संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|शृङ्गारप्रवाहः|
सुभाषित १३०१ - १३२०

शृङ्गारप्रवाहः - सुभाषित १३०१ - १३२०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


१६६. वर्षारात्रिः

आसारान्तमृदुप्रवृत्तमरुतो मेघोपलिप्ताम्बरा
विद्युत्पातमुहूर्तदृष्टककुभः सुप्तेन्दुताराग्रहाः ।
धाराक्लिन्नकदम्बसम्भृतसुधामोदोद्वहाः प्रोषितैर्
निःसम्पातविसारिदर्दुररवा नीताः कथं रात्रयः ॥१३०१॥

कस्यचित। (सु.र. २२०, योगेश्वरस्य)

खद्योतच्छुरितान्धकारपटलाः स्पष्टस्फुरद्विद्युतः
स्निग्धध्वानविभावितोरुजलदोन्नाहा रटत्कम्बवः ।
एताः केतकभेदवासितपुरोवाताः पतद्वारयो
न प्रत्येमि जनस्य यद्विरहिणो यास्यन्ति सोढुं निशाः ॥१३०२॥

कस्यचित। (सु.र. २२८)

विष्वग्वातविकीर्णशीकरकणाः स्फारस्फुरद्विद्युतस्
तत्कालप्रतिबुद्धकेतकशिखागन्धोपदिग्धाम्बराः ।
दात्यूहप्रसवप्रणादितदिशः पान्थप्रियाणामभूर्
उन्मथ्नन्ति मनांसि मांसलघनध्वानोत्तरा रात्रयः ॥१३०३॥

कस्यापि ।

अम्भःसंभृतिमन्थराम्बुदरवैः शालूरगर्जाभर
प्रारब्धप्रियविप्रयुक्तयुवतीजीवग्रहे भीषणाः ।
विद्युद्दन्तुरितान्धकारपटला गाम्भीर्यबद्धारव
स्थैर्योन्मूलनशक्तयः कथममी निर्यान्ति वर्षानिशाः ॥१३०४॥

माधवस्य ।

विद्युद्दीधितिभेदभीषणतमःस्तोमान्तराः सन्तत
श्यामाम्भोधररोधसङ्कटवियद्विप्रोषितज्योतिषः ।
खद्योतोन्नमितोपकण्ठतरवः पुष्णन्ति गम्भीरतां
आसारोदकमत्तकीटपटलीक्वाणोत्तरा रात्रयः ॥१३०५॥

कस्यचित। (सु.र. २५२)

शरदारम्भः

शुभ्राभ्रं गगनं क्वचित्प्रविकसत्काशा वनाली क्वचित्
तोयोन्मुक्ततृणाग्रपङ्कजटिला क्षेत्रान्तभूमिः क्वचित।
किं च क्वापि चकोरचारुचरणन्यासार्द्रमुद्राभृतो
दृश्यन्ते तटिनीविमुक्तपुलिनच्छेदा मनोहारिणः ॥१३०६॥

संग्रामदत्तस्य ।

आगत्य संप्रति वियोगविसंष्ठुलाङ्गीं
अम्भोजिनीं क्वचिदपि क्षपितत्रियामः ।
एतां प्रसादयति पश्य शनैः प्रभाते
तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥१३०७॥

कस्यचित।

धूम्रैः पक्षपुटैः पतद्भिरभितः पाण्डूदरैः खञ्जनैर्
आयान्तीं शरदं किरन्ति रभसाल्लाजैरिवाशाङ्गनाः ।
मङ्गल्यं च कलङ्कपल्लवमुखं स्मेरानना शर्वरी
ज्योत्स्नादर्पणगौरमिन्दुकलशं व्योमाङ्गने न्यस्यति ॥१३०८॥

कस्यचित। (सु.र. २६९)

हंसानां निवहेषु यैः कवलितैरासज्यते कूजताम्
अन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो निस्वनः ।
ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो
निर्याताः कमलाकरेषु बिसिनीकन्दाङ्कुरग्रन्थयः ॥१३०९॥

कमलायुधस्य । (सु.र. २८४, ध्व. ४.७)

परावृत्ता हंसाः सपदि विगतं कल्मषमपां
प्रसन्नः शीतांशुः प्रसृतपटवः सूर्यकिरणाः ।
दिशो दीर्घीभूता गगनमसिवर्णं च विपुलं
नियन्ता विन्ध्याद्रेर्विदितमुदितोऽसौ मुनिवृषा ॥१३१०॥

योगेश्वरस्य ।
१६८. शरत्

यद्यप्यहं शशिमुखि विमलाम्बरश्रीर्
बन्दूकपुष्परुचिराधरपल्लवापि ।
धिङ्मां तथापि गलितोरुपयोधरत्वाद्
इत्युच्चकैः शरदियं वहतीव तापम् ॥१३११॥

मनोविनोदस्य । (सु.र. २६७)

वराहानाक्षेप्तुं कलमकवलप्रीत्यभिमुखा
निदानीं सीमानं प्रति विहितमञ्चाः स्वपतिभिः ।
कपोतैः पोतार्थं कृतनिविडनीडा विटपिनः
शिवाभिर्वल्मीकाः खरनखरखातोदरमृदः ॥१३१२॥

शतानन्दस्य । (सु.र. २८५)

तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः
शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।
तोयं प्रसीदति मुनेरिव धर्मचिन्ता
कामी दरिद्र इव शोषमुपैति पङ्कः ॥१३१३॥

भासस्य । (सु.र. २७६, स्व१८२१, शा.प. ३९०७, सूक्तिमुक्तावलि ६२.३)

कान्तानां वदनेन्दुकान्तिमधुना धत्ते सुधादीधितिः
खेलत्खञ्जनपङ्क्तयो मृगदृशां तन्वन्ति नेत्रश्रियम् ।
पद्मानि श्वसितस्य सौरभमभिद्रुह्यन्ति वामभ्रुवाम्
अभ्यस्यन्ति च राजहंसवनिताः पीनस्तनीनां गतिम् ॥१३१४॥

लक्ष्मीधरस्य ।

वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसङ्काशकाशाः
काशाभा भान्ति तासां नवपुलिनगताः श्रीनदीहंसहंसाः ।
हंसाभाम्भोदयुक्तः शरदमलपटुर्मेदिनीचन्द्र चन्द्रश्
चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥१३१५॥

वामनस्य ।

१६९. शरन्नदी

पारावारप्रकटपुलिनाभ्युगमोत्तारपाण्डुर्
लीलावर्तस्तिमितचलनव्यञ्जितोद्देशनिम्ना ।
क्रौञ्चीजानुद्वयसपयसामन्तरीपोदरेषु
स्वच्छा वेणिर्मदयति मनः शारदीनां नदीनाम् ॥१३१६॥

कस्यचित।

खेलत्खञ्जनलोचनाः खगनखक्षुण्णान्तरीपो रवः
स्रस्तैः शैवलकुन्तलैरविरतस्मेरारविन्दाननाः ।
वर्षारात्रिघनोपभोगकथयेवालीर्मरालाङ्गनाः
प्रीणन्त्यद्य शरत्प्रभातमिलिता नीचस्वनैरापगाः ॥१३१७॥

कस्यचित।

पूर्वं वारिधप्रसङ्गसमये नापूरितैः कुक्षिभिर्
या गर्भिण्य इवातिभारगुरवो निःसेव्यतामागताः ।
एताः संप्रति ता विभान्त्यकुलषाः क्षामाभिरामाङ्गिकाः
कूजत्सारसपोतपीतपयसो नद्यः प्रसूता इव ॥१३१८॥

काश्मीरकभोगकर्मणः । (स्व१८२५, सूक्तिमुक्तावलि ६२.२१)

पूरापायप्रकटविटपाः पर्यटत्खञ्जरीटा
क्रान्तप्रान्ताः प्रसभविलसद्राजहंसावतंसाः ।
अद्यानन्दं दधति विचरच्चक्रवाकोग्रचञ्चु
ग्रासत्रासप्रचलशफरस्मेरनीरास्तटिन्यः ॥१३१९॥

डिम्बोकस्य । (सु.र. २८८)

इमास्ताः कस्तूरीप्रखरखुरटङ्कक्षततटास्
तटिन्योऽरण्यानीमनु कमलिनीच्छन्नसलिलाः ।
जले यासां हंसा बिसकिसलयग्रासरसिकाः
सलीलं लीयन्ते युवतिगतिविद्यैकगुरवः ॥१३२०॥

मन्मोकस्य ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP