शृङ्गारप्रवाहः - सुभाषित १०८१ - ११००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
१२२. नायिकाचाटुः
पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोर्
नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे ।
लीयन्ते कवरीषु बान्धवजनव्यामोहजातस्पृहा
दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥१०८१॥
पाणिनेः । (सु.र. ४५१, सूक्तिमुक्तावलि ६५.१०)
शोणस्तेऽधरपल्लवो मधुमती कान्तिर्गिरो नर्मदा
दृष्टिर्दिव्यतरङ्गिणीव वदनश्रीश्चन्द्रभागोपमा ।
गम्भीरा नलिनाक्षि नाभिरपि चेत्तद्देहदाहज्वर
च्छेदाय क्षणमात्रमम्बुजमुखि त्वं बाहुदा मे भव ॥१०८२॥
दङ्कस्य ।
मुग्धे नार्जुनतां जहाति नयनं मध्ये तथा कृष्णतां
द्वे रूपे दधतामुना विरचितः कर्णेन ते विग्रहः ।
तत्कृष्णार्जुनकर्णविग्रहवती साक्षात्कुरुक्षेत्रतां
यातासि त्वदवाप्तिरेव तरुणि श्रेयः किमन्यत्परम् ॥१०८३॥
सत्यबोधस्य ।
तव नयनवन्नीलाम्भोजं तवाननवच्छशी
तव हसितवज्ज्योत्स्नाद्योतस्तवोदितवत्सुधा ।
सुभगमधुराभोगैस्तव वराङ्गकवीक्षितैः
प्रणयिनि जगत्संभाराणां त्वमित्युपमास्पदम् ॥१०८४॥
प्रियंवदस्य ।
स्वर्गे स्वर्गादपि समधिके साधनं बोधयन्तः
सन्तु प्रीत्यै मम पुनरमी तन्वि खेदाय वेदाः ।
येषां मध्ये कथयति न चेदीदृशः कोऽप्युपाय
खेदापायः प्रणयिवचनप्रेष्यतां येन यामि ॥१०८५॥
सागरस्य ।
१२३. मधुपानम्
अर्धपीतमदिरा मणिपारी
शोभतां कथमतीव तरुण्याः ।
चुम्बितैरधिकपाटलभासा
पूरिताधरमयूखभरेण ॥१०८६॥
जयमाधवस्य । (स्व२०१७)
संक्रान्तमाननमवेक्ष्य मृगेक्षणायाः
पर्यां चलन्नयनमासवपूरितायाम् ।
सेन्दीवरं कमलमित्यवगम्य दूराद्
भृङ्गो ममज्ज सहसैव यथार्थनामा ॥१०८७॥
काश्मीरप्रचण्डमाधवस्य । (स्व२०२०)
कान्ताननाधररसामृततृष्णयेव
बिम्बं पपात शशिनो मधुभाजने यत।
निःशेषिते मधुनि लज्जितचित्तवृत्ति
तत्तन्मुखाब्जजितकान्तितया विनष्टम् ॥१०८८॥
विभाकरशर्मणः । (स्व२०१८, सूक्तिमुक्तावलि ७३.५)
पीतस्तुषारकिरणो मधुनैव सार्धम्
अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।
मानान्धकारमपि मानवतीजनस्य
नूनं बिभेद यदसौ प्रससाद सद्यः ॥१०८९॥
[अमरु ४९, Sभ्२०२२, शा.प. ३६४८]
ललितकण्ठनिवेशितदोर्लतः
करतलाकलितैकपयोधरः ।
मृगदृशो दशनच्छदवासितं
मधु पपौ मदनोत्सव ईश्वरः ॥१०९०॥
मुञ्जस्य ।
१२५. शयनाधिरोहणम्
अथ रतिरभसादलीकनिद्रा
मधुरविघूर्णितलोचनोत्पलाभिः ।
शयनतलमशिशिर्यन्वधूभिः
सह मदमन्मथमन्थरा युवानः ॥१०९१॥
रत्नाकरस्य ।
प्रत्यङ्गं प्रति कर्म नर्मपरया कृत्वाधिरूढं स्मराद्
औत्सुक्यं प्रविलोक्य मोहनविधौ चातुर्यमालोक्य च ।
सद्यो यावकमण्डनं न रचितं पादे कुरङ्गीदृशा
स्मेरान्ता विशदच्छदे च शयने दृष्टिः समारोपिता ॥१०९२॥
राजशेखरस्य । (शृ.ति. २.६७ब्)
पर्यङ्काङ्कतलं गते रतिरसाव्यक्तक्रमं वल्लभे
तद्भावावगतौ तयापि रतये स्वं चित्तमाविष्कृतम् ।
नात्ते यन्मणिकुण्डले परिहृतो हारः समं कङ्कणैः
काञ्चीदाम निराकृतं विचकिलैः क्ÿप्तश्च नो शेखरः ॥१०९३॥
तस्यैव ।
काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्
मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया
पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१०९४॥
अमरोः [अमरु १८, Sभ्२०८१, सूक्तिमुक्तावलि ७७.११]
तत्र हंसधवलोत्तरच्छदं
जाह्वईपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः
शारदाभ्रमिव रोहिणीपतिः ॥१०९५॥
कालिदासस्य । (Kस्८.८२)
१२५. आलिङ्गनम्
उद्भिन्नसात्त्विकविकारपरिप्लवानि
सद्यस्तिरस्कृतमनोभववेदनानि ।
तन्वि त्वद गपरिरम्भसुखामृतानि
प्रादुर्भवन्तु पुनरागतजीवितानि ॥१०९६॥
कस्यचित। (Kस्८.८२)
समैव सर्वत्र चरित्रपद्धतिर्
निजः पुरो वा गुणिनां न विद्यते ।
चकार हारः
यतः परीरम्भविधौ द्वयोरपि ॥१०९७॥
नारायणस्य ।
द्रष्टुं केतकगर्भपत्रसुभगां ûरुप्रभामुत्सुकस्
तत्संवाहनलीलया च शनकैरुत्क्षिप्तचण्डातकः ।
लज्जामुग्धविलोचनं स्मितसुधानिर्धौतबिम्बाधरं
किंचिद्विश्लथबाहुबन्धनमसावालिङ्गितो बालया ॥१०९८॥
कस्यचित। (सु.र. ६०१)
भयमुकुलितचक्षुः संततोत्कम्पनीवी
मणिमुखरितकाञ्चिः श्वासशुष्यन्मुखश्रीः ।
अशिथिलभुजबन्धन्यासनिःशङ्कलग्ना
मम वपुषि विशन्तीवायताक्षी धिनोति ॥१०९९॥
उमापतिधरस्य ।
आनन्दानतमीलिताक्षियुगलं किं त्वं मुधा तिष्ठसि
ज्ञातोऽसि प्रकटप्रकम्पपुलकैरङ्गैः स्थितं मुग्धया ।
मुञ्चैनां जड किं न पश्यसि गलद्बाष्पाम्बुधौताननां
सख्यैवं गदिते विमुच्य रभसात्कण्ठे विलग्नो मया ॥११००॥
कस्यापि ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP