसा सङ्कुचति च ।
तथा शङ्केऽमुष्याः प्रणयिनि दरास्वादितरसं
न मध्यस्थं चेतः प्रगुणरमणीयं न च दृढम् ॥५०३॥
कस्यचित।
न वक्ति प्रेमार्द्रं न खलु परिरम्भं रचयति
स्थितौ तस्यां तस्यां करकमललीलां न सहते ।
स्मितज्योत्स्नाकान्तं मुखमभिमुखं नैव कुरुते
तथाप्यन्तः प्रीतिं वपुषि पुलकोऽस्याः कथयति ॥५०४॥
कालिदासस्य ।
यदन्योन्यप्रेमप्रवणयुवतीमन्मथकथा
समारम्भे स्तम्भीभवति पुलकैरञ्चिततनुः ।
तथा मन्ये धन्यं परमसुरतब्रह्मनिरतं
कुरङ्गाक्षी दीक्षागुरुमकृत कञ्चित्सुकृतिनम् ॥५०५॥
नरसिंहस्य । (सु.र. ३७४)
७. प्रगल्भा
गण्डे मण्डनमात्मनैव कुरुते वैदग्ध्यगर्वादसौ
मुक्त्वा हेमविभूषणानि तनुते तालीदलेषु ग्रहम् ।
मन्दा कन्दुकखेलनाय भजते शारीषु शिक्षारसं
तन्व्याश्चित्रमकाण्ड एव लडहे भावे निबद्धो भरः ॥५०६॥
कस्यचित। (सूक्तिमुक्तावलि ५१.१२)
दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते
सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वपुः ।
स्पर्शः कण्टककोटिभिः कुटिलया लीलावने नेष्यते
धत्ते दिक्षु निरीक्षणं स्मितमुखी पारावतानां रुतैः ॥५०७॥
बिल्हणस्य । (Vच्८.८६, शा.प. ३२७८, सूक्तिमुक्तावलि ५१.१४)
प्रियस्य रूढप्रणयस्य काचित्
किञ्चित्समुत्सार्य नितम्बबिम्बम् ।
भ्रुवस्त्रिभागेन तरङ्गितेन
सलीलमर्धासनमादिदेश ॥५०८॥
प्रवरसेनस्य ।
मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैर्
अलसवलितैरङ्गन्यासैर्महोत्सवबन्धुभिः ।
असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितैस्
त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥५०९॥
रुद्रटस्य । (शृ.ति. १.४२द्)
अभ्यस्य स्मरदंशकौशलमुपाध्यायीरुपास्यावयोः
क्रीडाम्नायरहस्यवस्तुनि मिथोऽप्यासीज्जिगीषा सखि ।
उत्कम्पोत्पुलकाङ्गसंभृतघनस्वेदाबिलस्तन्मया
सद्यो निष्प्रतिभः स मन्मथकथावैतण्डिकः खण्डितः ॥५१०॥
योगोकस्य ।
८. नवोढा
प्रथयति मयि व्याजेनाङ्गं ह्रिया च निगूहते
क्षिपति विशदस्निग्धं चक्षुः क्षणाच्च नियच्छति ।
मम च सहते दृष्टा दृष्टिं पुनश्च समीहते
वहति हृदये कामं बाला न चोज्झति वामताम् ॥५११॥
चन्द्रस्वामिनः ।
पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥५१२॥
अमरुकस्य । (अमरु ३८, स्व२०५६, शा.प. ३६७३; स.क.आ.ं ११२८; Vइश्नुदस्तो उ.नी. ५.१९)
निर्यन्त्रणं विहर मा चिरस्य प्रसीद
किं वेपसे पवनवेल्लितवल्लरीव ।
क्षीरोदचञ्चलदृगञ्चलपातमात्रैः
क्रीते जने क इव संभ्रमसंनिरोधः ॥५१३॥
गोवर्धनस्य ।
अवचनं वचनं प्रियसंनिधा
वनवलोकनमेव विलोकनम् ।
अवयवावरणं च यदञ्चल
व्यतिकरेण तदङ्गसमर्पणम् ॥५१४॥
कालिदासस्य । (सु.र. ५०२, सूक्तिमुक्तावलि ८८.१८)
क्षिपति दयिते दृष्टिं वक्रामपाङ्गतरङ्गिणीं
हसितमनभिव्यक्तं मध्ये दधाति कपोलयोः ।
मृदु मदकलं किञ्चिद्वाक्यं कथञ्चन मुञ्चती
हरति हृदयं प्रौढेवेयं नवापि नितम्बिनी ॥५१५॥
उमापतिधरस्य ।
९. विस्रब्धनवोढा
दृष्टा दृष्टिमधो ददाति कुरुते नालापमाभाषिता
शय्यायां परिवृत्य तिष्ठति बलादालिङ्गिता वेपते ।
निर्यान्तीषु सखीषु वासभवनान्निर्गन्तुमेवेहते
जाता वामतयैव मेऽद्य सुतरां प्रीत्यै नवोढा प्रिया ॥५१६॥
श्रीहर्षदेवस्य । (ण्न्३.४, स्व२०७२, सु.र. ४६९, शा.प. ३६७२, सूक्तिमुक्तावलि ७७.२)
अपि भुजलतोत्क्षेपादस्याः कृतं परिरम्भणं
प्रियसहचरीक्रीडालापे श्रुता अपि सूक्तयः ।
नवपरिणयव्रीडावत्या मुखोन्नतियत्नतोऽप्य्
अलसवलिता तिर्यग्दृष्टिः करोति महोत्सवम् ॥५१७॥
कालिदासनन्दिनः ।
हरति रुचिरं गाडाश्लेषे यदङ्गकमङ्गना
स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने ।
यदपि बहुशः पृष्टा किञ्चिद्ब्रवीत्यपरिस्फुटं
रमयतितरां तेनैवासौ मनोभिनवा वधूः ॥५१८॥
कस्यचित। (स्व२०६१)
प्रगल्भस्त्रीशिक्षानियमितभयव्रीडमुदित
स्मरोत्कम्पस्वेदं वहति घनमालिङ्गति मुहुः ।
मुहुः स्वादु स्वैरं वदति निभृतं पश्यति मुहुश्
चिरादेवं धन्या नचिरपरिणीता रमयति ॥५१९॥
प्रियाकरस्य ।
दन्ताग्रग्रहणं करोति शनकैर्नैवाधरे खण्डनं
कण्ठे श्लिष्यति निर्भरग्रहविधिं कर्तुं पुनः शङ्कते ।
तिष्ठत्येव रतान्तरेष्वभिमुखं नैवाभियुङ्क्ते स्वयं
निष्प्रागल्भ्यतयैव वल्लभतरो यूनां नवोढाजनः ॥५२०॥
भ्रमरदेवस्य । (स्व२१११)
N/A
References : N/A
Last Updated : November 11, 2016
TOP